हरिवंशपुराणम्/पर्व २ (विष्णुपर्व)/अध्यायः १०५

← अध्यायः १०४ हरिवंशपुराणम्
अध्यायः १०५
वेदव्यासः
अध्यायः १०६ →
प्रद्युम्नेन शम्बरासुरस्य सेनायाः मन्त्रिणां च संहारः

पञ्चाधिकशततमोऽध्यायः

वैशम्पायन उवाच
ततः प्रवृद्धं युद्धं तु तुमुलं लोमहर्षणम् ।
शम्बरस्य तु पुत्राणां रुक्मिण्या नन्दनस्य च ।। १ ।।
ततः क्रुद्धा महादैत्याः शरशक्तिपरश्वधान् ।
चक्रतोमरकुन्तानि भुशुण्डीर्मुसलानि च ।। २ ।।
युगपत् पातयन्ति स्म प्रद्युम्नोपरि वेगिताः ।
कार्ष्णायनिस्तु संक्रुद्धः सर्वास्त्रधनुषश्च्युतैः ।। ३ ।।
एकैकं पञ्चभिः क्रुद्धश्चिच्छेद रणमूर्धनि ।
पुनरेवासुराः क्रुद्धाः सर्वे ते कृतनिश्चयाः ।। ४ ।।
ववृषुः शरजालानि प्रद्युम्नवधकाङ्क्षया ।
ततः प्रकुपितोऽनङ्गो धनुरादाय सत्वरः ।। ५ ।।
शम्बरस्य जघानाशु दश पुत्रान् महौजसः ।
ततोऽपरेण भल्लेन कुपितः केशवात्मजः ।। ६ ।
चिच्छेदाशु शिरस्तस्य चित्रसेनस्य वीर्यवान् ।
ततस्ते हतशेषास्तु समेत्य समयुद्ध्यत ।। ७ ।।
शरवर्षं विमुञ्चन्तो ह्यभ्यधावञ्जिघांसितुम् ।
ततः संधाय बाणांस्ते विमुञ्चन्तो रणोत्सुकाः ।। ८ ।।
क्रीडन्निव महातेजाः शिरांस्येषामपातयत् ।
निहत्य समरे सर्वाञ्छतमुत्तमधन्विनाम् ।। ९ ।।
प्रद्युम्नः समराकाङ्क्षी तस्थौ संग्राममूर्धनि ।
हतं पुत्रशतं श्रुत्वा शम्बरः क्रोधमादधे ।। 2.105.१० ।।
सूतं संचोदयामास रथं मे सम्प्रयोजय ।
राज्ञो वाक्यं निशम्याथ प्रणम्य शिरसा भुवि ।। ११ ।।
ससैन्यं नोदयामास रथं स सुसमाहितम् ।
युक्तमृष्यसहस्रेण सर्पयोक्त्रेण योजितम् ।। १२ ।।
शार्दूलचर्मसंविष्टं किङ्किणीजालमालिनम् ।
ईहामृगगणाकीर्णं पङ्क्तिभक्तिविराजितम् ।। १३ ।।
ताराचित्रपिनद्धाङ्गं स्वर्णकृबरभूषितम् ।
सुपताकमहोच्छ्रायं मृगराजोग्रकेतनम् ।। १४ ।
सुविभक्तवरूथं च लोहेषावज्रकूबरम् ।
मन्दरोदग्रशिखरं चारुचामरभूषितम् ।। १५ ।।
नक्षत्रमालापिहितं हेमदण्डसमाहितम् ।
विराजमानं श्रीमन्तमारोहच्छम्बरो रथम् ।। १६ ।।
काञ्चनं चित्रसंनाहं धनुर्गृह्य शरांस्तथा ।
प्रस्थितः समराकाङ्क्षी मृत्युना परिचोदितः ।। १७ ।।
चतुर्भिः सचिवैः सार्द्धं सैन्येन महता वृतः ।
दुर्धरः केतुमाली च शत्रुहन्ता प्रमर्दनः ।। १८ ।।
एतैः परिवृतोऽमात्यैर्युयुत्सुः प्रस्थितो रणे ।
दशनागसहस्राणि रथानां द्वे शते तथा ।। १९ ।।
हयानां चाष्टसाहस्रैः प्रयुतैश्च पदातिनाम् ।
एतैः परिवृतो योधैः शम्बरः प्रययौ तदा ।। 2.105.२० ।।
प्रयातस्य तु संग्रामे उत्पाता बहवोऽभवन्।
