प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ०८४ हरिवंशपुराणम्
अध्यायः ८५
वेदव्यासः
अध्यायः ०८६ →
निकुम्भस्य जयन्तात् पराजितं भूत्वा श्रीकृष्णेन सह युद्धं, श्रीकृष्णेन अर्जुनाय निकुम्भस्य चरित्रकथनं, आकाशवाण्याः प्रेरणया सुदर्शन चक्रेण निकुम्भस्य वधकरणं एवं ब्रह्मदत्ताय षट्पुरनगरं दत्त्वा द्वारकां प्रति प्रस्थानम्

पञ्चाशीतितमोऽध्यायः

वैशम्पायन उवाच
रुद्धेषु भूमिपालेषु सानुगेषु विशाम्पते ।
आविवेशासुरांश्चाथ कश्मलं जनमेजय ।। १ ।।
दिशः प्रतस्थुस्ते वीरा वध्यमानाः समन्ततः ।
कृष्णानन्तप्रभृतिभिर्यदुभिर्युद्धदुर्मदैः ।। २ ।।
निकुम्भस्तानथोवाच रुषितो दानवोत्तमः ।
भित्त्वा प्रतिज्ञां किं मोहाद्भयार्ता यात विह्वलाः ।। ३ ।।
हीनप्रतिज्ञाः काँल्लोकान् प्रयास्यथ पलायिताः ।
अगत्वापचितिं युद्धे ज्ञातीनां कृतनिश्चयाः ।। ४ ।।
फलं जित्वेह भोक्तव्यं रिपून् समरकर्कशान् ।
हतेन चापि शूरेण वस्तव्यं त्रिदिवे सुखम् ।। ५ ।।
पलायित्वा गृहं गत्वा कस्य द्रक्ष्यथ हे मुखम् ।
दारान्वक्ष्यथ किं चापि धिग्धिक् किं किं न लज्जथ ।।६।।
एवमुक्ता निवृत्तास्ते लज्जमाना नृपासुराः ।
द्विगुणेन च वेगेन युयुधुर्यदुभिः सह ।। ७ ।।
उत्सवे युद्धशौण्डानां नानाप्रहरणैर्नृप ।
ये यान्ति यज्ञवाटं तं तान् निहन्ति धनंजयः ।। ८ ।।
यमौ भीमश्च राजा च धर्मपुत्रो युधिष्ठिरः ।
द्यां प्रयाताञ्जघानैन्द्रिः प्रवरश्च द्विजोत्तमः ।। ९ ।।
अथासुरासृक्तोयाढ्या केशशैवलशाद्वला ।
चक्रकूर्मरथावर्ता गजशैलानुशोभिनी ।। 2.85.१० ।।
ध्वजकुन्ततरुच्छन्ना स्तनितोत्क्रुष्टनादिनी ।
गोविन्दशैलप्रभवा भीरुचित्तप्रमाथिनी ।। ११ ।।
असृग्बुद्बुदफेनाढ्या असिमत्स्यतरङ्गिणी ।
सुस्राव शोणितनदी नदीव जलदागमे ।। १२ ।।
तान् दृष्ट्वैव निकुम्भस्तु वर्द्धमानांश्च शात्रवान् ।
हतान् सर्वान् सहायांश्च वीर्यादेवात्पपात ह ।। १३ ।।
स वारितो जयन्तेन प्रवरेण च भारत ।
शरैः कुलिशसंकाशैर्निकुम्भो रणकर्कशः ।। १४ ।।
संनिवृत्याथ दष्टोष्ठः परिघेण दुरासदः ।
प्रवरं ताडयामास स पपात महीतले ।। १५ ।।
ऐन्द्रिस्तं पतितं भूमौ बाहुभ्यां परिषस्वजे ।
विदित्वा चैव सप्राणं हित्वासुरमभिद्रुतः ।। १६ ।।
अभिद्रुत्य निकुम्भं च निस्त्रिंशेन जघान ह ।
परिघेणापि दैतेयो जयन्तं समताडयत् ।। १७ ।।
