प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ०७३ हरिवंशपुराणम्
अध्यायः ०७४
वेदव्यासः
अध्यायः ०७५ →
रात्र्यां युद्धं स्थगितं कृत्वा श्रीकृष्णेन पारियात्रं पर्वतं वरदानम्, गङ्गायाः स्मरणं, बिल्वगङ्गाजलोपरि महादेवस्य आह्वानं कृत्वा बिल्वोदकेश्वरस्य पूजनं स्तुतिकरणं च, महादेवेन तस्मै अभीष्ट वरं प्रदाय दैत्यानां घातनाय आदेशं, पारियात्रपर्वतोपरि भगवतः निवासं, तस्य प्रतिमापूजनस्य महिमा

चतुःसप्ततितमोऽध्यायः

वैशम्पायन उवाच
तमारुह्य रथं कृष्णः पारियात्रं गिरिं ययौ ।
यत्रैरावतमास्थाय स्थितः सुरपतिः प्रभुः ।। १ ।।
पारियात्रो गिरिश्रेष्ठो दृष्ट्वा यान्तं जनार्दनम्।
शाणपादसमो भूत्वा प्रविवेश वसुंधराम् ।। २ ।।
प्रियार्थं वासुदेवस्य प्रभावज्ञो महात्मनः ।
तस्य प्रीतो हृषीकेशः पर्वतस्य जनाधिप ।। ३ ।।
ततः प्रयातं युद्धार्थमच्युतं कुरुनन्दन ।
सपारिजातो गरुडः पृष्ठतोऽनुययौ तदा ।। ४ ।।
प्रयुम्नः सात्यकिश्चापि गरुडस्थौ महाबलौ ।
गतावुभौ रक्षणार्थं पारिजातमरिंदमौ ।। ५ ।।
ततस्त्वस्तं गतः सूर्यः प्रवृत्ता रजनी नृप ।
उपस्थितं पुनर्युद्धं शक्रकेशवयोरिह ।। ६ ।।
सुप्रहाराहतं दृष्ट्वा विष्णुरैरावतं गजम् ।
नातिकल्पं महातेजा देवराजानमब्रवीत् ।। ७ ।।
गरुडाभिहतः पूर्वं नातिकल्पो गजोत्तमः ।
ऐरावतो महाबाहो रात्रिश्च समुपोह्यते ।। ८ ।।
श्वः प्रभाते यथाकामं प्रवर्तस्व यथेच्छसि ।
एवमस्त्विति कृष्णं तु देवराजोऽब्रवीत् प्रभुः ।। ९ ।।
उवास पुष्कराभ्याशे देवराजः पुरंदरः ।
व्रजं गिरिमयं कृत्वा धर्मात्मा नृपसत्तम ।। 2.74.१० ।।
ब्रह्मा ततो जगामाथ कश्यपश्च महानृषिः ।
अदितिश्चैव सर्वे च देवा मुनय एव च ।। ११ ।।
साध्या विश्वे च कौरव्य नासत्यावश्विनौ तथा ।
आदित्याश्चैव रुद्राश्च वसवश्च जनेश्वर ।। १२ ।।
नारायणश्च पुत्रेण सात्यकेन च भारत ।
सहोवास गिरौ रम्ये पारियात्रे प्रहृष्टवत् ।। १३ ।।
यत् स शाणप्रमाणोऽस्य भक्त्या समभवन्नृप ।
वरं प्रादात् ततस्तस्य पर्वतस्य महाद्युतिः ।। १४ ।।
शाणपाद इति ख्यातो भविष्यसि महागिरे ।
पुण्येनार्द्धेन तुल्यो हि पुण्यो हिमवतः शुभः ।। १५ ।।
एवमेव च भूयिष्ठो भव पर्वतसत्तम ।
मेरुणा स्पर्धमानो हि बहुचित्रमृगैर्युतः ।
रमे त्वां पश्यमानोऽहं बहुचित्रनगायुतम् ।। १६ ।।
तथा दत्त्वा वरं तस्य पर्वतस्य तु केशवः ।
दध्यौ गङ्गां सरिच्छ्रेष्ठां नमस्कृत्वा वृषध्वजम् ।। १७ ।।
अथाययौ विष्णुपदी स्मृता कृष्णेन भारत ।
