हरिवंशपुराणम्/पर्व २ (विष्णुपर्व)/अध्यायः ०८३

← अध्यायः ०८२ हरिवंशपुराणम्
अध्यायः ८३
वेदव्यासः
अध्यायः ०८४ →
ब्रह्मदत्तस्य यज्ञे वसुदेवदेवकीभ्यामागमनं, दैत्यैः ब्रह्मदत्तस्य कन्यकानां अपहरणं, प्रद्युम्नेन तासां रक्षा, नारदस्य कथनेन दैत्येभिः क्षत्रियनरेशानां स्वपक्षे मेलनम्, श्रीकृष्णस्य षट्पुरे आगमनम्

त्र्यशीतितमोऽध्यायः

वैशम्पायन उवाच
एतस्मिन्नेव काले तु चतुर्वेदषडङ्गवित् ।
ब्राह्मणो याज्ञवल्क्यस्य शिष्यो धर्मगुणान्वितः ।। १ ।।
ब्रह्मदत्तेति विख्यातो विप्रो वाजसनेयिवान् ।
अश्वमेधः कृतस्तेन वसुदेवस्य धीमतः ।। २ ।।
स संवत्सरदीक्षायां दीक्षितः षट्पुरालयः ।
आवर्तायाः शुभे तीरे सुनद्या मुनिजुष्ट्या ।। ३ ।।
सखा च वसुदेवस्य सहाध्यायी द्विजोत्तमः ।
उपाध्यायश्च कौरव्य क्षीरहोता महात्मनः ।। ४ ।।
वसुदेवस्तत्र यातो देवक्या सहितः प्रभो ।
यजमानं षट्पुरस्थं यथा शक्रो बृहस्पतिम् ।। ५ ।।
तत् सत्रं ब्रह्मदत्तस्य बह्वन्नं बहुदक्षिणम् ।
उपासन्ति मुनिश्रेष्ठा महात्मानो दृढव्रताः ।। ६ ।।
व्यासोऽहं याज्ञवल्क्यश्च सुमन्तुर्जैमिनिस्तथा ।
धृतिमाञ्जाबलिश्चैव देवलाद्याश्च भारत ।। ७ ।।
ऋद्ध्यानुरूपया युक्तं वसुदेवस्य धीमतः ।
यत्रेप्सितान्ददौ कामान्देवकी धर्मचारिणी ।। ८ ।।
वासुदेवप्रभावेण जगत्स्रष्टुर्महीतले ।
तस्मिन् सत्रे वर्तमाने दैत्याः षट्पुरवासिनः ।। ९ ।।
निकुम्भाद्याः समागम्य तमूचुर्वरदर्पिताः ।
कार्यतां यज्ञभागो नः सोमं पास्यामहे वयम् ।
कन्याश्च ब्रह्मदत्तो नो यजमानः प्रयच्छतु ।। 2.83.१० ।।
बह्व्यः सन्त्यस्य कन्याश्च रूपवत्यो महात्मनः ।
आहूय ताः प्रदातव्याः सर्वथैव हि नः श्रुतम् ।। ११ ।।
रत्नानि च ब्रह्मदत्तो विशिष्टानि ददातु नः ।
अन्यथा तु न यष्टव्यं वयमाज्ञापयामहे ।। १२ ।।
एतच्छ्रुत्वा ब्रह्मदत्तस्तानुवाच महासुरान् ।
यज्ञभागो न विहितः पुराणेऽसुरसत्तमाः ।। १३ ।।
कथं सत्रे सोमपानं शक्यं दातुं मया हि वः ।
पृच्छतेह मुनिश्रेष्ठान् वेदभाष्यार्थकोविदान् ।। १४ ।।
कन्या हि मम या देयास्ताश्च संकल्पिता मया ।
अन्तर्वेद्यां प्रदातव्याः सदृशानामसंशयम् ।। १५ ।।
रत्नानि तु प्रयच्छामि सान्त्वेनाहं विचिन्त्यताम् ।
बलान्नैव प्रदास्यामि देवकीपुत्रमाश्रितः ।। १६ ।।
निकुम्भाद्यास्तु रुषिताः पापाः षट्पुरवासिनः ।
