प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ११२ हरिवंशपुराणम्
अध्यायः ११३
वेदव्यासः
अध्यायः ११४ →
श्रीकृष्णेन ब्राह्मणपुत्राणां आनयनम्

त्रयोदशाधिकशततमोऽध्यायः

अर्जुन उवाच
ततः पर्वतजालानि सरितश्च वनानि च ।
अपश्यं समतिक्रम्य सागरं वरुणालयम् ।। १ ।।
ततोऽर्घ्यमुदधिः साक्षादुपनीय जनार्दनम् ।
स प्राञ्जलिः समुत्थाय किंकरोमीति चाब्रवीत् ।। २ ।।
प्रतिगृह्य स तां पूजां तमुवाच जनार्दनः ।
रथपन्थानमिच्छामि त्वया दत्तं नदीपते ।। ३ ।।
अथाब्रवीत् समुद्रस्तु प्राञ्जलिर्गरुडध्वजम् ।
प्रसीद भगवन् नैवमन्योऽप्येवं गमिष्यति ।। ४ ।।
त्वयैव स्थापितः पूर्वमगाधोऽस्मि जनार्दन ।
त्वया प्रवर्तिते मार्गे यास्यामि गमनायताम् ।। ५ ।।
अन्येऽप्येवं गमिष्यन्ति राजानो दर्पमोहिताः ।
एवं संचिन्त्य गोविन्द यत् क्षमं तत् समाचर ।। ६ ।।
वासुदेव उवाच
ब्राह्मणार्थं मदर्थ च कुरु सागर मद्वचः ।
मदृते न पुमान् कश्चिदन्यस्त्वां धर्षयिष्यति ।। ७ ।।
अथाब्रवीत् समुद्रस्तु पुनरेव जनार्दनम् ।
अभिशापभयाद् भीतो बाढमेवं भविष्यति ।। ८ ।।
शोषयाम्येष मार्गं ते येन त्वं कृष्ण यास्यसि ।
रथेन सह सूतेन सध्वजेन तु केशव ।। ९ ।।
वासुदेव उवाच
मया दत्तो वरः पूर्वं न शोषं यास्यसीति ह ।
मानुषास्ते न जानीयुर्विविधान् रत्नसंचयान ।। १० ।।
जलं स्तम्भय साधो त्वं ततो यास्याम्यहं रथी।
न च कश्चित् प्रमाणं ते रत्नानां वेत्स्यते नरः ।। ११ ।।
सागरेण तथेत्युक्ते प्रस्थिताः स्मो जलेन वै ।
स्तम्भितेन पथा भूमौ मणिवर्णेन भास्वता ।। १२ ।।
ततोऽर्णवं समुत्तीर्य कुरूनप्युत्तरान् वयम् ।
क्षणेन समतिक्रान्ता गन्धमादनमेव च ।। १३ ।।
ततस्तु पर्वताः सप्त केशवं समुपस्थिताः ।
जयन्तो वैजयन्तश्च नीलो रजतपर्वतः ।। १४ ।।
महामेरुः सकैलास इन्द्रकूटश्च नामतः ।
बिभ्राणा वर्णरूपाणि विविधान्यद्भुतानि च ।। १५ ।।
उपस्थाय च गोविन्दं किं कुर्मेत्यब्रुवंस्तदा ।
तांश्चैव प्रतिजग्राह विधिवन्मधुसूदनः ।। १६ ।।
तानुवाच हृषीकेशः प्रणामावनतान् स्थितान् ।
विवरं गच्छतो मेऽद्य रथमार्गः प्रदीयताम् ।। १७ ।।
ते कृष्णस्य वचः श्रुत्वा प्रतिगृह्य च पर्वताः ।
प्रददुः कामतो मार्गं गच्छतो भरतर्षभ ।। १८ ।।
तत्रैवान्तर्हिताः सर्वे तदाश्चर्यतरं मम ।
असक्तं च रथो याति मेघज्ञालेष्विवांशुमान् ।। १९ ।।
सप्त द्वीपान् ससिन्धुश्च सप्त सप्त गिरीनथ ।
लोकालोकं तथातीत्य विवेश सुमहत्तमः ।। २० ।।
ततः कदाचिद् दुःखेन रथमूहुस्तुरङ्गमाः ।
पङ्कभूतं हि तिमिरं स्पर्शाद् विज्ञायते नृप ।। २१ ।।
अथ पर्वतभूतं तत् तिमिरं समपद्यत ।
तदासाद्य महाराज निष्प्रयत्ना हयाः स्थिताः ।। २२ ।।
ततश्चक्रेण गोविन्दः पाटयित्वा तमस्तदा ।
आकाशं दर्शयामास रथपन्थानमुत्तमम् ।। २३ ।।
निष्क्रम्य तमसस्तस्मादाकाशे दर्शिते तदा ।
भविष्यामीति संज्ञा मे भयं च विगतं मम ।। २४ ।।
ततस्तेजः प्रज्वलितमपश्यं तत् तदाम्बरे।
सर्वलोकं समाविश्य स्थितं पुरुषविग्रहम्।।२५।।
तं प्रविष्टो हृषीकेशो दीप्तं तेजोनिधिं तदा ।
रथ एव स्थितश्चाहं स च ब्राह्मणसत्तमः ।। २६ ।।
स मुहूर्तात् ततः कृष्णो निश्चक्राम तदा प्रभुः ।
चतुरो बालकान् गृह्य ब्राह्मणस्यात्मजांस्तदा ।। २७ ।।
प्रददौ ब्राह्मणायाथ पुत्रान् सर्वाञ्जनार्दनः ।
त्रयः पूर्वं हृता ये च सद्योजातश्च बालकः ।। २८ ।।
प्रहृष्टो ब्राह्मणस्तत्र पुत्रान् दृष्ट्वा पुनः प्रभो ।
अहं च परमप्रीतो विस्मितश्चाभवं तदा ।। २९ ।।
ततो वयं पुनः सर्वे ब्राह्मणस्य च ते सुताः।
यथा गता निवृ्त्ताः स्म तथैव भरतर्षभ।।३०।।
ततः स्म द्वारकां प्राप्ताः क्षणेन नृपसत्तम्
असम्प्राप्तेऽर्धदिवसे विस्मितोऽहं पुनः पुनः ।। ३१ ।।
सपुत्रं भोजयित्वा तु द्विजं कृष्णो महायशाः ।
धनेन वर्धयित्वा च गृहं प्रास्थापयत् तदा ।। ३२ ।।

इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि वासुदेवमाहालये ब्राह्मणपुत्रानयने त्रवोदशाधिकशततमोऽध्यायः ।। ११३ ।।