सम्पूज्यतां ततः कृष्णः कृत्वा स्नानमधोक्षजः ।। १८ ।।
उदकं च गृहायाथ बिल्वं च हरिरव्ययः ।
देवमावाहयामास रुद्रं सर्वेश्वरेश्वरम् ।। १९ ।।
ततः प्राप्तो महादेवः सोमः सप्रवरो विभुः ।
तस्थावुपरि बिल्वस्य तथा गङ्गोदकस्य च ।। 2.74.२० ।।
तं पारिजातकुसुमैरर्चयामास केशवः ।
तुष्टाव वाग्भिरीशेशं सर्वकर्तारमीश्वरम् ।। २१ ।।
श्रीकृष्ण उवाच
रुद्रो देव त्वं रुदनाद् रावणाच्च रोरूयमाणो द्रावणाच्चातिदेवः ।
भक्तं भक्तानां वत्सलं वत्सलानां कीर्त्या युङ्क्ष्वेशाद्य प्रपद्ये शरण्यम्।। २२ ।।
ग्राम्यारण्यानां त्वं पतिस्त्वं पशूनां ख्यातो देवः पशुपतिः सर्वकर्मा ।
नान्यस्त्वत्तः परमो देवदेव जगत्पतिः सुरवीरारिहन्ता ।। २३ ।।
यस्मीदीशो महतामीश्वराणां भवानाद्यः प्रीतिदः प्राणदश्च ।
तस्माद्धि त्वामीश्वरं प्राहुरीशं संतो विद्वांसः सर्वशास्त्रार्थतज्ज्ञाः ।। २४ ।।
भूतं यस्माज्जगदत्यन्त धीर त्वत्तोऽव्यक्तादक्षरादक्षरेश ।
तस्मात् त्वामाहुर्भव इत्येव भूतं सर्वेश्वराणां महतामप्युदारम् ।। २५ ।।
यस्माज्जितैरभिषिक्तोऽसि सर्वैर्देवासुरैः सर्वभूतैश्च देव ।
महेश्वरं विश्वकर्माणमाहुस्त्वां वै सर्वे तेन देवातिदेवम् ।। २६ ।।
पूज्यो दैवैः पूज्यसे नित्यदा वै शश्वच्छ्रेयः काङ्क्षिभिर्वरदामेयवीर्य ।
तस्माद् विख्यातो भगवान् देवदेवः सतामिष्टः सर्वभूतात्मभावी ।। २७ ।।
भूमित्रयाणां देव यस्मात् प्रतिष्ठा पुनर्लोकानां भावनामेयकीर्तिः ।
त्र्यम्बकेति प्रथमं तेन नाम तवाप्रमेय त्रिदशेशनाथ ।। २८ ।।
शर्वः शत्रूणां शासनादप्रमेयस्तथा भूयः शासनाच्चेश्वरेण ।
सर्वव्यापित्वाच्छङ्करत्वाच्च सद्भिः शब्दस्येशानः श्रीकरार्काग्र्यतेजाः ।। २९ ।।
संसक्तानां नित्यदा यत् करोषि शमं भ्रातृव्यान् यद्यनैषीः समस्तान् ।
तस्माद् देवः शङ्करोऽस्यप्रमेयः सद्भिर्द्धर्मज्ञैः कथ्यसे सर्वनाथ ।। 2.74.३० ।।
दत्तः प्रहारः कुलिशेन पूर्वं तवेशान सुरराज्ञातिवीर्य ।
कण्ठे नैल्यं तेन ते यत् प्रवृत्तं तस्मात् ख्यातस्त्वं नीलकण्ठेति कल्पः ।।३१।।
यल्लिङ्गाङ्कं यच्च लोके भगाङ्कं सर्वं सोम त्वं स्थावरं जङ्गमं च ।
प्राहुर्विप्रास्त्वां गुणिनं तत्त्वविज्ञास्तथा ध्येयामम्बिकां लोकधात्रीम् ।। ३२ ।।
वैदैर्गीता सा हि तत् त्वं प्रसूता यज्ञो दीक्षाणां योगिनां चातिरूपः ।
नात्यद्भुतं त्वत्समं देव भूतं भूतं भव्यं भवदेवाथ नास्ति ।। ३३ ।।
अहं ब्रह्मा कपिलो योऽप्यनन्तः पुत्राः सर्वे ब्रह्मणश्चातिवीराः ।