गृध्रचक्राकुलं व्योम संध्याकाराभ्रनादितम् ।। २१ ।।
गर्जन्ति परुषं मेघा निर्घातश्चाम्बरात् पतत् ।
शिवा विनेदुरशिवं सैन्यं संकालयन्महत् ।। २२ ।।
ध्श्जशीर्षेऽपतद्गृध्रः काङ्क्षन् वै दानवासृजम् ।
रथाग्रे पतितश्चास्य कबन्धो भुवि दृश्यते ।। २३ ।।
चीचीकूचीति वाशन्ति शम्बरस्य रथोपरि ।
स्वर्भानुग्रस्त आदित्यः परिघैः परिवेष्टितः ।। २४ ।।
स्फुरते नयनं चास्य सव्यं भयनिवेदनम् ।
बाहुः प्रकम्पते सव्यः प्रास्खलन्रथवाजिनः ।। २५ ।।
ध्वाङ्क्षो मूर्घ्नि निपतितः शम्बरस्य सुरारिणः ।
ववर्ष रुधिरं देवः शर्कराङ्गारमिश्रितम् ।। २६ ।।
उल्कापातसहस्राणि निपेत् रणमूर्धनि ।
प्रतोदो न्यपतद्धस्तात् सारथेर्हययायिनः ।। २७ ।।
एतानचिन्तयित्वा तु उत्पातान् समुपस्थितान् ।
प्रययौ शम्बरः क्रुद्धः प्रद्युम्नवधकाङ्क्षया ।। २८ ।।
भेरीमृदङ्गशङ्खानां पणवानकदुन्दुभेः ।
युगपन्नाद्यमानानां पृथिवी समकम्पत ।। २९ ।।
तेन शब्देन महता संत्रस्ता मृगपक्षिणः ।
समन्ताद् दुद्रुवुस्तस्माद् भयविक्लवचेतसः ।। 2.105.३० ।।
रणमध्ये स्थितः कार्ष्णिश्चिन्तयन्निधनं रिपोः ।
सैन्यैः परिवृतोऽसंख्यैर्युद्धाय कृतनिश्चयः ।। ३१ ।।
क्रुद्धः शरसहस्रेण प्रद्युम्नं समताडयत् ।
सम्प्राप्ताश्चैव तान् बाणांश्चिच्छेद कृतहस्तवत्।।३२।।
प्रद्युम्नो धनुरादाय शरवर्षं मुमोच ह ।
तस्मिन्सैन्येन कोऽप्यस्ति यो न विद्धः शरेण वै ।।३३।।
प्रद्युम्नशरपातेन तत् सैन्यं विमुखीकृतम् ।
शम्बरस्य तथाभ्याशे स्थितं संहृत्य भीतवत् ।। ३४।।
स्वबलं विद्रुतं दृष्ट्वा शम्बरः क्रोधमूर्च्छितः ।
आज्ञापयामास तदा सचिवान् दानवेश्वरः ।। ३५ ।।
गच्छध्वं मन्नियोगेन प्रहरध्वं रिपोः सुतम् ।
नोपेक्षणीयः शत्रुर्वै वध्यतां क्षिप्रमेष वै ।। ३६ ।।
उपेक्षित इव व्याधिः शरीरं नाशयेद् धुवम् ।
तदेष दुर्मतिः पापो वध्यतां मत्प्रियेप्सया ।। ३७ ।।
ततस्ते सचिवाः कुद्धाः शिरसा गृह्य शासनम् ।
शरवर्षं विमुञ्चन्तस्त्वरिता नोदयन् रथान् ।। ३८ ।।
तान् दृष्ट्वा धावतः संख्ये क्रुद्धो मकरकेतनः ।
चापमुद्यम्य सम्भ्रान्तस्तस्थौ प्रमुखतो बली ।। ३९ ।।
दुर्धरं पञ्चविंशत्या शरैः संनतपर्वभिः ।
बिभेद सुमहातेजाः केतुमालिं त्रिषष्टिभिः ।। 2.105.४० ।।
सप्तत्या शत्रुहन्तारं द्व्यशीत्या तु प्रमर्दनम् ।
बिभेद परमामर्षी रुक्मिण्या नन्दिवर्धनः ।। ४१ ।।
ततस्ते सचिवाः क्रुद्धाः प्रद्युम्नं शरवृष्टिभिः।
एकैकशो बिभेदाजौ षष्टिभिः षष्टिभिः शरैः ४२ ।।
