← अध्यायः ०६७ हरिवंशपुराणम्
अध्यायः ०६८
वेदव्यासः
अध्यायः ०६९ →
श्रीकृष्णेन पारिजातवृक्षस्य आदातुं नारदस्य माध्यमे इन्द्राय संदेषप्रेषणम्, दातुं अनिच्छुकं इन्द्रं गदया ताडनस्य चेतावनी

अष्टषष्टितमोऽध्यायः

वैशम्पायन उवाच
ततो जिगमिषुं तत्र नारदं मुनिसत्तमम् ।
प्रोवाच भगवान् विष्णुरप्रमेयपराक्रमः ।। १ ।।
महर्षे धर्मतत्त्वज्ञ स्वर्गं गत्वा त्वयानघ ।
दृष्ट्वा सदस्यान् देवस्य त्रिपुरघ्नस्य धीमतः ।। २ ।।
अनाज्ञया मद्वचनाद् विज्ञाप्यः पाकशासनः ।
सम्भावयित्वा भ्रातृत्वं पौराणं वेत्सि यन्मुने ।। ३ ।।
यमस्राक्षीन्मुनिश्रेष्ठो भगवान् कश्यपस्तरुम् ।
पारिजातं पुरादित्याः सुखार्थं धर्मसत्तमः ।। ४ ।।
स पुण्यमतिसौभाग्यं ददाति तरुसत्तमः ।
तव दत्तं पुरा दानं व्रतेन तरुमुत्तमम् ।। ५ ।।
देवीभिर्धर्मनित्याभिर्धर्मार्थममरोत्तम ।
दत्तं श्रुत्वाभिकाङ्क्षन्ति दातुं पत्न्यो मम प्रभो ।। ६ ।।
पुण्यार्थं दानधर्मार्थं मम प्रीत्यर्थमेव च ।
आनाययद् द्वारवतीं पारिजातं महाद्रुमम् ।। ७ ।।
दत्ते दाने पुनः स्वर्गं तरुं त्वं नेतुमर्हसि ।
स वाच्य एवं भगवान् बलभिद् भगवंस्त्वया ।। ८ ।।
तथा तथा प्रयत्नश्च कार्योऽस्मिन्मुनिसत्तम ।
यथा तरुवरं दद्यात् पारिजातं सुरेश्वरः ।। ९ ।।
तत्र दूतगुणं तावत् पश्यामस्ते तपोधन ।
सम्भाव्या सर्वकृत्यानां सम्पद्धि त्वयि मे मता ।। 2.68.१० ।।
एवं नारायणेनोक्तो नारदो भगवानृषिः ।
प्रहस्योवाच केशिघ्नमिदं वाक्यं तपोधनः ।। ११ ।।
बाढमेवं प्रवक्ष्यामि यदुमुख्य सुरेश्वरम् ।
न तु दास्यति देवेन्द्रः पारिजातं कथंचन ।। १२ ।।
मन्दरं पर्वतश्रेष्ठं दानवैस्त्रिदशैस्तथा ।
निक्षिप्य तोयधौ पूर्वं पारिजातः समाहृतः ।। १३ ।।
मन्दरात् पर्वतश्रेष्ठान्नयितुं प्रेषितः पुरा ।
पारिजातं हरेणापि लोककर्त्रा जनार्दन ।। १४ ।।
स्वयं विज्ञापितो गत्वा ततः शक्रेण शङ्करः ।
आक्रीडद्रुम उद्याने शच्याः स्यादिति याचितः ।। १५।।
तथास्त्विति वरो दत्तो महादेवेन चानघ ।
न च नीतः पारिजातो मन्दरं चित्रकन्दरम् ।। १६ ।।
क्रीडावृक्षः स शच्येति व्यपदेशेन मोक्षितः ।
महेन्द्रेण महाबाहो पारिजातस्ततः पुरा ।। १७ ।।
प्रियार्थमुमया साक्षात् पारिजातवनं हरः ।
गव्यूतिशतविस्तीर्णं मन्दरस्यैव कन्दरम् ।। १८ ।।
न तत्र सूर्यभाः कृष्ण प्रविशन्ति नगोत्तमे ।
न च चन्द्रप्रभा शीता नैव कृष्ण सदागतिः ।। १९ ।।
शीतोष्णे कृतस्तत्र शैलपुत्र्या भवन्ति हि ।
स्वयंप्रभं वनं तद्धि महादेवस्य तेजसा ।। 2.68.२० ।।