यज्ञवाटं विलुलुठुर्जह्रुः कन्याश्च तास्तथा । १७ ।।
तद्दृष्ट्वा सम्प्रवृत्तं तु दध्यावानकदुन्दुभिः ।
वासुदेवं महात्मानं बलभद्रं गदं तथा ।। १८ ।।
विदितार्थस्ततः कृष्णः प्रद्युम्नमिदमब्रवीत् ।
गच्छ कन्यापरित्राणं कुरु पुत्राशु मायया ।। १९ ।।
यावद् यादवसैन्येन षट्पुरं याम्यहं प्रभो ।
स ययौ षट्पुरं वीरः पितुराशाकरस्तदा ।। 2.83.२० ।।
निमेषान्तरमात्रेण गत्वा कामो महाबलः ।
कन्यास्ता मायया धीमानपजह्रे महाबलः ।। २१ ।।
मायामयीश्च कृत्वाऽन्या न्यस्तवान्रुक्मिणीसुतः ।
मा भैरिति च धर्मात्मा देवकीमुक्तवांस्तदा ।। २२ ।।
मायामयीस्ततो हृत्वा सुता ह्यस्य दुरासदाः ।
षट्पुरं विविशुर्दैत्याः परितुष्टा नराधिप ।। २३ ।।
कर्म चासार्य ते तत्र विधिदृष्टेन कर्मणा ।
यद् विशिष्टं बहुगुणं तदभूच्च नराधिप ।। २४ ।।
एतस्मिन्नन्तरे प्राप्ता राजानस्तत्र भारत ।
सत्रे निमन्त्रिताः पूर्वं ब्रह्मदत्तेन धीमता ।। २५ ।।
जरासंधो दन्तवक्त्रः शिशुपालस्तथैव च ।
पाण्डवा धार्तराष्ट्राश्च मालवाः सगणास्तथा ।। २६ ।।
रुक्मी चैवाह्वृतिश्चैव नीलो वा धर्म एव च ।
विन्दानुविन्दावावन्त्यौ शल्यः शकुनिरेव च ।। २७ ।।
राजानश्चापरे वीरा महात्मानो दृढायुधाः ।
आवासिता नातिदूरे षट्पुरस्य च भारत ।। २८ ।।
तान् दृष्ट्वा नारदः श्रीमानचिन्तयदनिन्दितः ।
क्षत्त्रस्य यादवानां च भविष्यति समागमः ।। २९ ।।
अत्र हेतुरहं युद्धे तस्मात् तत् प्रयताम्यहम् ।
एवं संचिन्तयित्वाथ निकुम्भभवनं गतः ।। 2.83.३० ।।
पूजितः स निकुम्भेन दानवैश्च तथापरैः ।
उपविष्टः स धर्मात्मा निकुम्भमिदमब्रवीत् ।। ३१ ।।
कथं विरोधं यदुभिः कृत्वा स्वस्थैरिहास्यते ।
यो ब्रह्मदत्तः स हरिः स हि तस्य पितुः सखा ।। ३२ ।।
शतानि पञ्च भार्याणां ब्रह्मदत्तस्य धीमतः ।
आनीता वसुदेवस्य सुतस्य प्रियकाम्यया ।। ३३।।
शतद्वयं ब्राह्मणीनां राजन्यानां शतं तथा ।
वैश्यानां शतमेकं च शूद्राणां शतमेव च ।। ३४ ।।
ताभिः शुश्रूषितो धीमान् दुर्वासा धर्मवित्तमः ।
तेन तासां वरो दत्तो मुनिना पुण्यकर्मणा ।। ३५ ।।
एकैकस्तनयो राजन्नेकैका दुहिता तथा ।
रूपेणानुपमाः सर्वा वरदानेन धीमतः ।। ३६ ।।
कन्या भवन्ति तनयास्तस्यासुर पुनः पुनः ।
सङ्गमे सङ्गमे वीर भर्तृभिः शयने सह ।। ३७ ।।
सर्वपुष्पमयं गन्धं प्रस्रवन्ति वराङ्गनाः ।
