प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः १०३ हरिवंशपुराणम्
अध्यायः १०४
वेदव्यासः
अध्यायः १०५ →
प्रद्युम्नस्य जन्म, शम्बरासुरेण प्रद्युम्नस्य सूतिकागृहात् अपहरणं, प्रद्युम्नमायावतीसंवादः, प्रद्युम्नस्य शम्बरासुरस्य शतपुत्राणां सह युद्धम्

चतुरधिकशततमोऽध्यायः

जनमेजय उवाच
य एष भवता पूर्वं शम्बरघ्नेत्युदाहृतः ।
प्रद्युम्नः च कथं जघ्ने शम्बरं तद् ब्रवीहि मे ।। १ ।।
वैशम्पायन उवाच
रुक्मिण्यां वासुदेवस्य लक्ष्म्यां कामो धृतव्रतः ।
शम्बरान्तकरो जज्ञे प्रद्युम्नः कामदर्शनः ।
सनत्कुमार इति यः पुराणे परिगीयते ।। २ ।।
तं सप्तरात्रे सम्पूर्णे निशीथे सूतिकागृहात् ।
जहार कृष्णस्य सुतं शिशुं वै कालशम्बरः ।। ३ ।।
विदितं तस्य कृष्णस्य देवमायानुवर्तिनः ।
ततो न निगृहीतः स दानवो युद्धदुर्मदः ।। ४ ।।
स मृत्युना परीतायुर्मायया संजहार तम् ।
दोर्भ्यामुत्क्षिप्य नगरं स्वं निनाय महासुरः ।। ५ ।।
अनपत्या तु तस्यासीद् भार्या रूपगुणान्विता ।
नाम्ना मायावती नाम मायेव शुभदर्शना ।। ६ ।।
ददौ तं वासुदेवस्य पुत्रं पुत्रमिवात्मजम् ।
तस्या महिष्या मानिन्या दानवः कालचोदितः ।। ७ ।।
मायावती तु तं दृष्ट्वा सम्प्रहृष्टतनूरुहा ।
हर्षेण महता युक्ता पुनः पुनरुदैक्षत ।। ८ ।।
अथ तस्या निरीक्षन्त्याः स्मृतिः प्रादुर्बभूव ह ।
अयं स मम कान्तोऽभूत् स्मृत्वैवं चान्वचिन्तयत्।।९।।
अयं स नाथो भर्ता मे यस्यार्थेऽहं दिवानिशम् ।
चिन्ताशोकार्णवे मग्ना न विन्दामि रतिं क्वचित् ।। 2.104.१० ।।
अयं भगवता पूर्वं देवदेवेन शूलिना ।
खेदितेन कृतोऽनङ्गो दृष्टो जात्यन्तरे मया ।। ११ ।।
कथमस्य स्तनं दास्ये मातृभावेन जानती ।
भर्तुर्भार्या त्वहं भूत्वा वक्ष्ये वा पुत्र इत्युत ।। १२ ।।
एवं संचिन्त्य मनसा धात्र्यास्तं सा समर्पयत् ।
रसायनप्रयोगैश्च शीघ्रमेव व्यवर्धयत् ।। १३ ।।
धात्र्याः सकाशात्स च तां शृण्वन् रुक्मिणिनन्दनः ।
मायावतीमविज्ञानान्मेने स्वामेव मातरम् ।। १४ ।।
सा च तं वर्द्धयामास कार्ष्णिं कमललोचनम् ।
मायाश्चास्मै ददौ सर्वा दानवी काममोहिता ।। १५ ।।
स यदा यौवनस्थस्तु प्रद्युम्नः कामदर्शनः ।
चिकीर्षितज्ञो नारीणां सर्वास्त्रविधिपारगः ।। १६ ।।
तं सा मायावती कान्तं कामयामास कामिनी ।
इङ्गितैश्चापि वीक्षन्ती प्रालोभयत सस्मिता ।
प्रसज्जन्तीं तु तां देवीं बभाषे चारुहासिनीम् ।। १७ ।।
प्रद्युम्न उवाच
मातृभावं व्यतिक्रम्य किमेवं वर्तसेऽन्यथा ।
अहो दुष्टस्वभावासि स्त्रीत्वे चपलमानसा ।। १८ ।।
या पुत्रभावमुत्सृज्य मयि लोभात् प्रवर्तसे ।