तानप्राप्ताञ्छरान् बाणैश्चिच्छेद मकरध्वजः ।
ततोऽर्द्धचन्द्रमादाय दुर्द्धरस्य स सारथिम् ।। ४३।।
जघान पश्यतां राज्ञां सर्वेषां सैनिकस्य वै ।
चतुर्भिरथ नाराचैः सुपर्वैः कङ्कतेजितैः ।। ४४ ।।
जघान चतुरः सोऽश्वान्दुर्धरस्य रथं प्रति ।
एकेन योक्त्रं छत्रं च ध्वजमेकेन बन्धुरम् ।। ४५ ।।
षष्ट्या च युगचक्राक्षं चिच्छेद मकरध्वजः ।
अथापरं शरं गृह्य कङ्कपत्रं सुतेजितम् ।। ४६ ।।
मुमोच हृदये तस्य दुर्द्धरस्यान्यजीविनः ।
स गतासुर्गतश्रीको गतसत्त्वो गतप्रभः ।। ४७ ।।
निपपात रथोपस्थात् क्षीणपुण्य इव ग्रहः ।
दुर्धरे निहते शूरे दानवे दानवेश्वरः ।। ४८ ।।
केतुमाली शरव्रातैरभिदुद्राव कृष्णजम्।
प्रद्युम्नमथ संक्रुद्धो भ्रुकुटीभीषणाननः ।। ४९ ।।
कृत्वाभ्यधावत्सहसा तिष्ठ तिष्ठेति चाब्रवीत्।
संक्रुद्धः कृष्णसूनुस्तु शरवर्षैरवाकिरत् ।। 2.105.५० ।।
पर्वतं वारिधाराभिः प्रावृषीव यथा घनः ।
स विद्धो दानवामात्यः प्रद्युम्नेन धनुष्मता ।। ५१ ।।
चक्रमादाय चिक्षेप प्रद्युम्नवधकाङ्क्षया ।
तं तु प्राप्तं सहस्रारं कृष्णचक्रसमद्युतिम् ।। ५२ ।।
निपत्योत्पत्य सहसा सर्वेषामेव पश्यताम् ।
तेनैव तस्य चिच्छेद केतुमालेः शिरस्तदा ।। ५३ ।।
तद् दृष्ट्वा कर्म विपुलं रौक्मिणेयस्य देवराट् ।
विस्मयं परमं प्राप्तः सर्वैर्देवगणैः सह ।
गन्धर्वाप्सरसश्चैव पुष्पवर्षैरवाकिरन् ।। ५४ ।।
केतुमालिं हतं दृष्ट्वा शत्रुहन्ता प्रमर्दनः ।
महाबलसमूहेन प्रद्युम्नमथ दुद्रुवे ।। ५५ ।।
ते गदां मुसलं चक्रं प्रासतोमरसायकान् ।
भिन्दिपालान्कुठारांश्च भास्वरान्कूटमुद्गरान्।। ५६ ।।
युगपत् संक्षिपन्ति स्म वधार्थं कृष्णनन्दने ।
सोऽपि तान्यस्त्रजालानि शस्त्रजालैरनेकधा ।। ५७ ।।
चिच्छेद बहुधा वीरो दर्शयन्पाणिलाघवम् ।
गजान्सोऽभ्यहनत्कुद्धो गजारोहान्सहस्रशः।।५८।।
रथान् सारथिभिः सार्धं हयांश्चैव ममर्द ह ।
पातयंस्ताञ्छरव्रातैर्नाविद्धः कश्चिदीक्ष्यते ।। ५९ ।।
एवं सर्वाणि सैन्यानि ममन्थ मकरध्वजः ।
नदीं प्रावर्तयद् घोरां शोणिताम्बुतरङ्गिणीम् ।। 2.105.६० ।।
मुक्ताहारोर्मिबहुलां मांसमेदःसपङ्किनीम्।
छत्रद्वीपां शरावर्तां रथैः पुलिनमण्डिताम् ।।६१ ।।
केयूरकुण्डलाकूर्मां ध्वजमत्स्यविभूषिताम् ।
नागग्राहवतीं रौद्रामसिनक्रविभूषिताम् ।। ६२ ।।
केशशैवलसंछन्नां श्रोणिसूत्रमृणालिकाम् ।
वराननसुपद्मां च हंमचामरवीजिताम् ।। ६३ ।।
शिरस्तिमिसमाकीर्णो शोणितौघप्रवर्तिनीम् ।
नदीं दुस्तरणीं भीमामनङ्गेन प्रवर्तिताम् ।। ६४ ।।
