प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ०८१ हरिवंशपुराणम्
अध्यायः ८२
वेदव्यासः
अध्यायः ०८३ →
षट्पुरवासिनां असुराणां संक्षेपेण परिचयः, तेभ्यः ब्रह्मणा शिवेन च वरदानम्

द्व्यशीतितमोऽध्यायः

जनमेजय उवाच
वैशम्पायन धर्मज्ञ व्यासशिष्य तपोधन ।
पारिजातस्य हरणे षट्पुरं परिकीर्तितम् ।। १ ।।
निवासोऽसुरमुख्यानां दारुणानां तपोधन ।
तेषां वधं मुनिश्रेष्ठ कीर्तयस्वान्धकस्य च ।। २ ।।
वैशम्पायन उवाच
त्रिपुरे निहते वीर रुद्रेणाक्लिष्टकर्मणा ।
तत्र प्रधाना बहवो बभूवुरसुरोत्तमाः ।। ३ ।।
शराग्निना न दग्धास्ते रुद्रेण त्रिपुरालयाः ।
षष्टिः शतसहस्राणि न न्यूनान्यधिकानि च ।। ४ ।।
ते ज्ञातिवधसंतप्ताश्चक्रुर्वीराः पुरा तपः ।
जम्बूमार्गे सतामिष्टे महर्षिगणसेविते ।। ५ ।।
आदित्याभिमुखा वीराः सहस्राणां शतं समाः ।
वायुभक्षा नृपश्रेष्ठ स्तुवन्तः पद्मसम्भवम् ।। ६ ।।
तेषामुदुम्बरं राजन् गण एकः समाश्रितः ।
वृक्षं तत्रावसन् वीरास्ते कुर्वन्तो महत्तपः ।। ७ ।।
कपित्थवृक्षमाश्रित्य केचित्तत्रोषिताः पुरा ।
सृगालवाटीस्त्वपरे चेरुरुग्रं तथा तपः ।। ८ ।।
वटमूले तथा चेरुस्तपः कौरवनन्दन ।
अधीयन्तो परं ब्रह्म वटं गत्वासुरात्मजाः ।। ९ ।।
तेषां तुष्टः प्रजाकर्ता नरदेव पितामहः ।
वरं दातुं सुरश्रेष्ठः प्राप्तो धर्मभृतां वरः ।। 2.82.१० ।।
वरं वरयतेत्युक्तास्ते राजन् पद्मयोनिना ।
नेषुस्तद्वरदानं तु द्विषन्तस्त्र्यम्बकं विभुम् ।। ११ ।।
इच्छन्तोऽपचितिं गन्तुं ज्ञातीनां कुरुनन्दन ।
तानुवाच ततो ब्रह्मा सर्वशः कुरुनन्दन ।। १२ ।।
विश्वस्य जगतः कर्तुः संहर्तुश्च महात्मनः ।
कः शक्तोऽपचितिं गन्तुं मास्तु वोऽत्र वृथा श्रमः।।१३।।
अनादिमध्यनिधनः सोमो देवो महेश्वरः ।
तमासूय सुखं स्वर्गे वस्तुमिच्छन्ति येऽसुराः।। १४ ।।
ते नेषुस्तत्र केचित् तु दुरात्मानो महासुराः ।
अथेषुरपरे राजन्नसुरा भव्यभावनाः ।। १५ ।।
नेषुर्ये सुदुरात्मानस्तानुवाच पितामहः ।
वरयध्वं वरं वीरा रुद्रक्रोधमृतेऽसुराः ।। १६ ।।
ते ऊचुः सर्वदेवानामवध्याः स्याम हे विभो ।
पुराणि षट् च नो देव भवन्त्यन्तर्महीतले ।। १७ ।।
सर्वकामसमृद्धार्थं षटपुरं चास्तु नः प्रभो ।
वयं च षट्पुरं गत्वा वसेम च सुखं विभो ।। १८ ।।
रुद्रादुग्रं भयं न स्याद् येन नो ज्ञातयो हताः ।
निहतं त्रिपुरं दृष्ट्वा भीताः स्म तपसां निधे ।। १९ ।।
पितामह उवाच
असुरा भवतावध्या देवानां शङ्करस्य च ।
न बाधिष्यथ चेद्विप्रान् सत्पथस्थान्सतां प्रियान्।।2.82.२०।।
विप्रोपघातं मोहाच्चेत् करिष्यथ कथंचन ।
नाशं यास्यथ विप्रा हि जगतः परमा गतिः ।। २१ ।।
नारायणाद् बिभेतव्यं कुर्वद्भिर्ब्राह्मणाहितम् ।
सर्वभूतेषु भगवान् हितं धत्ते जनार्दनः ।। २२ ।।
ते गता असुरा राजन् ब्रह्मणाथ विसर्जिताः ।
येऽपि भक्ता महादेवमसुरा धर्मचारिणः ।। २३ ।।
स्वयं हि दर्शनं तेषां ददौ त्रिपुरनाशनः ।
श्वेतं वृषभमारुह्य सोमः सप्रवरः प्रभुः ।
उवाचेदं च भगवानसुरान् स सतां गतिः ।। २४ ।।
वैरमुत्सृज्य दम्भं च हिंसां चासुरसत्तमाः ।
मामेव चाश्रितास्तस्माद् वरं साधु ददामि वः ।। २५ ।।
यैर्दीक्षिताः स्थ मुनिभिः सत्क्रियापरमैर्द्विजैः ।
सह तैर्गम्यतां स्वर्गः प्रीतोऽहं वः सुकर्मणा ।। २६ ।।
 इह ये चैव वत्स्यन्ति तापसा ब्रह्मवादिनः ।
अपि कापित्थिका वृक्षे तेषां लोको यथा मम।।२७।।
इह मासान्तपक्षान्तौ यः करिष्यति मानवः ।
वानप्रस्थेन विधिना पूजयन् मां तपोधनाः ।। २८ ।।
वर्षाणां स सहस्रं तु तपसां प्राप्स्यते फलम् ।
कृत्वा त्रिरात्रं विधिवल्लप्स्यते चेप्सितां गतिम्।। २९ ।।
अर्कद्वीपे निवसतो द्विगुणं तद् भविष्यति ।
न विदेशे च भद्रं वो वरमेतद् ददाम्यहम् ।। 2.82.३० ।।
श्वेतवाहननामानं यश्च मां पूजयिष्यति ।
सर्वतो भयचित्तोऽपि गतिं स मम यास्यति ।। ३१ ।।
औदुम्बरान् वाटमूलान् द्विजान् कापित्थिकानपि।
तथा सृगालवाटीयान् धर्मात्मानो दृढव्रतान् ।। ३२ ।।
मुनींश्च ब्रह्मवादीयान् सविशेषेण ये नराः ।
पूजयिष्यन्ति सततं ते यास्यन्तीप्सितां गतिम् ।।३३।।
इत्युक्त्वाथ महादेवो भगवाञ्छ्वेतवाहनः ।
तैरेव सहितः सर्वै रुद्रलोकं जगाम वै ।। ३४ ।।
जम्बूमार्गं गमिष्यामि जम्बूमार्गे वसाम्यहम् ।
एवं संकल्पमानोऽपि रुद्रलोके महीयते ।। ३५ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि षट्पुरवधे द्व्यशीतितमोऽध्यायः ।। ८२ ।।