हरिवंशपुराणम्/पर्व २ (विष्णुपर्व)/अध्यायः ०७५

← अध्यायः ०७४ हरिवंशपुराणम्
अध्यायः ०७५
वेदव्यासः
अध्यायः ०७६ →
इन्द्रोपेन्द्रस्य पुनर्युद्धं, उत्पातानां प्राकट्यं, ब्रह्मणः आज्ञातः कश्यपादितिभ्यां मध्ये आगत्वा युद्धस्य निवारणस्य उद्योगम्, तदनन्तरं सर्वेषां स्वर्गगमनम्, अदित्या आज्ञया शच्या उपहारं गृहीत्वा पारिजातसहितं द्वारकागमनम्, पारिजातेन द्वारकावासिनां प्रसन्नता, सत्यभामायाः पुण्यकव्रते प्रतिग्रहाय श्रीकृष्णेन नारदस्य स्मरणम्

पञ्चसप्ततितमोऽध्यायः

वैशम्पायन उवाच
ततो रथवरं कृष्णः समारुह्य महामनाः ।
बिल्वोदकेश्वरं देवं नमस्कृत्य ययौ नृप ।। १ ।।
महेन्द्रमाह्वयामास रथस्थो मधुसूदनः ।
सत्कृतं पुष्कराभ्याशे सर्वैर्देवगणैः सह ।। २ ।।
ततः शक्रो जयन्तोऽथ हरिभिर्युक्तमुत्तमम् ।
आरुरोह रथं देवः सर्वकामप्रदः सताम् ।। ३ ।।
ततो रथस्थयोर्युद्धमभवत् कुरुनन्दन ।
देवयोर्दैवयोगेन पारिजातकृते तदा ।। ४ ।।
ततोऽहनद् रणे विष्णुर्बाणैः शत्रुबलार्दनः ।
सैन्यानि देवराजस्य बाणजालैरजिह्मगैः ।। ५ ।।
उपेन्द्रं न महेन्द्रोऽथ नैव विष्णुः सुरेश्वरम् ।
ताडयामासतुर्वीरौ शस्त्रैः शक्तावपि प्रभो ।। ६ ।।
एकैकमश्वं दशभिर्महेन्द्रस्य जनार्दनः ।
विव्याध विशिखैस्तीक्ष्णैरस्त्रयुक्तैर्जनेश्वर ।। ७ ।।
शैब्याद्यानपि देवेन्द्रः शरैरमरसत्तमः ।
छादयामास राजेन्द्र घोरैरस्त्राभिमन्त्रितैः ।। ८ ।।
स च बाणसहस्रैश्च कृष्णो गजमवाकिरत् ।
गरुडं च महातेजा बलभिद्धरिवाहनम् ।। ९ ।।
भूयिष्ठाभ्यां रथाभ्यां तौ तदहः शत्रुदारणौ ।
युयुधाते महात्मानौ नारायणसुराधिपौ ।। 2.75.१० ।।
चकम्पे वसुधा कृत्स्ना नौर्जलस्थेव भारत ।
दिशां दाहेन दिग्देशाः संवृताश्च समन्ततः ।। ११ ।।
चेलुर्गिरिवराश्चैव पेतुश्च शतशो द्रुमाः ।
पेतुश्च धरणीपृष्ठे मर्त्या धर्मगुणान्विताः ।। १२ ।।
निर्घाताः शतशश्चैव पेतुस्तत्र नराधिप ।
ऊहुश्च सरितः सर्वाः प्रतिस्रोतो विशाम्पते ।। १३ ।।
विष्वग्वाता ववुश्चैव पेतुरुल्काश्च निष्प्रभाः ।
मुहुर्मुहुर्भूतसंघा रथनादेन मोहिताः ।। १४ ।।
प्रजज्वाल जले चैव वह्निर्जनपदेश्वर ।
युयुधुश्च ग्रहैः सार्द्धं ग्रहा नभसि सर्वतः ।। १५ ।।
ज्योतींषि शतशः पेतुः स्वर्गाच्च धरणीतले ।
दिशां गजाः प्रकुपिता नागाश्च धरणीतले ।। १६ ।।
गर्दभारुणसंस्थानैश्छिन्नाभ्रैश्चावृतं नभः ।
विनदद्भिर्महारावैरुल्काशोणितवर्षिभिः ।। १७ ।।
न भूर्न द्यौर्न गगनं नरेन्द्रवृषभाभवन् ।
स्वस्थानि सुरवीरौ तु दृष्ट्वा युद्धगतौ तदा ।। १८ ।।
जेपुर्मुनिगणा मन्त्राञ्जगतो हितकाम्यया ।
ब्राह्मणाश्च महात्मानो ह्यतिष्ठंस्तेषु सत्वराः ।। १९ ।।
ततो ब्रह्मा महातेजाः कश्यपं वाक्यमब्रवीत् ।
गच्छ बध्वा सहादित्या पुत्रौ वारय सुव्रत ।। 2.75.२०।।