त्वत्तः सर्वे देवदेव प्रसूता एवं सर्वेशः कारणात्मा त्वमीड्य ।।३४ ।।
इति संस्तूयमानस्तु भगवान् गोवृषध्वजः ।
प्रसार्य दक्षिणं हस्तं नारायणमथाब्रवीत् ।। ३५ ।।
मनीषितानामर्थानां प्राप्तिस्ते सुरसत्तम ।
पारिजातं च हर्तासि मा भूत् ते मनसो व्यथा ।। ३६।।
यथा मैनाकमाश्रित्य तपस्त्वमकरोः प्रभो ।
तथा मम वरं कृष्ण संस्मृत्य स्थैर्यमाप्नुहि ।। ३७ ।।
अवध्यस्त्वमजेयश्च मत्तः शूरतरस्तथा ।
भवितासीत्यवोचं यत् तत् तथा न तदन्यथा ।। ३८ ।।
यश्च स्तवेन मां भक्त्या स्तोष्यतेऽमरसत्तम ।
त्वया कृतेन धर्मज्ञ धर्मभाक् सम्भविष्यति ।
समरे च जयं विष्णो प्राप्य पूजां तथोत्तमाम् ।। ३९ ।।
बिल्वोदकेश्वरो नाम भविताहमिहानघ ।
देवेश्वर त्वयास्थापि देव सिद्धोपयाचनः ।। 2.74.४० ।।
इहस्थोपौषितो विद्वान् भक्तिमान् मम केशव ।
त्रिरात्रमीप्सिताँल्लोकान् गमिष्यति जनार्दन ।। ४१ ।।
अविन्ध्या नाम देशेऽस्मिन्गङ्गाचैव भविष्यति ।
गङ्गास्नानसमं स्नानं मन्त्रतो भविता तथा ।। ४२ ।।
षटपुरं नाम नगरं दानवानां जनार्दन ।
अत्रान्तर्द्धरणीदेशे पराक्रम्य महाबलाः ।। ४३ ।।
एते दैत्या दुरात्मानो जगतो देव कण्टकाः ।
छन्ना वसन्ति गोविन्द सानावस्य महागिरेः ।। ४४ ।।
अवध्या देवदेवानां वरेण ब्रह्मणोऽनघ ।
मानुषान्तरितस्तस्मात् त्वमेताञ्जहि केशव ।। ४५ ।।
एवमुक्त्वा महादेवस्तत्रैवान्तरधीयत ।
परिष्वज्य महात्मानं वासुदेवं जनाधिप ।। ४६ ।।
ततो याते महादेवे प्रभातायां नराधिप ।
तस्यां निशायां गोविन्दो भूयः पर्वतमब्रवीत् ।। ४७ ।।
तवाधः पर्वतश्रेष्ठ निवसन्ति महासुराः ।
अवध्या देवदेवानां वरेण ब्रह्मणः पुरा ।। ४८ ।।
निर्गमिष्यन्ति ते नैव मया रुद्धा महाबलाः ।
द्वारे निरुद्धे तत्रैव विनङ्क्ष्यन्ति ममाज्ञया ।। ४९ ।।
त्वयि संनिहितश्चाहं भविष्यामि महागिरे ।
अधिष्ठाय महाघोरान् निवत्स्यामि च पर्वत ।। 2.74.५० ।।
आरुह्य मूर्ध्नि मद्रूपं दृष्ट्वा पर्वतसत्तम ।
गोसहस्रप्रदानस्य फलं प्राप्स्यति शाश्वतम् ।। ५१ ।।
त्वत्तोऽश्मभिश्च प्रतिमां कारयित्वा हि भक्तितः ।
शुश्रूषयन्ति ये नित्यं मम यास्यन्ति ते गतिम् ।। ५२ ।।
इति तं पर्वतं कृष्णो वरदोऽनुगृहीतवान् ।
तदाप्रभृति देवेशस्तत्र संनिहितोऽच्युतः ।। ५३ ।।
पाषाणैः प्रतिमां तात कारयित्वा च कौरव ।
शुश्रूषन्ति कृतात्मानो विष्णुलोकाभिकाङ्क्षिणः ।।५४।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि पारिजातहरणे श्रीकृष्णकृतशिवस्तुतिर्नाम चतुःसप्ततितमोऽध्यायः ।। ७४ ।।