ततक्ष बहुलं गात्रं निकुम्भस्यैन्द्रिराहवे ।
स चिन्तयामास तदा वध्यमानो महासुरः ।। १८ ।।
कृष्णेन सह योद्धव्यं वैरिणा ज्ञातिघातिना ।
श्रावयामि किमात्मानमाहवे शक्रसूनुना ।। १९ ।।
एवं स निश्चयं कृत्वा तत्रैवान्तरधीयत ।
जगाम चैव युद्धार्थं यत्र कृष्णो महाबलः ।। 2.85.२० ।।
तं दृष्ट्वैरावतस्कन्धमास्थितो बलनाशनः ।
द्रष्टुमभ्यागतो युद्धं जहृषे सह दैवतैः ।। २१ ।।
साधु साध्विति पुत्रं च परितुष्टः स सस्वजे ।
प्रवरं चापि धर्मात्मा सस्वजे मोहवर्जितम् ।। २२ ।।
देवदुन्दुभयश्चापि प्रणेदुर्वासवाज्ञया ।
जयमानं रणे दृष्ट्वा जयन्तं रणदुर्जयम् ।। २३ ।।
ददर्शाथ निकुम्भस्तु केशवं रणदुर्जयम् ।
अर्जुनेन स्थितं सार्धं यज्ञवाटाविदूरतः ।। २४ ।।
स नादं सुमहान् कृत्वा पक्षिराजमताडयत् ।
परिघेण सुघोरेण बलं सत्यकमेव च ।। २५ ।।
नारायणं चार्जुनं च भीमं चाथ युधिष्ठिरम् ।
यमौ च वासुदेवं च साम्बं कामं च वीर्यवान् ।। २६ ।।
युयुधे मायया दैत्यः शीघ्रकारी च भारत ।
न चैनं ददृशुः सर्वे सर्वशस्त्रविशारदाः ।। २७ ।।
यदा तु नैवापश्यस्तं तदा बिल्वोदकेश्वरम् ।
दध्यौ देवं हृषीकेशः प्रमथानां गणेश्वरम् ।। २८।।
ततस्ते ददृशुः सर्वे प्रभावादतितेजसः ।
बिल्वोदकेश्वरस्याशु निकुम्भं मायिनां वरम् ।। २९।।
कैलासशिखराकारं ग्रसन्तमिव धिष्ठितम् ।
आह्वयन्तं रणे कृष्णं वैरिणं ज्ञातिनाशनम् ।। 2.85.३०।।
सत्यगाण्डीव एवाद्य पार्थस्तस्य रथेषुभिः ।
परिघं चैव गात्रेषु विव्याधैनमथासकृत् ।। ३१ ।।
ते बाणास्तस्य गात्रेषु परिघे च जनाधिप ।
भङ्गाः शिलाशिताः सर्वे निपेतुः कुञ्चिताः क्षितौ ।।३२।।
विफलानस्त्रयुक्तांस्तान् दृष्ट्वा बाणान्धनंजयः ।
पप्रच्छ केशवं वीरः किमेतदिति भारत ।। ३३ ।।
पर्वतानपि भिन्दन्ति मम वज्रोपमाः शराः ।
किमिदं देवकीपुत्र विस्मयोऽत्र महान् मम ।। ३४ ।।
तमुवाच ततः कृप्णः प्रहसन्निव भारत ।
महद्भूतं निकुम्भोऽयं कौन्तेय शृणु विस्तरात्।। ३५ ।।
पुरा गत्वोत्तरकुरूंस्तपश्चक्रे महासुरः ।
शतं वर्षसहस्राणां देवशत्रुर्दुरासदः ।। ३६ ।।
अथैनं छन्दयामास वरेण भगवान् हरः ।
स वव्रे त्रीणि रूपाणि न वध्यानि सुरासुरैः ।। ३७ ।।
तमुवाच महादेवो भगवान् वृषभध्वजः ।
मम वा ब्राह्मणानां वा विष्णोर्वा प्रियमाचरन् ।। ३८ ।।
भविष्यसि हरेर्वध्यो न त्वन्यस्य महासुर ।