स तथेति तदा देवमुक्त्वा पद्मभवं मुनिः ।
जगाम रथमास्थाय तस्थौ नरवरान्तिके ।। २१ ।।
स्थितं तु कश्यपं दृष्ट्वा सहादित्या तदन्तरा ।
उभौ रथाभ्यां धरणीमवतीर्णौ महाबलौ ।। २२ ।।
न्यस्तशस्त्रौ च तौ वीरौ ववन्दतुररिंदमौ ।
पितरौ धर्मतत्त्वज्ञौ सर्वभूतहिते रतौ ।। २३ ।।
उभौ गृहीत्वा हस्ताभ्यामदितिस्त्वब्रवीद् वचः ।
असोदराविवैवं किमन्योन्यं हन्तुमिच्छतः ।। २४ ।।
स्वल्पमर्थं पुरस्कृत्य प्रवृत्तमतिदारुणम् ।
सदृशं नेति पश्यामि सर्वथा मम पुत्रयोः ।। २५ ।।
श्रोतव्यं यदि मातुश्च पितुश्चैव प्रजापतेः ।
न्यस्तशस्त्रौ स्थितौ भूत्वा कुरुतं वचनं मम ।। २६ ।।
तथेत्युक्त्वा च तौ देवौ स्नातुकामौ महाबलौ ।
गङ्गां जग्मतुरेवाथ प्रजल्पन्तौ परस्परम् ।। २७ ।।
शक्र उवाच
त्वं प्रभुर्लोककृत् कृत्स्नराज्येऽहं स्थापितस्त्वया ।
स्थापयित्वा कथं नाम पुनर्मामवमन्यसे ।।२८।।
भ्रातृत्वमुपगम्यैव ज्येष्ठत्वं चाप्यपोह्य च ।
कथं कमलपत्राक्ष निर्वाणं कर्तुमिच्छसि ।। २९ ।।
स्नातौ तु जाह्नवीतोये पुनरभ्यागतौ नृप ।
यत्रादितिः कश्यपश्च महात्मानौ दृढव्रतौ ।। 2.75.३० ।।
प्रियसंगमनं नाम तं देशं मुनयोऽवदन् ।
यत्र तौ संगतौ चोभौ पितृभ्यां कमलेक्षणौ ।। ३१ ।।
ततः शक्रस्य कौरव्य दत्त्वा वाचाभयं तदा ।
यत्र देवगणाः सर्वे समेता धर्मचारिणः ।। ३२ ।।
ततो ययुर्विमानैस्तु देवाः सर्वे त्रिविष्टपम् ।
ऋद्ध्या परमया युक्तास्तेषामेवानुरूपया ।। ३३ ।।
कश्यपश्चादितिश्चैव तथा शक्रजनार्दनौ ।
विमानमेकमारुह्य गता राजंस्त्रिविष्टपम् ।। ३४ ।।
ते शक्रसदनं प्राप्ता रम्यं सर्वगुणान्वितम् ।
ऊषुरेकत्र कौरव्य मुदिता धर्मचारिणः ।। ३५ ।।
शची तु कश्यपं पत्न्या सहितं धर्मवत्सला ।
उपाचरन्महात्मानं सर्वभूतहिते रतम् ।। ३६ ।।
ततस्तस्यां प्रभातायां रजन्यामब्रवीद्धरिम् ।
अदितिर्धर्मतत्त्वज्ञा सर्वभूतहितं वचः ।। ३७ ।।
उपेन्द्र द्वारकां गच्छ पारिजातं नयस्व च ।
वध्वा सम्प्रापयस्वेश पुण्यकं हृदये स्थितम् ।। ३८ ।।
पुण्यके सत्यया प्राप्ते पुनरेष त्वया तरुः ।
नन्दने पुरुषश्रेष्ठ स्थाप्यः स्थाने यथोचिते ।। ३९ ।।
एवमस्त्विति कृष्णेन देवमाता यशस्विनी ।
उक्ता धर्मगुणैर्युक्ता नारदेन महात्मना ।। 2.75.४० ।।
ततोऽभिवाद्य पितरं मातरं च जनार्दनः ।
महेन्द्रं सह शच्याथ प्रतस्थे द्वारकां प्रति ।। ४१ ।।
ददौ कृष्णाय पौलोमी नियोगान् कुरुनन्दन ।
सर्वासामेव कृष्णस्य भार्याणां धर्मचारिणी ।। ४२ ।।
दिव्यानां सर्वरत्नानां वाससां च मनस्विनी ।
नानारागविरक्तानां सदैवारजसामपि ।। ४३ ।।
भार्याणां च सहस्राणि यानि षोडश माधवे ।
प्रतिगृह्य महातेजाः प्रययौ द्वारकां प्रति ।। ४४ ।।
सम्पूज्यमानो द्युतिमान् खेचरैः पुण्यकर्मभिः ।
ससात्यकिः सपुत्रश्च प्राप्तो रैवतकं गिरिम् ।। ४५।।
