प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ०७५ हरिवंशपुराणम्
अध्यायः ०७६
वेदव्यासः
अध्यायः ०७७ →
सत्यभामया पुण्यकव्रते श्रीकृष्णस्य नारदाय दानम्, नारदेन निष्क्रयं गृहीत्वा श्रीकृष्णस्य मोचनम् एवं तस्मात् वरप्राप्तिः, श्रीकृष्णेन सम्बन्धिभ्यः पारिजातं दर्शयित्वा पुनः स्वर्गे प्रेषणम्

षट्सप्ततितमोऽध्यायः

वैशम्पायन उवाच
अथ कृष्णस्य कौरव्य ध्यातमात्रस्तपोधनः ।
आजगाम मुनिश्रेष्ठो नारदो वदतां वरः ।। १ ।।
सम्पूजयित्वा विधिवद् वासुदेवो विशाम्पते ।
प्रतिग्रहार्थं विधिवच्छ्रीमान् भक्त्या न्यमन्त्रयत्।। २ ।।
ततः काले च सम्प्राप्ते स्नातं देवो महामुनिम् ।
सम्पूज्य माल्यैर्गन्धैश्च भोजयामास भारत ।। ३ ।।
सार्वकामिकमन्नाद्यं सर्वभूतकृदन्वयः ।
सत्यया प्रियया सार्द्धं प्रहृष्टेनान्तरात्मना ।। ४ ।।
पुष्पदामावसृज्याथ कण्ठे कृष्णस्य भाविनी ।
बबन्ध कृष्णं सुभगा पारिजाते वनस्पतौ ।। ५ ।।
अद्भिर्ददौ नारदाय ततोऽनुज्ञाप्य केशवम् ।
देवी धेनुसहस्रं च काञ्चनस्य च पर्वतम् ।। ६ ।।
हिरण्यरूप्यमिश्रं च मणिरत्नप्रभस्य च ।
तिलमिश्रस्य च तथा धान्यैरन्यैर्युतस्य च ।। ७ ।।
प्रतिगृह्य तु तत् सर्वं नारदो मुनिसत्तमः ।
स सम्प्रहृष्टो भुक्त्वाथ भूयः केशवमब्रवीत् ।। ८ ।।
भोः केशव मदीयस्त्वमद्भिर्दत्तोऽसि सत्यया ।
स त्वं मामनुगच्छस्व कुरु यद्यद् ब्रवीम्यहम् ।। ९ ।।
प्रथमः पक्ष इत्येवमब्रवीन्मधुसूदनः ।
व्रजन्तमनुवव्राज नारदं च जनार्दनः ।। 2.76.१० ।।
परिहासं बहुविधं कृत्वा मुनिवरस्तदा ।
तिष्ठस्व गच्छामीत्युक्त्वा परिहासविचक्षणः ।। ११ ।।
अपनीय ततः कण्ठात् पुष्पदामैनमब्रवीत् ।
कपिलां गां सवत्सां भो निष्क्रयार्थं प्रयच्छ मे ।। १२ ।।
कृष्णाजिनं तिलैः पूर्णं प्रयच्छ च सकाञ्चनम् ।
एषोऽत्र निष्क्रयः कृष्ण विहितो वृषकेतुना ।। १३ ।।
तथेत्युक्त्वा हृषीकेशस्तथा चक्रे जनाधिप ।
स उवाच मुनिश्रेष्ठं हसित्वा मधुसूदनः ।। १४ ।।
वरं वरय धर्मज्ञ यस्ते नारद काङ्क्षितः ।
तत्ते दातास्मि धर्मज्ञ परा प्रीतिर्हि मे त्वयि ।। १५ ।।
नारद उवाच
नित्यमेवास्तु मे प्रीतो भवान् विष्णो सनातन ।
त्वत्प्रसादात्तु सालोक्यं व्रजेयं ते महामते ।। १६ ।।
अयोनिजो भवेयं ते नारायण सतां गते ।
भवेयं ब्राह्मणश्चैव पुनर्जात्यन्तरेष्वपि ।। १७ ।।
एवमस्त्विति तं देवो विष्णुः प्रोवाच भारत ।
तुतोष च ततो धीमान् नारदो मुनिसत्तमः ।। १८ ।।
षोडश स्त्रीसहस्राणि विष्णोरतुलतेजसः ।
निमन्त्रितानि कौरव्य सत्यया हरिक्रान्तया ।। १९ ।।
तासां ददौ संनियोगमेकैकं हरिवल्लभा ।
शच्या यो वासुदेवस्य पुरा दत्तो नराधिप ।। 2.76.२० ।।
पारिजातो वसंस्तत्र ततः प्रववृते तदा ।
आज्ञया वासुदेवस्य नारदेन महात्मना ।। २१ ।।
निमन्त्रिता गणाः सर्वे केशवेन महात्मना ।
विभूतिं पारिजातस्य ददृशुः कुरुनन्दन ।। २२ ।।
पाण्डवांश्चानयामास सहैव पृथया हरिः ।
द्रौपद्या च महातेजास्तथैव च सुभद्रया ।। २३ ।।
श्रुतश्रवां च ससुतां भीष्मकं ससुतं तदा ।
अन्यानपि च कौरव्य मित्रसम्बन्धिबान्धवान् ।। २४ ।।
रेमे च सह पार्थेन फाल्गुनेन जनार्दनः ।
सान्तःपुरो महातेजाः परमर्द्ध्यावसन्नृप ।। २५ ।।
संवत्सरे ततो याते केशिहामरसत्तमः ।
पारिजातं पुनः स्वर्गमानयत् सर्वभावनः ।। २६ ।।
तत्रादितिं कश्यपं च दृष्ट्वा स्वजननीं प्रभुः ।
शक्रेण सहितो धीमानप्रमेयपराक्रमः ।। २७ ।।
तमुवाचादितिर्माता प्रणतं मधुसूदनम् ।
सौभ्रात्रमस्तु वामेवं नित्यं चामरसत्तम ।। २८ ।।
मनोरथं मम त्वं च पूरयस्व जनार्दन ।
तथेत्येवाब्रवीत्कृष्णस्ततो मातरमात्मवान् ।। २९ ।।
आमन्त्रयित्वा पितरौ देवराजानमब्रवीत्।
वासुदेवो महातेजाः कालप्राप्तमिदं वचः ।। 2.76.३० ।।
महादेवेन देवेश संदिष्टोऽस्मि महात्मना ।
भन्तर्भूमितलेऽवध्यानसुरान् प्रति मानद ।। ३१ ।।
तदितो दशरात्रेण हन्ताहमसुरोत्तमान् ।
तत्रोपविष्टान् स्थातव्यं प्रवरेण महात्मना ।। ३२ ।।
जयन्तेन च वीरेण दानवानां जिघांसया ।
एकोऽत्र मानुषो देवो देवपुत्रस्तथा परः ।। ३३ ।।
अवध्याः किल ते देवैर्ब्रह्मणो वरदर्पिताः ।
अस्माभिः किल हन्तव्या मानुषत्वमुपागतैः ।। ३४ ।।
तथेति कृष्णं स हरिः प्रीतरूपस्तथाव्रवीत्।
सस्वजाते ततो देवावन्योन्यं जनमेजय ।। ३५ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि पारिजातहरणे स्वर्गे पारिजातस्थापने षट्सप्ततितमोऽध्यायः ।। ७६ ।।