हरिवंशपुराणम्/पर्व २ (विष्णुपर्व)/अध्यायः ०८६

← अध्यायः ०८५ हरिवंशपुराणम्
अध्यायः ८६
वेदव्यासः
अध्यायः ०८७ →
अन्धकासुरस्योत्पत्तिः अनाचारं च, तस्य वधाय ऋषीणां चिन्तनम्, नारदस्य मन्दारपुष्पाणां मालां धारयित्वा अन्धकं प्रति गमनम् एवं मन्दारवनस्य महत्त्वकथनम्

षडशीतितमोऽध्यायः

जनमेजय उवाच
श्रुतोऽयं षट्पुरवधो रम्यो मुनिवरोत्तम ।
पुरोक्तमन्धकवधं वैशम्पायन कीर्तय ।। १ ।।
भानुमत्याश्च हरणं निकुम्भस्य वधं तथा ।
प्रब्रूहि वदतां श्रेष्ठ परं कौतूहलं हि मे ।। २ ।।
वैशम्पायन उवाच
दितिर्हतेषु पुत्रेषु विष्णुना प्रभविष्णुना ।
तपसाऽऽराधयामास मारीचं कश्यपं पुरा ।। ३ ।।
तपसा कालयुक्तेन तथा शुश्रूषया मुनेः ।
आनुकूल्येन च तथा माधुर्येण च भारत ।। ४ ।।
परितुष्टः कश्यपस्तु तामुवाच तपोधनः ।
परितुष्टोऽस्मि ते भद्रे वरं वरय सुव्रते ।। ५ ।।
दितिरुवाच
हतपुत्रास्मि भगवन् देवैर्धर्मभृतां वर ।
अवध्यं पुत्रमिच्छामि देवैरमितविक्रमम् ।। ६।।
कश्यप उवाच
अवध्यस्ते सुतो देवि दाक्षायणि भवेदिति ।
देवानां संशयो नात्र कश्चित्कमललोचने ।। ७ ।।
देवदेवमृते रुद्रं तस्य न प्रभवाम्यहम् ।
आत्मा ततस्ते पुत्रेण रक्षितव्यो हि सर्वथा ।। ८ ।।
अन्वालभत तां देवीं कश्यपः सत्यवागथ ।
अङ्गु्ल्योदरदेशे तु सा पुत्रं सुषुवे ततः ।। ९ ।।
सहस्त्रबाहुं कौरव्य सहस्रशिरसं तथा ।
द्विसहस्रेक्षणं चैव तावच्चरणमेव च ।। 2.86.१० ।।
स व्रजत्यन्धवद् यस्मादनन्धोऽपि हि भारत ।
तमन्धकोऽयं नाम्नेति प्रोचुस्तत्र निवासिनः ।। ११ ।।
अवध्योऽस्मीति लोकान् स सर्वान् बाधति भारत ।
हरत्यपि च रत्नानि सर्वाण्यात्मबलाश्रयात् ।। १२ ।।
वासयत्यात्मवीर्येण निगृह्याप्सरसां गणान् ।
स वेश्मन्यूर्जितोऽत्यर्थं सर्वलोकभयंकरः ।। १३ ।।
परदारापहरणं पररत्नविलोपनम् ।
चकार सततं मोहादन्धकः पापनिश्चयः ।। १४ ।।
त्रैलोक्यविजयं कर्तुमुद्यतः स तु भारत ।
सहायैरसुरैः सार्धं बहुभिः सर्वधर्षिभिः ।। १५ ।।
तच्छ्रुत्वा भगवाञ्छक्रः कश्यपं पितरं ब्रवीत् ।
अन्धकेनेदमारब्धमीदृशं मुनिसत्तम ।। १६ ।।
आज्ञापय विभो कार्यमस्माकं समनन्तरम् ।
यवीयसः कथं नाम सोढव्यं स्यान्मुने मया ।। १७ ।।
इष्टपुत्रे प्रहर्तव्यं कथं नाम मया विभो ।
इहात्रभवती कुर्यान्मन्युं मयि हते सुते ।। १८ ।।
देवेन्द्रवचनं श्रुत्वा कश्यपोऽथाब्रवीन्मुनिः ।
वारयिष्यामि देवेन्द्र सर्वथा भद्रमस्तु ते ।। १९ ।।
अन्धकं वारयामास दित्या सह तु कश्यपः ।