दुष्प्रेक्षां दुर्गमां रौद्रां हीनतेजःसुदुस्तराम् ।
शस्त्रग्राहवतीं घोरां यमराष्ट्रविवर्द्धनीम् ।। ६५ ।।
तत्र रुक्मिसुतः श्रीमान्विलोडयति धन्विनः ।
शत्रुहन्तारमाश्रित्य शरानभ्यकिरद् बहून् ।। ६६ ।।
शत्रुहन्ता पुनः क्रुद्धो मुमोच शरमुत्तमम् ।
प्रद्युम्नस्य समासाद्य हृदये निपपात ह ।। ६७ ।।
स विद्धस्तेन बाणेन प्रद्युम्नो न व्यकम्पत ।
शक्तिं जग्राह बलवाञ्छत्रुहन्त्रे मुमूर्षवे ।। ६८ ।।
सा क्षिप्ता रौक्मिणेयेन शक्तिर्ज्वालाकुला रणे ।
पपात हृदयं भित्त्वा शक्राशनिसमस्वना ।। ६९ ।।
स भिन्नहृच्च स्रस्ताङ्गो मुक्तमर्मास्थिबन्धनः ।
पपात रुधिरोद्गारी शत्रुहन्ता महाबलः ।। 2.105.७० ।।
पतितं शत्रुहन्तारं दृष्ट्वा तस्थौ प्रमर्दनः ।
जग्राह मुसलं सोऽथ वचनं चेदमाददे ।। ७१ ।।
तिष्ठ किं प्राकृतैरेभिः करिष्यसि रणप्रियः ।
मां योधयस्व दुर्बुद्धे ततस्त्वं न भविष्यसि ।। ७२ ।।
वृष्णिवंशकुले जातः शत्रुरस्मत्पिता तव ।
पुत्रं हन्तास्त्वहं तस्य ततोऽसौ निहतो भवेत्।। ७३ ।।
मृतेन तेन दुर्बुद्धे सर्वदेवक्षयो भवेत् ।
दैतेया दानवाः सर्वे मोदन्तां हतशत्रवः ।।७४।।
हते त्वयि ममास्त्रेण त्वत्समुत्थैश्च शोणितैः ।
शम्बरस्य तु पुत्राणां करोम्युदकसत्क्रियाम् ।। ७५ ।।
अद्य सा भीष्मकसुता करुणं विलपिष्यति ।
निहतं त्वां च श्रुत्वैव यौवनस्थं गतायुषम् ।। ७६ ।।
स ते पिता चक्रधरो निष्फलाशो भविष्यति ।
हतं त्वां स विदित्वाथ प्राणांस्त्यक्ष्यति मन्दधीः।। ७७ ।।
इत्युक्त्वा परिघेणाशु ताडयद्रुक्मिणीसुतम्।
ताडितो हि महातेजा रौक्मिणेयः प्रतापवान् ।। ७८ ।।
दोर्भ्यामुत्क्षिप्य तस्यैव रथ मह्यां व्यचूर्णयत्।
सोऽवप्लुत्य रथात्तस्मात्पदातिरवतस्थिवान्।।७९।।
तां गदां गृह्य सहसा रौक्मिणेयमुपाद्रवत् ।
तयैव गदया कामः प्रमर्दनमपोथयत् ।। 2.105.८० ।।
हते प्रमर्दने दैत्ये दृष्ट्वा सर्वे प्रदुद्रुवुः ।
न शक्ताः प्रमुखे स्थातुं सिंहत्रासाद् गजा इव ।। ८१ ।।
सारमेयं यथा दृष्ट्वाविगणो वै पलायते ।
तथा सेना विषीदन्ती प्रद्युम्नस्य भयार्दिता ।। ८२ ।।
क्षतजादिग्धवस्त्रा वै मुक्तकेशा विशोभना ।
रजस्वलेव युवतिः सेना समवगूहते ।। ८३ ।।
मदनशरविभिन्ना सैनिकानभ्ययायाद्
युवतिसदृशवेषा साध्वसैः पीड्यमाना ।
रतिसमरमशक्ता वीक्षितुं सोच्छ्वसन्ती
स्वगृहगमनकामा नेच्छते स्थातुमत्र ।। ८४ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि शम्बरसैन्यभङ्गो नाम पञ्चाधिकशततमोऽध्यायः ।। १०५ ।।