वर्जयित्वा महादेवौ सगणौ यदुनन्दन ।
मां चान्यस्तद्वनं दिव्यं न प्रयाति कथंचन ।। २१ ।।
स्रवन्ति तत्र वार्ष्णेय पारिजाताः समन्ततः ।
सर्वरत्नानि मुख्यानि मनसा काङ्क्षितानि वै ।। २२ ।।
गणास्तान्युपभुञ्जन्ति प्रवराणां महात्मनाम् ।
आज्ञया देवदेवस्य लोकनाथस्य केशव ।। २३ ।।
पारिजाताद् बहुगुणं फलं तेषां तथा वनम् ।
अभिमानं प्रभाश्चैव गुणा भूरिगुणास्तथा ।। २४ ।।
मूर्तिमन्तश्च ते वृक्षाः सोमं देवं वृषध्वजम् ।
उपतिष्ठन्ति सततं प्रवरैः सह केशव ।। २५ ।।
रौद्रेण तेजसा जुष्टा दुःखैर्हीनाः सुखान्विताः ।
तरवो मन्दरे ते हि दयिताः शैलकन्यया ।। २६ ।।
प्रविवेशान्धको नाम घोरस्तत्र महाबलः ।
दैतेयो वरदानेन दर्पितः पापनिश्चयः ।।२७ ।।
स हतो देवदेवेन हरेणामित्रघातिना ।
अवध्यः सर्वभूतानां वृत्राद् दशगुणं बली ।। २८ ।।
एवं दुःखं न ते देव पारिजातं प्रदास्यति ।
पुष्कराक्ष सहस्राक्षः सत्यमेतद् ब्रवीमि ते ।। २९ ।।
सततं सहितो देव्या शच्या स हि वरद्रुमः ।
सर्वकामप्रदः कृष्ण तथेन्द्राय महौजसे ।। 2.68.३० ।।
श्रीभगवानुवाच
मुने तद् युज्यते साधु महादेवेन धीमता ।
यच्छचीकारणं कृत्वा न नीतः स तरुः पुरा ।। ३१ ।।
स ज्येष्ठः सर्वभूतानां लोककृत् प्रभवोऽव्ययः ।
पारावर्यस्य सदृशं कृतवानिति मे मतिः ।। ३२ ।।
अहं यवीयान् देवस्य सर्वथा बलघातिनः ।
लालनीयश्च भगवञ्जयन्त इव सत्तम ।। ३३ ।।
सर्वथा भगवांस्तावदुपायैर्बहुविस्तरैः ।
करोतु यत्नं प्रीत्यर्थं शक्तो ह्यसि तपोधन ।। ३४ ।।
मया मुने प्रतिज्ञातं पुण्यार्थं सत्यभामया ।
स्वर्गादिहानयिष्यामि पारिजातमिति प्रभो ।। ३५ ।।
मया तदनृतं कर्तुं कथं शक्यं तपोधन ।
नानृतं हि वचो विप्र प्रोक्तं पूर्वं मयानघ ।। ३६ ।।
मयि भग्नप्रतिज्ञे वै लोकानां विप्लवो भवेत् ।
यन्मया हि मुनिश्रेष्ठ लोकधर्मा गुणान्विताः ।
परिधार्याः स्थितौ सर्वे स कथं ह्यनृतं वदेत् ।। ३७।।
न देवगन्धर्वगणा न राक्षसा
न चासुरा नैव च यक्षपन्नगाः ।
मम प्रतिज्ञामपहन्तुमुद्यता
मुने समर्थाः खलु भद्रमस्तु ते ।। ३८ ।।
स पारिजातं यदि न प्रदास्यति
प्रयाच्यमानो भवतामरेश्वरः ।
ततः शचीव्यामृदितानुलेपने
गदां विमोक्ष्यामि पुरंदरोरसि ।। ३९ ।।
इति प्रवाच्यो यदि सामपूर्वकं
प्रयाच्यमानो न तरुं प्रयच्छति ।
सुनिश्चयं मद्गमनाय सर्वथा
त्वयापि कार्यः खलु तत्र निश्चयः ।। 2.68.४० ।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि पारिजातहरणे नारदकृष्णभाषणे अष्टषष्टितमोऽध्यायः ।। ६८ ।।