हरिवंशपुराणम्/पर्व २ (विष्णुपर्व)/अध्यायः ११०
← अध्यायः १०९ | हरिवंशपुराणम् अध्यायः ११० वेदव्यासः |
अध्यायः १११ → |
द्वारकायां आगतानां राजानां मध्ये नारदेन श्रीकृष्णस्य परमधन्यतायाः प्रतिपादनम् |
दशाधिकशततमोऽध्यायः
वैशम्पायन उवाच
हृतो यदैव प्रद्युम्नः शाम्बरेणात्मघातिना ।
मासेऽस्मिन्नेव साम्बस्तु जाम्बवत्यामजायत ॥ १ ॥
बाल्यात्प्रभृति रामेण शस्त्रेषु विनियोजितः ।
रामादनन्तरश्चैव मानितः सर्ववृष्णिभिः ॥ २ ॥
जातमात्रे ततः कृष्णः शुभां तामवसत् पुरीम् ।
निहतामित्रसामन्तः शक्रोद्यानं यथामरः ॥ ३ ॥
यादवीं च श्रियं दृष्ट्वा स्वां श्रियं द्वेष्टि वासवः ।
जनार्दनभयाच्चैव न शान्तिं लेभिरे नृपाः ॥ ४ ॥
कस्यचित् त्वथ कालस्य पुरे वारणसाह्रये !
दुर्योधनस्य यज्ञे वै समीयुः सर्वपार्थिवाः ॥ ५ ॥
तां श्रुत्वा माधर्वीं लक्ष्मीं सपुत्रं च जनार्दनम् ।
पुरीं द्वारावतीं चैव निविष्टां सागरान्तरे ॥ ६ ॥
दूतैस्तैः कृतसंधानाः पृथिव्यां सर्वपार्थिवाः ।
श्रियं द्रष्टुं हृषीकेशमाजग्मुः कृष्णमन्दिम् ॥ ७ ॥
दुर्योधनमुखाः सर्वे धृतराष्ट्रवशानुगाः ।
पाण्डवप्रमुखाश्चैव धृष्टद्युम्नादयो नृपाः ॥ ८ ॥
पाण्ड्याश्चोलकलिङ्गेशा बाह्रीका द्राविडाः खशाः ।
अक्षौहिणीः प्रकर्षन्तो दृशा चाष्टौ च भूमिपाः ॥ ९ ॥
आजग्मुर्यादवपुरीं गोविन्दभुजपालिताम् ।
ते पर्वतं रैवतकं परिवार्यावनीश्वराः ॥ १० ॥
विविशुर्योजनाख्यासु स्वासु स्वासु च भूमिषु ।
ततः श्रीमान् हृषीकेशाः सह् याद्वपुङ्गवैः ॥ ११ ॥
समीपं मानवेन्द्राणां निर्ययौ कमलेक्षणः ।
स तेषां नरदेवानां मध्यस्थेो मधुसूदनः ॥ १२ ॥
व्यराजत यदुश्रेष्ठः शरदीव दिवाकरः ।
कृत्वा सिंहासने कृष्णः काञ्चने निषसाद् ह ।
राजानोऽपि यथास्थानं निषेदुर्विविधेष्वथ ॥ १४ ॥
सिंहासनेषु चित्रेषु पीठेषु च नराधिपाः ।
स यादवनरेन्द्राणां समाजः शुशुभे तदा ॥ १५ ॥
सुराणामसुराणां च सदसि ब्रह्मणो यथा ।
तेषां चित्राः कथास्तत्र प्रवृत्तास्तत्समागमे ।
यदूनां पार्थिवानां च केशवस्योपश्रृण्वतः ॥ १६ ॥
एतस्मिन्नन्तरे वायुर्ववौ मेघरवोपमः ।
तुमुलं दुर्दिनं चासीत् सविद्युत्स्तनयित्नुमत् ॥ १७ ॥
तद् दुर्दिनतलं भित्त्वा नारद्ः प्रत्यदृश्यत ।
संचेष्टितजटाभारो वीणासक्तेन बाहुना ॥ १८ ॥
स पपात नरेन्द्राणां मध्ये सागरसंनिभः ।
नारदॊऽग्निशिखाकारः श्रीमाञ्छक्रसखो मुनिः ॥ १९ ॥
तस्मिन् निपतिते भूमौ नारदे मुनिपुङ्गवे ।
तदद्भुतं महामेधं व्यपाकृष्यत दुर्दिनम् ॥ २० ॥
सोऽवगाह्य नरेन्द्राणां मध्ये सागरसंनिभः ।
आसनस्थं यदुश्रेष्ठमुवाच मुनिरव्ययम् ॥ २१ ॥