ब्रह्मण्योऽहं च विष्णुश्च विप्राणां परमा गतिः ।। ३९ ।।
स एष सर्वशस्त्राणामवध्यः पाण्डुनन्दन।
त्रिदेहोऽतिप्रमाथी च वरमत्तश्च दानवः ।। 2.85.४० ।।
भानुमत्यापहरणे देहोऽस्यैको हतो मया ।
अवध्यं षट्पुरं देहमिदमस्य दुरात्मनः ।।४१ ।।
दितिं शुश्रूषति न्येको देहोऽस्य तपसान्वितः ।
अन्यस्तु देहो घोरोऽस्य येनावसति षट्पुरम् ।।४२ ।
एतत् तु सर्वमाख्यातं निकुम्भचरितं मया ।
त्वरयास्य वधे वीर कथा पश्चाद् भविष्यति ।। ४३ ।।
तयोः कथयतोरेवं कृष्णयोरसुरस्तदा ।
गुहां षट्पुरसंज्ञां तां विवेश रणदुर्जयः ।। ४४ ।।
अन्विष्य तस्य भगवान् विवेश मधुसूदनः ।
तां षट्पुरगुहां घोरां दुर्धर्षां कुरुनन्दन ।। ४५ ।।
चन्द्रसूर्यप्रभाहीनां ज्वलन्तीं स्वेन तेजसा ।
सुखदुःखोष्णशीतानि प्रयच्छन्तीं यथेप्सितम् ।। ४६ ।।
तत्र प्रविश्य भगवानपश्यत जनाधिपान् ।
युयुधे सह घोरेण निकुम्भेन जनाधिप ।। ४७ ।।
कृष्णस्यानुप्रविष्टास्तु बलाद्या यादवास्तदा ।
प्रविष्टाश्च तथा सर्वे पाण्डवास्ते महात्मनः ।। ४८ ।।
समेतास्तु प्रविष्टास्ते कृष्णस्यानुमतेन वै ।
युयुधे स तु कृष्णेन रौक्मिणेयः प्रचोदितः ।
मानयद् यादवान्सर्वान्यानयं बद्धवान्पुरा ।। ४९ ।।
ते मुक्ता रौक्मिणेयेन प्राप्ता यत्र जनार्दनः ।
प्रहृष्टमनसः सर्वे निकुम्भवधकाङ्क्षिणः ।। 2.85.५० ।।
राजानो वीर मुञ्चेति पुनः कामं यथाब्रुवन् ।
मुमोच चाथ तान्वीरो रौक्मिणेयः प्रतापवान् ।। ५१ ।।
अधोमुखमुखाः सर्वे बद्धमौना नराधिपाः ।
लज्जयाभिप्लुता वीरास्तस्थुर्नष्टश्रियस्तदा ।। ५२ ।।
निकुम्भमपि गोविन्दः प्रयतन्तं जयं प्रति ।
योधयामास भगवान् घोरमात्मरिपुं हरिः ।। ५३ ।।
परिघेनाहतः कृष्णो निकुम्भेन भृशं विभो ।
गदया चापि कृष्णेन निकुम्भस्ताडितो भृशम् ।। ५४ ।।
तावुभौ मोहमापन्नौ सुप्रहारहतौ तदा ।
ततः प्रव्यथितान्दृष्ट्वा पाण्डवांश्चाथ यादवान्।। ५५ ।।
जेपुर्मुनिगणास्तत्र कृष्णस्य हितकाम्यया ।
तुष्टुवुश्च महात्मानं वेदप्रोक्तैस्तथा स्तवैः ।। ५६ ।।
ततः प्रत्यागतप्राणो भगवान् केशवस्तदा ।
दानवश्च पुनर्वीरावुद्यतौ समरं प्रति ।। ५७ ।।
वृषभाविव नर्दन्तौ गजाविव च भारत ।
शालावृकाविव क्रुद्धौ प्रहरन्तौ रणोत्कटौ ।। ५८ ।।
अथ कृष्णं तदोवाच नृप वागशरीरिणी ।
चक्रेण शमयस्यैनं देवब्राह्मणकण्टकम् ।। ५९ ।।
इति होवाच भगवान् देवो बिल्वोदकेश्वरः ।