न तु तेऽहं सुतः सौम्ये कोऽयं शीलविपर्ययः ।। १९ ।।
तत्त्वमिच्छाम्यहं देवि कथितं को न्वयं विधिः ।
विद्युत्सम्पातचपलः स्वभावः खलु योषिताम् ।। 2.104.२० ।।
या नरेषु प्रसज्जन्ते नगाग्रेषु घना इव ।
यदि तेऽहं सुतः सौम्ये यदि वा नात्मजः शुभे । २१ ।।
कथितं तत्त्वमिच्छामि किमिदं ते चिकीर्षितम्।
एवमुक्ता तु सा भीरुः कामेन व्यथितेन्द्रिया ।। २२ ।।
प्रियं प्रोवाच वचनं विविक्ते केशवात्मजम् ।
न त्वं मम सुतः कान्त नापि ते शम्बरः पिता ।। २३ ।।
रूपवानसि विक्रान्तस्त्वं जात्या वृष्णिनन्दन ।
पुत्रस्त्वं वासुदेवस्य रुक्मिण्यानन्दवर्धनः ।। २४ ।।
दिवसे सप्तमे बालो जातमात्रोऽपवाहितः ।
सूतिकागारमध्यात् त्वं शिशुरुत्तानशायितः ।। २५ ।।
मम भर्त्रा हृतोऽसि त्वं बलवीर्यप्रवर्तिना ।
पितुस्ते वासुदेवस्य धर्षयित्वा गृहं महत् ।। २६।।
पाकशासनकल्पस्य हृतस्त्वं शम्बरेण ह ।
सा च ते करुणं माता त्वां बालमनुशोचती ।। २७ ।।
अत्यर्थं तप्यते वीर विवत्सा सौरभी यथा ।
सोऽपि शक्रादपि महान् पिता ते गरुडध्वजः ।। २८ ।।
इह त्वां नाभिजानाति बालमेवापवाहितम् ।
कान्त वृष्णिकुमारस्त्वं न हि त्वं शम्बरात्मजः ।। २९ ।।
वीर नैवंविधान् पुत्रान् दानवा जनयन्ति हि ।
अतोऽहं कामयामि त्वां न हि त्वं जनितो मया ।। 2.104.३० ।।
रूपं ते सौम्य पश्यन्ती सीदामि हृदि दुर्बला ।
यन्मे व्यवसितं कान्त यत् तु मे हृदि वर्तते ।। ३१ ।।
तन्मे मनसि वार्ष्णेय प्रतिसंधातुमर्हसि ।
एष ते कथितः सर्वः सद्भावस्त्वयि यो मम ।। ३२ ।।
श्रुत्वैवमखिलं सर्वं मायावत्या प्रभाषितम् ।। ३३ ।।
चक्रायुधात्मजः क्रुद्धः शम्बरं स समाह्वयत् ।
सर्वमायास्वभिज्ञोऽसौ नाम विश्राव्य चात्मनः ।। ३४ ।।
अहो दानवदुष्टात्मा केशवस्यात्मजं शिशुम् ।
हरते निर्भयश्चैव भयमद्य करोम्यहम् ।। ३५ ।।
कथं वै क्रोधमागच्छेद् वध्यते वा कथं मया ।
प्रथमं किं करिष्यामि येन कुप्यति मन्दधीः ।। ३६ ।।
अस्तिं चास्य ध्वजं चित्रं सिंहकेतुविभूषितम् ।
तोरणं गृहमासाद्य उच्छ्रितं मेरुशृङ्गवत् ।। ३७ ।।
एतदुन्मथ्य पातिष्ये भल्लेन निशितेन वै ।
ध्वजच्छेदं विदित्वाथ शम्बरो निष्क्रमिष्यति ।। ३८ ।।
ततो युद्धेन हत्वाऽऽजौ गन्तास्मि द्वारकां प्रति ।
इत्युक्त्वा सज्यमाचक्रे सशरं चापमोजसा ।। ३९ ।।
चिच्छेद ध्वजरत्नं तु शम्बरस्य महाभुजः ।
तच्छुत्वा तु ध्वजच्छेदं प्रद्युम्नेन महात्मना ।। 2.104.४० ।।
क्रुद्धस्त्वाज्ञापयामास पुत्रान् वै कालशम्बरः ।
जिघांसध्वं महावीरा रौक्मिणेयं त्वरान्विताः ।। ४१ ।।
नैवं वै द्रष्टुमिच्छामि मम विप्रियकारकम् ।
श्रुत्वा तु शम्बराद्वाक्यं सुतास्ते शम्बरस्य ह ।।४२।।