आश्चर्यं खलु देवानामेकस्त्वं पुरुषोत्तमः।
धन्यश्चासि महाबाहो लोकेनान्योऽस्ति कश्चन ॥ २२ ॥
एवमुक्तः स्मितं कृत्वा प्रत्युवाच मुनिं प्रभुः ।
आश्चर्यश्चैव धन्यश्च दक्षिणाभिः सहेत्यहम् ॥ २३ ॥
एवमुक्तो मुनिश्रेष्ठः प्राह मध्ये महीभृताम् ।
कृष्ण पर्याप्तवाक्योऽस्मि गमिष्यामि यथागतम्॥ २४ ॥
तं प्रस्थितमभिप्रेक्ष्य पार्थिवाः प्राहुरीश्वरम् ।
गुह्यं मन्त्रमजानन्तो वचनं नारदेरितम् ॥ २५ ॥
आश्चर्यमित्यभिहितं धन्योऽसीति च माधव ।
दक्षिणाभिः सहेत्येवं प्रत्युक्तेऽपि च नारदे ॥ २६ ॥
किमेतन्नाभिजानीमो दिव्यं मन्त्रपदं महत् ।
यदि श्राव्यमिदं कृष्ण श्रोतुमिच्छाम तत्त्वतः ॥ २७ ॥
तानुवाच ततः कृष्णः सर्वान् पार्थिवपुङ्गवान् ।
श्रोतव्यं नारदस्त्वेष द्विजो वः कथयिष्यति ॥ २८ ॥
ब्रूहि नारद तत्त्वार्थं श्रोतुकामा महीभुजः ।
यत् त्वयाभिहितं वाक्यं मया नु प्रतिभाषितम् ॥ २९ ॥ ,
स पीठे काञ्चने शुभ्रे सूपविष्टः स्वलंकृतः ।
प्रभावं तस्य वन्द्यस्य प्रवक्तुमुपचक्रमे ॥ ३० ॥
नारद उवाच।।
श्रूयतां भो नृपश्रेष्ठा यावन्तः स्थ समागताः ।
अस्य कृष्णस्य महतो यथा पारमहं गतः ॥ ३१ ॥
अहं कदाचिद् गङ्गायास्तीरे त्रिषवणातिथिः ।
चराम्येकः क्षपापाये दृश्यमाने दिवाकरे ॥ ३२ ॥
अपश्यं गिरिकूटाभं कपालद्वयदेहिनम् ।
क्रोशमण्डलविस्तारं तावद् द्विगुणमायतम् ॥ ३३ ॥
चतुश्चरणसुश्लिष्टं क्लिन्नं चैव सपङ्किलम् । ।
मम वीणाकृतिं कूर्मं गजचर्मचयोपमम् ॥ ३४ ॥
सोऽहं तं पाणिना स्पृष्ट्वा प्रोक्तवाञ्जलचारिणम् ।
त्वमाश्चर्यशरीरोऽसि कूर्म धन्योऽसि मे मतः ॥ ३५ ॥
यस्त्वमेवमभेद्याभ्यां कपालाभ्यां समावृतः ।
तोये चरसि निःशङ्कः कंचिद्न्यमचिन्तयन् ॥ ३६ ॥
स मामुवाचाम्बुचरः कूर्मो मानुषवत्स्वयम् ।
किमाश्चर्ये मयि मुने धन्यश्चाहं कथं विभो ॥ ३७ ॥
गङ्गेयं निम्नगा धन्या किमाश्चर्यमतः परम् ।।
यत्राहमिव सत्त्वानि चरन्त्ययुतशो द्विज ॥ ३८ ॥
सोऽहं कुतूहलाविष्टो नर्दी गङ्गामुपस्थितः ।
धन्यासि त्वं सरिच्छ्रेष्ठे नित्यमाश्चर्यभूषिता ॥ ३९ ॥
या त्वमेवं महादेहैः श्वापदैरुपशोभिता ।
ह्रदिनी सागरं यासि रक्षन्ती तापसालयान् ॥ ४० ॥
एवमुक्ता ततो गङ्गा रूपिणी प्रत्यभाषत ।
नारदं देवगन्धर्वं शक्रस्य दयितं द्विजम् ॥ ४५ ॥
मा मैवं देवगन्धर्व संग्रामकलहप्रिय ।
नाहं धन्या द्विजश्रेष्ठ नैवाश्चर्योपशोभिता ॥ ४२ ॥
तव सत्ये निविष्टस्य वाक्यं मां प्रतिबाधते ।
सर्वाश्चर्यकरो लोके धन्यश्चैवार्णवो द्विज ॥ ४३ ॥
यत्राहमिव विस्तीर्णाः शतशो यान्ति निम्नगाः।
सोऽहं त्रिपथगावाक्यं श्रुत्वार्णवमुपस्थितः ॥ ४४ ॥
