प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः १०७ हरिवंशपुराणम्
अध्यायः १०८
वेदव्यासः
अध्यायः १०९ →
मायावतीसहितेन प्रद्युम्नस्य द्वारकायां आगमनं, रुक्मिण्याः भवने प्रवेशम्

अष्टाधिकशततमोऽध्यायः

वैशम्पायन उवाच
समाप्तमायो मायाज्ञो विक्रान्तः समरेऽव्ययः ।
अष्टम्यां निहतो युद्धे मायावी कालशम्बरः ।। १ ।।
तमृक्षवन्ते नगरे निहत्यासुरसत्तमम् ।
गृह्य मायावतीं देवीमागच्छन्नगरं पितुः ।। २।।
सोऽन्तरिक्षगतो भूत्वा मायावी शीघ्रविक्रमः ।
आजगाम पुरीं रम्यां रक्षितां तेजसा पितुः ।। ३ ।।
सोऽन्तरिक्षान्निपतितः केशवान्तःपुरे शिशुः ।
मायावत्या सह तया रूपवानिव मन्मथः ।। ४ ।।
तस्मिंस्तत्रावपतिते महिष्यः केशवस्य याः ।
विस्मिताश्चैव हृष्टाश्च भीताश्चैवाभवंस्ततः ।। ५ ।।
ततस्तं कामसंकाशं कान्तया सह सङ्गतम् ।
प्रेक्षन्त्यो हृष्टवदनाः पिबन्त्यो नयनोत्सवम् ।। ६ ।।
तं विनीतमुखं दृष्ट्वा लज्जमानं पदे पदे ।
अभवन् स्निग्धसंकल्पाः सर्वास्ताः कृष्णयोषितः ।।७।।
रुक्मिणी चैव तं दृष्ट्वा शोकार्ता पुत्रगर्द्धिनी ।
सपत्नीशतसंकीर्णा सबाष्पा वाक्यमब्रवीत् ।। ८ ।।
यादृक् स्वप्नो मया दृष्टो निशायां यौवने गते ।
कंसारिणा ममानीय दत्तं साहारपल्लवम् ।। ९ ।।
शशिरश्मिप्रतीकाशं मुक्तादाम च शोभनम् ।
केशवेनाङ्कमारोप्य मम कण्ठे न्यबध्यत ।। 2.108.१० ।।
श्यामा सुचारुकेशा स्त्री शुक्लाम्बरविभूषिता ।
पद्महस्ता निरीक्षन्ती प्रविष्टा मम वेश्मनि ।। ११ ।।
तया पुनरहं गृह्य स्नापिता रुचिराम्बुना ।
कुशेशयमयीं मालां स्त्री संगृह्याथ पाणिना ।। १२ ।।
मम मूर्धन्युपाघ्राय दत्ता स्वच्छा तया मम ।
एवं स्वप्नान् कीर्तयन्ती रुक्मिणी हृष्टमानसा ।। १३ ।।
सखीजनवृता देवी कुमारं वीक्ष्य तं मुहुः ।
धन्यायाः खल्वयं पुत्रो दीर्घायुः प्रियदर्शनः ।। १४ ।।
ईदृशः कामसंकाशो यौवने प्रथमे स्थितः ।
जीवपुत्रा त्वया पुत्र कासौ भाग्यसमन्विता ।। १५ ।।
किमर्थं चाम्बुदश्यामः सभार्यस्त्वमिहागतः ।
अस्मिन् वयसि सुव्यक्तं प्रद्युम्नो मम पुत्रकः ।। १६ ।।
भवेद् यदि न नीतः स्यात्कृतान्तेन बलीयसा ।
व्यक्तं कृष्णकुमारस्त्वं न मिथ्या मम तर्कितम् ।। १७ ।।
विज्ञातोऽसि मया चिह्नैर्विना चक्रं जनार्दनः ।
मुखं नारायणस्येव केशाः केशान्त एव च ।। १८।।
ऊरू वक्षो भुजौ तुल्यौ हलिनः श्वशुरस्य मे ।
कस्त्वं वृष्णिकुलं सर्वं द्योतयन् वपुषास्थितः ।। १९ ।।
अहो नारायणस्येव दिव्या ते परमा तनुः ।
एतस्मिन्नन्तरे कृष्णः सहसा प्रविवेश ह ।
नारदस्य वचः श्रुत्वा शम्बरस्य वधं प्रति ।। 2.108.२० ।।
सोऽपश्यत् तं सुतं ज्येष्ठं सिद्धं मन्मथलक्षणैः ।
स्नुषां मायावतीं चैव हृष्टचेता जनार्दनः ।। २१ ।।
सोऽब्रवीत्सहसा देवीं रुक्मिणीं देवतामिव ।
अयं स देवि सम्प्राप्तः सुतश्चापधरस्तव ।। २२ ।।
अनेन शम्बरं हत्वा मायायुद्धविशारदम् ।
हृता मायाश्च ताः सर्वा याभिर्देवानबाधयत् ।। २३ ।।
सती चेयं शुभा साध्वी भार्या वै तनयस्य ते ।
मायावतीति विख्याता शम्बरस्य गृहोषिता ।। २४ ।।
मा च ते शम्बरस्येयं पत्नीति भवतु व्यथा ।
मन्मथे तु गते नाशं गते चानङ्गतां पुरा ।। २५ ।।
कामपत्नीं न कान्तैषा शम्बरस्य रतिः प्रिया ।
मायारूपेण तं दैत्यं मोहयत्यसकृच्छुभा ।। २६ ।।
न चैषा तस्य कौमारे वशे तिष्ठति शोभना ।
आत्ममायामयं कृत्वा रूपं शम्बरमाविशत् ।। २७ ।।
पत्न्येषा मम पुत्रस्य स्नुषा तव वराङ्गना ।
लोककान्तस्य साहाय्यं करिष्यति मनोमयम् ।। २८ ।।
प्रवेशयैनां भवनं पूज्यां ज्येष्ठां स्नुषां मम ।
चिरं प्रणष्टं च सुतं भजस्व पुनरागतम् ।। २९ ।।
वैशम्पायन उवाच
श्रुत्वा तु वचनं देवी कृष्णेनोदाहृतं तदा ।
प्रहर्षमतुलं लब्ध्वा रुक्मिणी वाक्यमब्रवीत् ।। 2.108.३० ।।
अहो धन्यतरास्मीति वीरपुत्रसमागमात्।
अद्य मे सफलः कामः पूर्णो मेऽद्य मनोरथः ।। ३१।।
चिरप्रणष्टपुत्रस्य दर्शनं प्रियया सह ।
आगच्छ पुत्र भवनं सभार्यः प्रविशेह च ।। ३२।।
ततोऽभिवाद्य चरणौ गोविन्दं मातरं च ताम्।
प्रद्युम्नः पूजयामास हलिनं च महाबलम् ।। ३३ ।।
उत्थाप्य तं परिष्वज्य मूर्ध्न्युपाघ्राय वीर्यवान् ।
प्रद्युम्नं बलिनां श्रेष्ठं केशवः परवीरहा ।। ३४।।
स्नुषां चोत्थाप्य तां देवी रुक्मिणी रुक्मभूषणा।
परिष्वज्योपसंगृह्य स्नेहाद् गद्गदभाषिणी ।। ३५ ।।
समेत्य भवनं पत्न्या शचीन्द्रमदितिर्यथा ।
प्रवेशयामास तदा रुक्मिणी सुतमागतम् ।। ३६ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि प्रद्युम्नागमने अष्टाधिकशततमोऽध्यायः ।। १०८ ।।