संनद्धा निर्ययुर्हृष्टाः प्रद्युम्नवधकाङ्क्षया ।
चित्रसेनोऽतिसेनश्च विष्वक्सेनो गदस्तथा ।। ४३ ।।
श्रुतसेनः सुषेणस्तु सोमसेनो मनस्तथा ।
सेनानी सैन्यहन्ता च सेनाहा सैनिकस्तथा ।। ४४ ।।
सेनस्कन्धोऽतिसेनश्च सेनको जनकः सुतः ।
सकालो विकलः शान्तः स शातान्तकरोऽशुचिः ।।४५।।
कुम्भकेतुः सुदंष्ट्रश्च केशिरित्येवमादयः ।
चक्रतोमरशूलानि पट्टिशानि परश्वधान् ।। ४६ ।।
गृहीत्वा निर्ययुर्हृष्टा मन्युना परमाप्लुताः ।
आह्वयंस्तममित्रं वै तस्थुः संग्राममूर्धनि ।। ४७ ।।
प्रद्युम्नस्तु महाबाहू रथमारुह्य सत्वरम् ।
निर्ययौ चापमादाय संग्रामाभिमुखस्तदा ।। ४८ ।।
ततः प्रवृत्तं युद्धं तु तुमुलं लोमहर्षणम् ।
शम्बरस्य तु पुत्राणां केशवस्य च सूनुना ।। ४९ ।।
ततो देवाः सगन्धर्वाः समहोरगचारणाः ।
देवराजं पुरस्कृत्य विमानाग्रेषु धिष्ठिताः ।। 2.104.५० ।।
नारदस्तुम्बुरुश्चैव हाहाहूहूश्च गायनाः ।
अप्सरोभिः परिवृताः सर्वे तत्रावतस्थिरे ।। ५१ ।।
देवराजप्रतीहारो गन्धर्वश्चित्रमद्भुतम् ।
शशंस देवराजाय वज्रिणे तद्विचेष्टितम् ।। ५२ ।।
शम्बरस्य शतं पुत्रा एकः कृष्णस्य चात्मजः ।
बहूनां युध्यतामेष कथं विजयमाप्नुयात् ।। ५३ ।।
तच्छुत्वा भाषितं तस्य प्रहस्य बलसूदनः ।
उवाच वचनं चेदं शृणु योऽस्य पराक्रमः ।। ५४ ।।
कामोऽयं पूर्वदेहे तु हरक्रोधाग्निना हतः ।
रत्या प्रसादितो देवः कामपत्न्या त्रिलोचनः ।
परितुष्टेन देवेन वरमस्याः प्रदीयते ।। ५५ ।।
विष्णुर्मानुषदेहस्तु द्वारकायां भविष्यति ।
तस्य पुत्रत्वमस्यैव भविष्यति न संशयः ।। ५६ ।।
अनङ्ग इति विख्यातस्त्रैलोक्ये तु महायशाः ।
तत्रोत्पन्नो महातेजाः शम्बरं घातयिष्यति ।। ५७ ।।
सप्ताहे जातमात्रे तु रुक्मिण्याः क्रोडसंस्थितम् ।
आस्थाय शम्बरो मायां प्रद्युम्नमपनेष्यति ।। ५८ ।।
तद् गच्छ शम्बरगृहं भार्या मायावती भव ।
मायारूपप्रतिच्छन्ना शम्बरं मोहयिष्यसि ।। ५९ ।।
तत्र त्वमात्मनः कान्तं बालरूपं विवर्धय ।
प्राप्तयौवनदेहस्तु शम्बरं निहनिष्यति ।। 2.104.६० ।।
ततस्त्वया सहानङ्गो द्वारकां वै गमिष्यति ।
रमिष्यति त्वया सार्द्धं शैलपुत्र्या यथा ह्यहम्।। ६१ ।।
एवमादिश्य देवेशो जगाम पुरुषोत्तमः ।
कैलासं मेरुसंकाशं सिद्धचारणसेवितम् ।। ६२।।
कामपन्नी प्रणम्याथ देवदेवमुमापतिम् ।
जगाम शम्बरगृहं कालस्यान्तं प्रतीक्षती ।। ६३ ।।
एवमेष महाबाहुः शम्बरं निहनिष्यति ।
सह पुत्रेण प्रद्युम्नो हन्ता तस्य दुरात्मनः ।। ६४ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि शम्बरवधे चतुरधिकशततमोऽध्यायः ।। १०४ ।।