आश्चर्य खलु लोकानां धन्यश्चासि महार्णव ।
येन खल्वसि योनिस्त्वमम्भसां सलिलेश्वरः ॥ ४५ ॥
स्थाने त्वां वारिवाहिन्यः सरितो लोकपावना: ।
इमाः समभिगच्छन्ति पत्न्यो लोकनमस्कृताः॥ ४६ ॥
समुद्रस्त्वेवमुक्तस्तु ततो मामवदद्वचः ।
स्वं जलौघतलं भित्त्वा व्युत्थितः पवनेरितः ॥ ४७ ॥
मा मैवं देवगन्धर्व नास्म्याश्चर्यो द्विजर्षभ ।
वसुधेयं मुने धन्या यत्राहमुपरि स्थितः ॥ ४८ ॥
ऋते तु पृथिवीं लोके किमाश्चर्यमतः परम् ।
सोऽहं सागरवाक्येन क्षितिं क्षितितले स्थितः ॥ ४९ ॥
कौतूहलसमाविष्टो ह्यब्रुवं जगतो गतिम् ।
धरित्रि देहिनां योने धन्या खल्वसि शोभने ॥ ५० ॥
आश्चर्यं चापि भूतेषु महत्या क्षमया युते ।
तेन खल्वसि भूतानां धरणी मनुजारणिः ॥ ५१ ॥
क्षमा त्वत्तः प्रभूता च कर्म चाम्बरगामिनाम् ।
ततो भूः स्तुतिवाक्येन सा मयोक्तेन तेजिता ॥ ५२ ॥
विहाय सहजं धैर्यं प्रत्यक्षा मामभाषत ।
देवगन्धर्व मा मैवं संग्रामकलहप्रिय ॥ ५३ ॥
नास्मि धन्या न चाश्चर्ये पारक्येयं धृतिर्मम ।
एते धन्या द्विजश्रेष्ठ पर्वता धारयन्ति माम् ॥ ५४ ॥
आश्चर्याणि च दृश्यन्ते एते लोकस्य हेतवः ।
सोऽहं धरणिवाक्येन पर्वतान् समुपस्थितः ॥ ५५ ॥
धन्या भवन्तो दृश्यन्ते बह्वाश्चर्याश्च भूधराः ।
काञ्चनस्याग्ररत्नस्य घातूनां च विशेषतः ॥ ५६ ॥
तेन खल्वाकराः सर्वे भवन्तो भुवि शाश्वताः ।
ते ममैतद् वचः श्रुत्वा पर्वतास्तस्थुषां वराः ॥ ५७ ॥
ऊचुर्मां सान्त्वयुक्तानि वचांसि घनशोभिताः ।
ब्रह्मर्षे न वयं धन्या नाप्याश्चर्याणि सन्ति नः ।
ब्रह्मा प्रजापतिर्धन्यः सर्वाश्चर्यः सुरेष्वपि ॥ ५८ ॥
सोऽहं प्रजापतिं गत्वा सर्वप्रभवमव्ययम् ।
तस्य वाक्यस्य पर्यायपर्याप्तमिव लक्षये ॥ ५९ ॥
सोऽहं पितामहं देवं लोकयोनिं चतुर्मुखम् ।
स्तोतुं पश्चादुपगतः प्रणतोऽवनताननः ॥ ६० ॥
सोऽहं वाक्यसमाप्त्यर्थं श्रावये पद्मयोनिजम्।
आश्चर्यं भगवानेको धन्योऽसि जगतो गुरुः ॥ ६१ ॥
न किंचिदन्यत् पश्यामि भूतं यद्भवता समम् ।
त्वत्तः सर्वमिदं जातं जगत् स्थावरजङ्गमम् ॥ ६२ ॥
सदेवदानवा मर्त्या लोके भूतेन्द्रियात्मकाः ।
भवन्ति सर्वदेवेश दृष्ट्वा सर्वमिदं जगत् ॥ ६३॥
तेन खल्वसि देवानां देवदेवः सनातनः ।
तेषामेवासि यत्स्रष्टा लोकानामादिसम्भवः ॥ ६४ ॥
ततो मां प्राह भगवान् ब्रह्मा लोकपितामहः ।
धन्याश्चर्याश्रितैर्वाक्यैः किं मां नारद भाषसे ॥ ६५ ॥
आश्चर्यं परमं वेदा धन्या वेदाश्च नारद ।
ये लोकान् धारयन्ति स्म वेदास्तत्त्वार्थदर्शिनः॥ ६६ ॥
ऋक्सामयजुषां सत्यमथर्वणि च यन्मतम् ।