त्रैलोक्यविजयाद् वीरं कृच्छ्रकृच्छ्रेण भारत ।। 2.86.२० ।।
वारितोऽपि स दुष्टात्मा बाधत्येव दिवौकसः ।
तैस्तैरुपायैर्दुष्टात्मा प्रमथ्य च तथामरान् ।। २१ ।।
बभञ्ज कानने वृक्षानुद्यानानि च दुर्मतिः ।
उच्चैःश्रवःसुतानश्वान् बलादप्यानयद् दिवः ।। २२ ।।
नागान् दिशागजसुतान् दिव्यानपि च भारत ।
बलाद्धरति देवानां पश्यतां वरदर्पितः ।। २३ ।।
देवानाप्यायन्ते तु ये यशैस्तपसा तथा ।
तेषां चकार विघ्नं स दुष्टात्मा देवकण्टकः ।। २४ ।।
नेजुर्यज्ञैस्त्रयो वर्णास्तेपुश्च न तपांस्यपि ।
अन्धकस्य भयाद् राजन् यज्ञविघ्नानि कुर्वतः ।।२५ ।।
तस्येच्छया वाति वायुरादित्यश्च तपत्युत ।
चन्द्रमा वा सनक्षत्रो दृश्यते नैव वा पुनः ।। २६।।
न व्रजन्ति विमानानि विहायसि भयात् प्रभो ।
अन्धकस्यातिघोरस्य बलदृप्तस्य दुर्मतेः ।। २७ ।।
निरोङ्कारवषट्कारं जगद् वीर तथाभवत्।
अन्धकस्यातिघोरस्य भयात् कुरुकुलोद्वह ।। २८ ।।
कुरूंस्तथोत्तरान् पापो द्रावयामास भारत ।
भद्राश्वान् केतुमालांश्च जम्बूद्वीपांस्तथैव च ।। २९ ।।
मानयन्ति च तं देवा दानवाश्च दुरासदाः ।
भूतानि च तथान्यानि समर्थान्यपि सर्वथा ।। 2.86.३० ।।
ऋषयो वध्यमानास्तु समेता ब्रह्मवादिनः ।
अचिन्तयन्नन्धकस्य वधं धर्मभृतां वर ।। ३१ ।।
तेषां बृहस्पतिर्मध्ये धीमानिदमथाब्रवीत्।
नास्य रुद्रादृते मृत्युर्विद्यते च कथंचन ।। ३२ ।।
तथा वरे दीयमाने कश्यपेनापि शब्दितः ।
नाहं रुद्रात् परित्रातुं शक्त इत्येव धीमतः ।। ३३ ।।
तमुपायं चिन्तयामः शर्वो येन सनातनः ।
जानीयात् सर्वभूतानि पीड्यमानानि शङ्करः । ३४
विदितार्थो हि भगवानवश्यं जगतः प्रभुः ।
अश्रुप्रमार्जनं देवः करिष्यति सतां गतिः ।। ३५ ।।
व्रतं हि देवदेवस्य भवस्य जगतो गुरोः ।
सन्तोऽसद्भ्यो रक्षितव्या ब्राह्मणास्तु विशेषतः।।३६।।
ते वयं नारदं सर्वे प्रयाम शरणं द्विजम् ।
उपायं वेत्स्यते तत्र वयस्यो हि भवस्य सः ।। ३७ ।।
बृहस्पतिवचः श्रुत्वा सर्वेऽप्यथ तपोधनाः ।
तावद् ददृशुराकाशे प्राप्तं देवर्षिसत्तमम् ।। ३८ ।।
पूजयित्वा यथान्यायं सत्कृत्य विधिवन्मुनिम् ।
देवर्षे भगवन् साधो कैलासं व्रज सत्वरम् ।। ३९ ।।
विज्ञप्तुमर्हसे देवमन्धकस्य वधे हरम् ।
त्राणार्थं नारदं प्रोचुस्तांस्तथेति स चोक्तवान् ।। 2.86.४० ।।
ऋषिष्वथ प्रयातेषु तत्कार्यं नारदो मुनिः ।
विचार्य मनसा विद्वानिति कार्यं स दृष्टवान् ।। ४१ ।।
स देवदेवं भगवान् द्रष्टुं मुनिरथाययौ ।
मन्दारवनमध्यस्थो यत्र नित्यो वृषध्वजः ।। ४२ ।।
