हरिवंशपुराणम्/पर्व २ (विष्णुपर्व)/अध्यायः ११४

← अध्यायः ११३ हरिवंशपुराणम्
अध्यायः ११४
वेदव्यासः
अध्यायः ११५ →
भगवतः श्रीकृष्णस्य अर्जुनं प्रति स्वयथार्थस्वरूपस्य परिचयदानम्

चतुर्दशाधिकशततमोऽध्यायः

अर्जुन उवाच
ततः कृष्णो भोजयित्वा शतानि सुबहूनि च ।
विप्राणामृषिकल्पानां कृतकृत्योऽभवत् तदा ।। १ ।
ततः सह मया भुक्त्वा वृष्णिभोजैश्च सर्वशः ।
विचित्राश्च कथा दिव्याः कथयामास भारत ।। २ ।।
ततः कथान्ते तत्राहमभिगम्य जनार्दनम् ।
अपृच्छं तद् यथावृत्तं कृष्णं यद् दृष्टवानहम् ।। ३ ।।
कथं समुद्रः स्तब्धोदः कृतस्तु कमलेक्षण ।
पर्वतानां च विवरं कृतं तत् कथमच्युत ।। ४ ।।
तमस्तच्च कथं घोरं घनं चक्रेण पाटितम् ।
तच्च यत्परमं तेजः प्रविष्टोऽसि कथं च तत् ।। ५ ।।
किमर्थं तेन ते बालास्तदा चापहृताः प्रभो ।
यच्च ते दीर्घमध्वानं संक्षिप्तं तत् कथं पुनः ।। ६ ।।
कथं चाल्पेन कालेन नस्तद्गतागतम् ।
एतत् सर्वं यथावृत्तमाचक्ष्व मम केशव ।। ७ ।।
वासुदेव उवाच
मद्दर्शनार्थं ते बाला हृतास्तेन महात्मना ।
विप्रार्थमेष्यते कृष्णो नागच्छेदन्यथेति ह ।। ८ ।।
ब्रह्म तेजोमयं दिव्यं महद् यद् दृष्टवानसि ।
अहं स भरतश्रेष्ठ मत्तेजस्तत् सनातनम् ।। ९ ।।
प्रकृतिः सा मम परा व्यक्ताव्यक्ता सनातनी ।
यां प्रविश्य भवन्तीह मुक्ता योगविदुत्तमाः ।। 2.114.१० ।।
सा सांख्यानां गतिः पार्थ योगिनां च तपस्विनाम् ।
तत् पदं परमं ब्रह्म सर्वं विभजते जगत् ।। ११ ।।
मामेव तद् घनं तेजो ज्ञातुमर्हसि भारत ।
समुद्रः स्तब्धतोयोऽहमहं स्तम्भयिता जलम् ।। १२ ।।
अहं ते पर्वताः सप्त ये दृष्टा विविधास्त्वया ।
पङ्कभूतं हि तिमिरं दृष्टवानसि यद्धि तत् ।। १३ ।।
अहं तमो घनीभूतमहमेव च पाटकः ।
अहं च कालो भूतानां धर्मश्चाहं सनातनः ।। १४ ।।
चन्द्रादित्यौ महाशैलाः सरितश्च सरांसि च ।
चतस्रश्च दिशः सर्वा ममैवात्मा चतुर्विधः ।। १५ ।।
चातुर्वर्ण्यं मत्प्रसूतं चातुराश्रम्यमेव च ।
चातुर्विध्यस्य कर्ताहमिति बुध्यस्व भारत ।। १६ ।।
अर्जुन उवाच
भगवन् सर्वभूतेश वेत्तुमिच्छामि ते प्रभो ।
पृच्छामि त्वां प्रपन्नोऽहं नमस्ते पुरुषोत्तम ।। १७ ।।
वासुदेव उवाच
ब्रह्म च ब्राह्मणाश्चैव तपः सत्यं च भारत ।
उग्रं बृहत्तमं चैव मत्तस्तद् विद्धि पाण्डव ।। १८ ।।
प्रियस्तेऽहं महाबाहो प्रियो मेऽसि धनंजय ।
तेन ते कथयिष्यामि नान्यथा वक्तुमुत्सहे ।। १९ ।।
अहं यजूंषि सामानि ऋचश्चाथर्वणानि च ।
ऋषयो देवता यज्ञा मत्तेजो भरतर्षभ ।। 2.114.२० ।।
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ।
चन्द्रादित्यावहोरात्रं पक्षा मासास्तथर्तवः ।
मुहूर्ताश्च कलाश्चैव क्षणाः संवत्सरास्तथा ।। २१ ।।
मन्त्राश्च विविधाः पार्थ यानि शास्त्राणि कानिचित् ।
विद्याश्च वेदितव्यं च मत्तः प्रादुर्भवन्ति हि ।। २२ ।।
मन्मयं विद्धि कौन्तेय क्षयं सृष्टिं च भारत ।
सच्चासच्च ममैवात्मा सदसच्चैव यत्परम् ।। २३ ।।
अर्जुन उवाच
एवमुक्तोऽस्मि कृष्णेन प्रीयमाणेन वै तदा ।
तथैव च मनो नित्यमभवन्मे जनार्दने ।। २४ ।।
एतच्छ्रुतं च दृष्टं च माहात्म्यं केशवस्य मे ।
यन्मां पृच्छसि राजेन्द्र भूयांश्चातो जनार्दनः ।। २५ ।।
वैशम्पायन उवाच
एतच्छ्रुत्वा कुरुश्रेष्ठो धर्मराजो युधिष्ठिरः ।
पूजयामास धर्मात्मा गोविन्दं पुरुषोत्तमम् ।। २६ ।।
विस्मितश्चाभवद् राजा सह सर्वैः सहोदरैः ।
राजभिश्च समासीनैर्ये तत्रासन् समागताः ।। २७ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि वासुदेवमाहात्म्ये कृष्णार्जुनभाषणे चतुर्दशाधिकशततमोऽध्यायः ।। ११४ ।।