धर्मं यशश्च विपुलं प्राप्नुहि त्वं महाबल ।। 2.85.६० ।।
तथेत्युक्त्वा नमस्कृत्वा लोकनाथः सतां गतिः ।
सुदर्शनं मुमोचाथ चक्रं दैत्यकुलान्तकम्।। ६१ ।।
तन्निकुम्भस्य चिच्छेद शिरः प्रवरकुण्डलम् ।
नारायणभुजोत्सृष्टं सूर्यमण्डलवर्चसम् ।। ६२ ।।
उत्पपात शिरस्तस्य भूमौ ज्वलितकुण्डलम् ।
मेघमत्तो गिरेः शृङ्गान्मयूर इव भूतले ।। ६३ ।।
निकुम्भे निहते तस्मिन् देवो बिल्वोदकेश्वरः ।
तुतोष च नरव्याघ्र जगत्त्रासकरे विभुः ।। ६४ ।।
पपात पुष्पवृष्टिश्च शक्रसृष्टा नभस्तलात् ।
देवदुन्दुभयश्चैव प्रणेदुररिनाशने ६५ ।।
ननन्द च जगत्कृत्स्नं मुनयश्च विशेषतः ।
दैत्यकन्याश्च भगवान् यदुभ्यः शतशो ददौ ।। ६६ ।।
क्षत्त्रियाणां च भगवान्सान्त्वयित्वा पुनः पुनः ।
रत्नानि च विचित्राणि वासांसि प्रवराणि च ।। ६७ ।।
रथानां वाजियुक्तानां षट् सहस्राणि केशवः ।
अददात् पाण्डवेभ्यश्च प्रीतात्मा गदपूर्वजः ।। ६८ ।।
तदेव चाथ प्रवरं षट्पुरं पुरवर्द्धनः ।
द्विजाय ब्रह्मदत्ताय ददौ तार्क्ष्यवरध्वजः ।। ६९ ।।
सत्रे समाप्ते च तदा शङ्खचक्रगदाधरः ।
विसर्जयित्वा तत् क्षत्रं पाण्डवांश्च महाबलः ।। 2.85.७० ।।
बिल्वोदकेश्वरस्याथ समाजमकरोत् प्रभुः ।
मांससूपसमाकीर्णं बह्वन्नं व्यञ्जनाकुलम् ।। ७१ ।।
नियुद्धकुशलान् मल्लान् देवो मल्लप्रियस्तदा ।
योधयित्वा ददौ भूरि वित्तं वस्त्राणि चात्मवान् ।।७२।।
मातापितृभ्यां सहितो यदुभिश्च महाबलः ।
अभिवाद्य ब्रह्मदत्तं ययौ द्वारवतीं पुरीम् ।। ७३ ।।
स विवेश पुरीं रम्यां हृष्टपुष्टजनाकुलाम् ।
पुष्पचित्रपथां वीरो वन्द्यमानो नरैः पथि ।। ७४ ।।
इमं यः षटपुरवधं विजयं चक्रपाणिनः ।
शृणुयाद् वा पठेद् वापि युद्धे जयमवाप्नुयात्।। ७५।।
अपुत्रो लभते पुत्रमधनो लभते धनम् ।
व्याधितो मुच्यते रोगी बद्धश्चाप्यथ बन्धनात् ।। ७६ ।।
इदं पुंसवनं प्रोक्तं गर्भाधानं च भारत ।
श्राद्धेषु पठितं सम्यगक्षय्यकरणं स्मृतम् ।। ७७ ।।
इदममरवरस्य भारते प्रथितबलस्य जयं महात्मनः ।
सततमिह हि यः पठेन्नरः सुगतिमितो व्रजते गतज्वरः ।। ७८ ।।
मणिकनकविचित्रपाणिपादो निरतिशयार्कगुणोऽरिहादिनाथः ।
चतुरुदधिशयश्चतुर्विधात्मा जयति जगत्पुरुषः सहस्रनामा ।।७९ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि षट्पुरवधे पञ्चाशीतितमोऽध्यायः ।। ८५ ।।