स तत्र रजनीमेकामुषित्वा मुनिसत्तमः ।
मन्दाराणां वने रम्ये दयितः शूलपाणिनः ।। ४३ ।।
आजगाम पुनः स्वर्गं लब्ध्वानुज्ञां वृषध्वजात्।
मन्दारपुष्पैः सुकृतां मालामाबध्य भारत ।। ४४ ।।
ग्रथितां सविशेषां तां सर्वगन्धोत्तमोत्तमाम् ।
संतानमाल्यदामाथ तैरेव कुसुमैः कृतम् ।। ४५ ।।
तच्च कण्ठे समासज्य महागन्धं नराधिप ।
आययावन्धको यत्र दुरात्मा बलदर्पितः ।। ४६ ।।
अन्धकस्त्वथ तं दृष्ट्वा गन्धमाघ्राय चोत्तमम् ।
संतानकानां स्रङ्मालां महागन्धां महामुने ।
कुत्रायं पुष्पजातिर्वा कमनीया तपोधन ।। ४७ ।।
गन्धान्वर्णाञ्छुभांस्तान् हि भोः पुष्यति मुहुर्मुहुः ।
स्वर्गे संतानकुसुमान्यतिवर्तति सर्वथा ।।४८ ।।
कः प्रभुस्तस्य वृक्षस्य शक्यं वाऽऽनयितुं मुने ।
आचक्ष्व यद्यनुग्राह्या वयं ते देवतातिथे ।। ४९ ।।
तमुवाच मुनिश्रेष्ठः प्रहसन्निव भारत ।
आदाय दक्षिणे हस्ते महतस्तपसो निधिः ।। 2.86.५० ।।
मन्दरे पर्वतश्रेष्ठे वीर कामगमं वनम् ।
तत्र चैवंविधं पुष्पं भोः सृष्टिः शूलपाणिनः ।। ५१ ।।
न तु तत्र वनं कश्चिदच्छन्देन महात्मनः ।
प्रवेष्टुं लभते तद्धि रक्षन्ति प्रवरोत्तमाः ।। ५२ ।।
नानाप्रहरणा घोरा नानावेषा दुरासदाः ।
अवध्याः सर्वभूतानां महादेवाभिरक्षिताः ।। ५३ ।।
नित्यं प्रक्रीडते तत्र सोमः सप्रवरो हरः ।
मन्दारद्रुमखण्डेषु सर्वात्मा सर्वभावनः ।। ५४ ।।
तपोविशेषैराराध्य हरं त्रिभुवनेश्वरम् ।
शक्यं मन्दारपुष्पाणि प्राप्तुं कश्यपवंशज ।। ५५ ।।
स्त्रीरत्नमणिरत्नानि यानि चान्यानि चाप्यथ ।
काङ्क्षितानि फलन्ति स्म ते द्रुमा हरवल्लभाः ।। ५६ ।।
न तत्र सूर्यः सोमोऽथ तपत्यतुलविक्रम ।
स्वयंप्रभं तरुवनं तद् भो दुःखविवर्जितम् ।। ५७ ।।
तत्र गन्धान् स्रवन्त्यन्ये नीराण्यन्ये महाद्रुमाः ।
वासांसि विविधान्यन्ये सुगन्धीनि महाबल ।। ५८ ।।
भक्ष्यं भोज्यं च पेयं च चोष्यं लेह्यं तथैव च ।
तरुभ्यः स्रवते तेभ्यो विविधं मनसेप्सितम् ।। ५९ ।।
पिपासा वा बुभुक्षा वा ग्लानिश्चिन्तापि वानघ ।
न मन्दारवने वीर भवतीत्युपधार्यताम् ।। 2.86.६० ।।
न तै वर्णयितुं शक्या गुणा वर्षशतैरपि ।
गुणा ये तत्र वर्द्धन्ते स्वर्गाद् बहुगुणोत्तराः ।। ६१ ।।
अतीव हि जयेल्लोकान् समहेन्द्रान् न संशयः ।
एकाहमपि यस्तत्र वसेच्च दितिजोत्तम ।। ६२ ।।
स्वर्गस्यापि हि तत्स्वर्गं सुखानामपि तत्सुखम् ।
बभूव जगतः सर्वमिति मे धीयते मनः ।। ६३ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि अन्धकवधे षडशीतितमोऽध्यायः ।। ८६ ।।