हरिवंशपुराणम्/पर्व २ (विष्णुपर्व)/अध्यायः १२३

← अध्यायः १२२ हरिवंशपुराणम्
अध्यायः १२३
वेदव्यासः
अध्यायः १२४ →
श्रीकृष्णात् पराजितस्य ज्वरस्य तस्य शरणे गमनम्, तस्मात् वरप्राप्तिः, तस्याज्ञां शिरोधार्यं कृत्वा रणभूमितः अपगमनम्

त्रयोविंशत्यधिकशततमोऽध्यायः

वैशम्पायन उवाच
मृतमित्यभिविज्ञाय ज्वरं शत्रुनिषूदनः ।
कृष्णो भुजबलाभ्यां तु चिक्षेपाथ महीतले ।। १ ।।
मुक्तमात्रः स बाहुभ्यां कृष्णदेहं विवेश ह ।
अमुक्त्वा विग्रहं तस्य कृष्णस्याप्रतिमौजसः ।। २ ।।
स ह्याविष्टस्तथा तेन ज्वरेणाप्रतिमौजसा ।
कृष्णः स्खलन्निव मुहुः क्षितौ गाढं व्यवर्तत ।। ३ ।।
जृम्भते श्वसते चैव वल्गते च पुनः पुनः ।
रोमाञ्चोत्थितगात्रश्च निद्रया चाभिभूयते ।। ४ ।।
ततः स्थैर्यं समालम्ब्य कृष्णः परपुरंजयः ।
विकुर्वति महायोगी जम्भमाणः पुनः पुनः ।। ५ ।।
ज्वराभिभूतमात्मानं विज्ञाय पुरुषोत्तमः ।
सोऽसृजज्ज्वरमन्यं तु पूर्वज्वरविनाशनम् ।। ६ ।।
घोरं वैष्णवमत्युग्रं सर्वप्राणिभयंकरम् ।
संसृष्टवान् स तेजस्वी तं ज्वरं भीमविक्रमम् ।। ७ ।।
ज्वरः कृष्णविसृष्टस्तु गृहीत्वा तं ज्वरं बलात् ।
कृष्णाय हृष्टः प्रायच्छत्तं जग्राह ततो हरिः ।। ८ ।।
ततस्तं परमक्रुद्धो वासुदेवो महाबलः ।
स्वगात्रात् स्वज्वरेणैव निष्कासयत वीर्यवान् ।। ९ ।।
आविध्य भूतले चैनं शतधा कर्तुमुद्यतः ।
व्याघोषत ज्वरस्तत्र भोः परित्रातुमर्हसि ।। 2.123.१० ।।
आविध्यमाने तस्मिंस्तु कृष्णेनामिततेजसा ।
अशरीरा ततो वाणी ह्यन्तरिक्षादभाषत ।। ११ ।।
कृष्ण कृष्ण महाबाहो यदूनां नन्दिवर्धन ।
मा वधीर्ज्वरमेनं तु रक्षणीयस्त्वयानघ ।। १२ ।।
इत्येवमुक्ते वचने तं मुमोच हरिः स्वयम् ।
भूतभव्यभविष्यस्य जगतः परमो गुरुः ।। १३ ।।
कृष्णस्य पादयोर्मूर्ध्ना शरणं सोऽगमज्ज्वरः ।
एवं मुक्तो हृषीकेशं ज्वरो वाक्यमथाब्रवीत् ।। १४ ।।
शृणुष्व मम गोविन्द विज्ञाप्यं यदुनन्दन ।
यो मे मनोरथो देव तं त्वं कुरु महाभुज ।। १५ ।।
अहमेको ज्वरस्तात नान्यो लोके ज्वरो भवेत्।
त्वत्प्रसादाद्धि देवेश वरमेनं वृणोम्यहम् ।। १६ ।।
देव उवाच
एवं भवतु भद्रं ते यथा त्वं ज्वर काङ्क्षसे ।
वरार्थिनां वरो देयो भवांश्च शरणं गतः ।। १७ ।।
एक एव ज्वरो लोके भवानस्तु यथा पुरा ।
योऽयं मया ज्वरः सृष्टो मय्येवैष प्रलीयताम् ।। १८ ।।
वैशम्पायन उवाच
एवमुक्ते तु वचने ज्वरं प्रति महायशाः ।
कृष्णः प्रहरतां श्रेष्ठः पुनर्वाक्यमुवाच ह ।। १९ ।।
वासुदेव उवाच
शृणुष्व ज्वर संदेशं यथा लोके चरिष्यसि ।