तन्मयं विद्धि मां विप्रं धृतोऽहं तैर्मया च ते ॥ ६७ ॥
पारमेष्ठ्येन वाक्येन नोदितोऽहं स्वयम्भुवा ।
वेदोपस्थानिकां चक्रे मतिं संस्थानविस्तरात् ॥ ६८ ॥
सोऽहं स्वयम्भूवचनाद् वेदान् वै समुपस्थितः ।
अवोचं तांश्च चतुरो मन्त्रप्रवचनान्वितान् ॥ ६९ ॥
धन्या भवन्तः पुण्याश्च नित्यमाश्चर्यभूषिताः ।
आधाराश्चैव विप्राणामेवमाह प्रजापतिः ॥ ७० ॥
स्वयम्भुवोऽपीह परं भवत्सु प्रश्नमागतम् ।
युष्मत्परतरं नास्ति श्रुत्या वा तपसापि वा ॥ ७१ ॥
प्रत्यूचुस्ते ततो वाक्यं वेदा मामभितः स्थिताः ।
आश्चर्याश्चैव धन्याश्च यज्ञाश्चात्मपरायणाः ॥ ७२ ॥
यज्ञार्थे च वयं सृष्टा धात्रा येन स्म नारद ।।
तदस्माकं परो यज्ञो न वयं स्ववशे स्थिताः ॥ ७३ ॥
स्वयम्भुवः परा वेदा वेदानां क्रतवः पराः ।
ततोऽहमब्रुवं यज्ञान् बृहद्वाग्भिः पुरस्कृतान् ॥७४॥
भो यज्ञाः परमं तेजो युष्मासु खलु लक्ष्यते ।
ब्रह्मणाभिहितं वाक्यं यच्च वेदैरुदीरितम् ॥ ७५ ॥
आाश्चर्यमन्यल्लोकेऽस्मिन् भवद्भ्यो नाभिगम्यते ।
धन्याः खलु भवन्तो ये द्विजातीनां स्ववंशजाः ॥ ७६ ॥
तेऽपि खल्वग्नयस्तृप्तिं युष्माभिर्यान्ति तर्पिताः ।
भागैश्च त्रिदशाः सर्वे मन्त्रैश्चैव महर्षयः ॥ ७७ ॥
अग्निष्टोमादयो यज्ञा मम वाक्यादनन्तरम् ।
प्रत्यूचुर्मां ततो वाक्यं सर्वे यूपध्वजाः स्थिताः ॥ ७८ ॥
आश्चर्यशब्दो नास्मासु धन्यशब्दोऽपि वा मुने ।
आश्चर्यं परमं विष्णुः स ह्यस्माकं परा गतिः ॥ ७९ ॥
यदाज्यं वयमश्नीमो हुतमग्निषु पावनम् ।
तत् सर्वं पुण्डरीकाक्षो लोकमूर्तिः प्रयच्छति ॥ ८० ॥
सोऽहं विष्णोर्गतिं प्रेप्सुरिह सम्पतितो भुवि ।
दृष्टश्चायं मया कृष्णो भवद्भिरिह संवृतः ॥ ८१ ॥
यन्मयाभिहितो ह्येष त्वमाश्चर्यं जनार्दन ।
धन्यश्चासीति भवतां मध्यस्थो ह्यत्र पार्थिवाः ॥ ८२ ॥
प्रत्युक्तोऽह्मनेनाद्य वाक्यस्यास्य यदुत्तरम् ।
दक्षिणाभिः सहेत्येवं पर्याप्तं वचनं मम ॥ ८३ ॥
यज्ञानां हि गतिर्विष्णुः सर्वेषां सहदक्षिणः ।
दक्षिणाभिः सहेत्येवं प्रश्नो मम समाप्तवान् ॥ ८४ ॥
कूर्मेणाभिहितं पूर्वं पारम्पर्यादिहागतम् ।
सदक्षिणेऽस्मिन् पुरुषे तद्वाक्यं प्रतिपादितम् ॥ ८५ ॥
यन्मां भवन्तः पृच्छन्ति वाक्यस्यास्य विनिर्णयम्।
तदेतत् सर्वमाख्यातं साधयामि यथागतम् ॥ ८६ ॥
नारदे तु गते स्वर्गे सर्वे ते पृथिवीभुजः ।
विस्मिताः स्वानि राष्ट्राणि जग्मुः सबलवाहनाः ॥ ८७ ॥
जनार्दनोऽपि सहितो यदुभिः पावकोपमैः ।
स्वमेव भवनं वीरो विवेश यदुनन्दनः ॥ ८८ ॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि धन्योपाख्यानं नाम दशाधिकशततमोऽध्यायः ॥ १ १० ॥