सर्वदा यौवने न्यस्ताः सर्वाश्चैव पतिव्रताः ।। ३८ ।।
सर्वा गुणैरप्सरसां गीतनृत्यगुणोदयम् ।
जानन्ति सर्वा दैतेय वरदानेन धीमतः ।। ३९ ।।
पुत्राश्च रूपसम्पन्नाः शास्त्रार्थकुशलास्तथा ।
स्वे स्वे स्थिता वर्णधर्मे यथावदनुपूर्वशः ।। 2.83.४० ।।
ताः कन्या भैममुख्यानां दत्ताः प्रायेण धीमता ।
अवशेषं शतं त्वेकं यदानीतं किल त्वया ।। ४१ ।।
तदर्थे यादवान् वीर योधयिष्यसि सर्वथा ।
सहायार्थं तु राजानो ध्रियन्तां हेतुपूर्वकम् ।। ४२ ।।
ब्रह्मदत्तसुतार्थं च रत्नानि विविधानि च ।
दीयन्तां भूमिपालानां सहायार्थे महात्मनाम् ।। ४३ ।।
आतिथ्यं क्रियतां चैव यै समेष्यन्ति वै नृपाः ।
एवमुक्ते तथा चक्रुरसुरास्तेऽतिहृष्टवत् ।। ४४ ।।
लब्ध्वा पञ्चशतं कन्या रत्नानि विविधानि च ।
यथार्हेण नरेन्द्रैस्ता विभक्ता भक्तवत्सलैः ।। ४५ ।।
ऋते पाण्डुसुतान् वीरान् वारिता नारदेन ते ।
निमेषान्तरमात्रेण तत्र गत्वा महात्मना ।। ४६ ।।
तुष्टैस्तैरसुरा ह्युक्ता राजन् भूमिपसत्तमैः ।
सर्वकामसमृद्धार्थैर्भवद्भिः खगमैः स्वयम् ।। ४७ ।।
अर्चिताः स्म यथान्यायं क्षत्रं किं वः प्रयच्छतु ।
क्षत्रं चार्चितपूर्वं हि दिव्यैर्वीरैर्भवद्विधैः ।। ४८ ।।
निकुम्भोऽथाब्रवीद् धृष्टः क्षत्रं सुररिपुस्तदा ।
अनुवर्णयित्वा क्षत्रस्य माहात्म्यं सत्यमेव च ।। ४९ ।।
युद्धं नो रिपुभिः सार्द्धं भविष्यति नृपोत्तमाः ।
साहाय्यं दातुमिच्छामो भवद्भिस्तत्र सर्वथा ।। 2.83.५० ।।
एवमस्त्विति तानूचुः क्षत्त्रियाः क्षीणकिल्बिषाः ।
पाण्डवेयानृते धीराञ्छ्रुतार्थान्नारदाद् विभो ।। ५१ ।।
क्षत्रियाः संनिविष्टास्ते युद्धार्थं कुरुनन्दन ।
पत्न्यस्तु ब्रह्मदत्तस्य यज्ञवाटं गता अपि ।। ५२ ।।
कृष्णोऽपि सेनया सार्द्धं प्रययौ षट् पुरं विभुः ।
महादेवस्य वचनमुद्वहन् मनसा नृप ।। ५३ ।।
स्थापयित्वा द्वारवत्यामाहुकं पार्थिवं तदा ।
स तया सेनया सार्द्धं पौराणां हितकाम्यया ।। ५४ ।।
यज्ञवाटस्याविदूरे देवो निविविशे विभुः ।
देशे प्रवरकल्याणे वसुदेवप्रचोदितः ।। ५५ ।।
दत्तगुल्माप्रतिसरं कृत्वा तं विधिवत्प्रभुः ।
प्रद्युम्नमटने श्रीमान् रक्षार्थं विनियुज्य च ।। ५६ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि षट्पुरवधे कृष्णस्य षट्पुरगमने त्र्यशीतितमोऽध्यायः ।। ८३ ।।