सर्वजातिषु विश्रब्धं यथा स्थावरजङ्गमे ।। 2.123.२० ।।
त्रिधा विभज्य चात्मानं मत्प्रियं यदि काङ्क्षसे ।
चतुष्पादान् भजैकेन द्वितीयेन च स्थावरान् ।। २१ ।।
तृतीयो यश्च ते भागो मानुषेषूपपत्स्यते ।
त्रिधाभूतं वपुः कृत्वा पक्षिषु त्वं भव ज्वर ।। २२ ।।
चतुर्थो यस्तृतीयस्य भविष्यति स ते धुवम् ।
एकान्तरस्तृतीयस्तु स वै चातुर्थिको ज्वरः ।। २३ ।।
मानुषेष्वभिभेदेन वस त्वं प्रविभज्य वै ।
जातिष्वथावशेषासु निवस त्वं शृणुष्व मे ।। २४ ।।
वृक्षेषु कीटरूपेण तथा संकोचपत्रकः ।
पाण्डुपत्रश्च विख्यातः फलेष्वप्तुर्यमेव च ।। २५ ।।
अपां तु नीलिकां विद्याच्छिखोद्भेदेन बर्हिणाम्।
पद्मिन्यादौ हिमो भूत्वा पृथिव्यामपि चोषरः ।। २६ ।।
गैरिकः पर्वतेष्वेव मत्प्रसादाद् भविष्यसि ।
गोष्वपस्मारको भूत्वा खोरकश्च भविष्यसि ।।२७ ।।
एवं त्वं बहुरूपेण भविष्यसि महीतले ।
दर्शनात् स्पर्शनाच्चापि प्राणिनां वधमेष्यसि ।। २८ ।।
ऋते देवमनुष्याणां नान्यस्त्वा विसहिष्यति ।
वैशम्पायन उवाच
कृष्णस्य वचनं श्रुत्वा ज्वरो हृष्टमना ह्यभूत् ।। २९ ।।
प्रोवाच वचनं किंचित् प्रणमित्वा कृताञ्जलिः ।
ज्वर उवाच
सर्वजातिप्रभुत्वेन कृतो धन्योऽस्मि माधव ।। 2.123.३० ।।
भूयश्च ते बलः कर्तुमिच्छामि षुरुषर्षभ ।
तदाज्ञापय गोविन्द किं करोमि महाभुज ।। ३१ ।।
अहमसुरकुलप्रमाथिना त्रिपुरहरेण हरेण निर्मितः ।
रणशिरसि विनिर्जितस्त्वया प्रभुरसि देव तवास्मि किंकरः ।। ३२ ।।
धन्योऽस्म्यनुगृहीतोऽस्मि यत् त्वया मत्प्रियं कृतम्।
आज्ञापय प्रियं किं ते चक्रायुध करोम्यहम् ।। ३३ ।।
वैशम्पायन उवाच
ज्वरस्य वचनं श्रुत्वा वासुदेवोऽब्रवीद् वचः ।
अभिसंधिं शृणुष्वाद्य यत् त्वां वक्ष्यामि निश्चयात्।।३४।।
श्रीभगवानुवाच
महाहवे तव मम च द्वयोरिमं पराक्रमं भुजबलकेवलास्त्रयोः ।
प्रणम्य मामेकमनाः पठेत् तु यः स वै भवेज्ज्वर विगतज्ज्वरो नरः ।। ३५ ।।
त्रिपाद् भस्मप्रहरणस्त्रिशिरा नवलोचनः ।
स मे प्रीतः सुखं दद्यात् सर्वामयपतिर्ज्वरः ।। ३६ ।।
आद्यन्तवन्तः कवयः पुराणाः सूक्ष्मा बृहन्तोऽप्यनुशासितारः ।
सर्वाञ्ज्वरान् घ्नन्तु मयानिरुद्धप्रद्युम्नसंकर्षणवासुदेवाः ।। ३७ ।।
वैशम्पायन उवाच
एवमुक्तस्तु कृष्णेन ज्वरः साक्षान्महान्मना ।
प्रोवाच यदुशार्दूलमेवमेतद् भविष्यति ।। ३८ ।।
वरं लब्ध्वा ज्वरो हृष्टः कृष्णाच्च समयं पुनः ।
प्रणम्य शिरसा कृष्णमपक्रान्तस्ततो रणात् ।। ३९ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि ज्वरकृष्णसंवादे त्रयोविंशत्यधिकशततमोऽध्यायः ।। १२३ ।।