स तत्र स्थापयित्वा च पारिजातं वरद्रुमम् ।
सात्यकं प्रेषयामास द्वारकां द्वारशालिनीम् ।। ४६।।
श्रीकृष्ण उवाच
पारिजातमिहानीतं महेन्द्रसदनान्मया ।
निवेदय महाबाहो भैमानां भैमवर्द्धन ।। ४७ ।।
अद्य द्वारवतीं चैव पारिजातमहं द्रुमम् ।
प्रवेशयिष्ये नगरे शोभा प्रक्रियतां शुभा ।। ४८ ।।
इत्युक्तः सात्यको गत्वा तथोक्त्वा पुनरागतः ।
कुमारैर्नागरैः सार्द्धं साम्बप्रभृतिभिः प्रभो ।। ४९ ।।
ततोऽग्रतः पारिजातमारोप्य गरुडे तदा ।
प्रद्युम्नो द्वारकां रम्यां विवेश रथिनां वरः ।। 2.75.५० ।।
शैब्यादिहययुक्तेन रथेनानुययौ हरिः ।
तस्याथ रथमुख्येन सात्यकः साम्ब एव च ।। ५१ ।।
ये त्वन्ये नृप वार्ष्णेया यानैर्बहुविधैस्तथा ।
ययुः प्रहृष्टास्तत् कर्म पूजयन्तो महात्मनः ।। ५२ ।।
सात्यकाद् विस्तरं श्रुत्वा यादवा नागरास्तथा ।
विस्मयं परमं जग्मुरप्रमेयस्य कर्मणा ।। ५३ ।।
तं दिव्यकुसुमं वृक्षं दृष्ट्वाऽऽनर्तनिवासिनः ।
राजन् न ततृपुर्हृष्टाः पश्यमाना महोदयम् ।। ५४ ।।
तमद्भुतमचिन्त्यं च मदकेलिकलाण्डजम् ।
वृक्षोत्तमं पश्यतां वै वृद्धानामगमज्जरा ।। ५५ ।।
ये त्वन्धचक्षुषः सर्वे तेऽभवन् दिव्यचक्षुषः ।
विरोगा रोगिणश्चासन् घ्रात्वा गन्धं वनस्पतेः ।। ५६ ।
लपन्तः कौकिलाञ्छ्वेताञ्छ्रुत्वाऽऽनर्तनिवासिनः ।
बभूवुर्हृष्टमनसो ववन्दुश्च जनार्दनम् ।। ५७ ।
नानाविधानि तूर्याणि गेयानि मधुराणि च ।
शुश्रुवुस्तस्य वृक्षस्य नातिदूरं गता नराः ।। ५८ ।
योऽयं संकल्पयामास गन्धं हृद्यं नरस्तथा ।
स तदैव तमाजघ्रे पारिजातसमुद्भवम् ।। ५९ ।।
ततः प्रविश्य रम्यां तु द्वारकां यदुनन्दनः ।
वसुदेवं महात्मानं ददृशे देवकीं तथा ।। 2.75.६० ।।
कुकुराधिपतिं चैव बलं भ्रातरमेव च ।
वृद्धाश्च यादवानां ये मानार्हानमरोपमान् ।। ६१ ।।
विसृज्य तान् वै भगवाननादिनिधनोऽच्युतः ।
सम्पूज्य च यथान्यायं स्वमेव भवनं गतः ।। ६२ ।।
स सत्यभामया वासं विवेश मधुसूदनः ।
पारिजातं तरुश्रेष्ठं ग्रहाय गदपूर्वजः ।। ६३ ।।
सा देवी पूजयामास प्रहृष्टा वासवानुजम्।
प्रतिजग्राह तं चापि पारिजातं महाद्रुमम् ।। ६४ ।।
मनीषितेन स तरुरल्पो भवति भारत ।
महांश्च वासुदेवस्य तदद्भुतमभून्महत् ।। ६५ ।।
कदाचिद् द्वारकां सर्वां प्रच्छादयति भारत ।
कदाचिद्धस्तधार्यस्तु भवत्यङ्गुष्ठसंनिभः ।। ६६ ।।
ननन्द सत्या कौरव्य देवी प्राप्य मनोरथम् ।
पुण्यकार्थं तु सम्भारान् सम्भर्तुमुपचक्रमे ।। ६७ ।।
यानि द्रव्याणि कौरव्य जम्बूद्वीपे तु कानिचित्।
योग्यानि तानि कृष्णेन सम्भृतानि महात्मना ।। ६८ ।।
मुनिं तदासस्मृतवान् स नारदं
जनार्दनः सर्वगुणोचितं वशी ।
प्रतिग्रहार्थं व्रतकस्य सत्यया
यथोपदिष्टस्य पुरंदरानुजः ।। ६९।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि पारिजातानयने पञ्चसप्ततितमोऽध्यायः ।। ७५ ।।