← अध्यायः १२३ हरिवंशपुराणम्
अध्यायः १२४
वेदव्यासः
अध्यायः १२५ →
बाणासुरस्य सेनायाः पलायनं, भगवतः शङ्करस्य स्वगणैः सह युद्धायागमनम्, भगवतः कृष्णस्य रुद्रेण सह युदधं, बाणासुरस्य युद्धभूम्यां आगमनम्

चतुर्विंशत्यधिकशततमोऽध्यायः

वैशम्पायन उवाच
ततस्ते त्वरिताः सर्वे त्रयस्त्रय इवाग्नयः ।
वैनतेयमथारुह्य युध्यमाना रणे स्थिताः ।। १ ।।
ततः सर्वाण्यनीकानि बाणवर्षैरवाकिरन् ।
अर्दयन् वैनतेयस्था नदन्तोऽतिबलाद् रणे ।। २ ।।
चक्रलाङ्गलपातैश्च बाणवर्षैश्च पीडितम् ।
संचुकोप महानीकं दानवानां दुरासदम् ।। ३ ।।
कक्षेऽग्निरिव संवृद्धः शुष्केन्धनसमीरितः ।
कृष्णबाणाग्निरुद्भूतो विवृद्धिं परमां गतः ।। ४ ।।
दानवानां सहस्राणि तस्मिन् समरमूर्धनि ।
युगान्ताग्निरिवार्चिष्मान् दहमानो व्यराजत ।। ५ ।।
तां दीर्यमाणां महतीं नानाप्रहरणार्दिताम् ।
सेनां बाणः समासाद्य वारयन् वाक्यमब्रवीत् ।। ६ ।।
लाघवं समुपागम्य किमर्थं भयविक्लवाः ।
दैत्यवंशसमुन्पन्नाः पलायध्वं महाहवात् ।। ७ ।।
कवचासिगदाप्रासखड्गचर्मपरश्वधान् ।
उत्सृज्योत्सृज्य गच्छन्ति किं भवन्तोऽन्तरिक्षगाः।।८।।
स्वजातिं चैव भावं च हरसंसर्गमेव च ।
मानयद्भिर्न गन्तव्यमेषो ह्यहमवस्थितः ।। ९ ।।
एवमुच्चरितं वाक्यं शृण्वन्तस्तदचिन्तयन् ।
अपाक्रामन्त ते सर्वे दानवा भयमोहिताः ।। १० ।।
प्रमाथगणशेषं तु तदनीकमतिष्ठत ।
भग्नावशेषं युद्धाय पुनश्चक्रे मनस्तदा ।। ११ ।।
कुम्भाण्डो नाम बाणस्य सस्वामात्यश्च वीर्यवान् ।
भग्नं स्वबलमालोक्य इदं वचनमब्रवीत् ।। १२ ।।
एष बाणः स्थितो युद्धे शंकरोऽयं गुहस्तथा ।
किमर्थं बलमुत्सृज्य भवन्तो यान्ति मोहिताः ।। १३ ।।
प्राणांस्त्यक्त्वा पलायन्ते सर्वे दानवपुङ्गवाः ।
एवं कुम्भाण्डवाक्यं ते शृण्वन्तो भयविह्वलाः ।
चक्राग्निभयवित्रस्ताः सर्वे यान्ति दिशो दश ।। १४ ।।
भग्नं बलं ततो दृष्ट्वा कृष्णेनामिततेजसा ।
संरक्तनयनः स्थाणुर्युद्धाय पर्यवर्तत ।। १५ ।।
बाणसंरक्षणं कर्तुं रथमास्थाय सुप्रभम् ।
देवः कुमारश्च तथा रथेनाग्निसमेन वै ।। १६ ।।
नन्दीश्वरसमायुक्तं रथमास्थाय वीर्यवान् ।
संदष्टौष्ठपुटो रुद्रः प्राधावत यतो हरिः ।। १७ ।।
पिबन्निव तदाकाशं सिंहयुक्तो महास्वनः ।
रथो भाति घनोन्मुक्तः पौर्णमास्यां यथा शशी ।। १८।।
ततो गणसहस्रैस्तु नानारूपैर्भयावहैः ।
नदद्भिर्विविधान् नादान्रथो देवस्य शोभयन् ।। १९।।
केचित् सिंहमुखास्तत्र तथा व्याघ्रमुखाः परे ।
नागाश्वोष्ट्रमुखास्तत्र प्रवेपुरतिपीडिताः ।। २० ।।
व्यालयज्ञोपवीताश्च केचित् तत्र महाबलाः ।
खरोष्ट्रगजवक्त्राश्च अश्वग्रीवाश्च संस्थिताः ।। २१ ।।
छागमार्जारवक्त्राश्च मेषवक्त्रास्तथा परे ।
चीरिणः शिखिनश्चान्ये जटिलोर्ध्वशिरोरुहाः ।। २२ ।।
भग्नाः परिपतन्ति स्म शङ्खदुन्दुभिनिःस्वनैः ।
केचित् सौम्यमुखास्तत्र दिव्यैः शस्त्रैरलंकृताः।। २३ ।।
नानापुष्पकृतापीडा नानाप्रहरणायुधाः ।
वामना विकटाश्चैव सिंहव्याघ्रपरिच्छदाः ।। २४ ।।
रुधिराद्रैर्महावक्त्रैर्महादंष्ट्रा बलिप्रियाः ।
देवं सम्परिवार्याथ महाशत्रुप्रमर्दनम् ।। २५ ।।
लीलायमानास्तिष्ठन्ति संग्रामाभिमुखोन्मुखाः ।
ततो दिव्यं रथं दृष्ट्वा रुद्रस्याक्लिष्टकर्मणः ।। २६ ।।
कृष्णो गरुडमास्थाय ययौ रुद्राय संयुगे ।
वैनतेयस्थमास्यन्तमायान्तमग्रणी हरिम् ।। २७ ।।
विव्याध कुपितो बाणैर्नाराचानां शतेन सः ।
स शरैरर्दितस्तेन हरेणाक्लिष्टकर्मणा ।। २८ ।।
हरिर्जग्राह कुपितो ह्यस्त्रं पार्जन्यमुत्तमम् ।
प्रचचाल ततो भूमिर्विष्णुरुद्रप्रपीडिता ।। २९ ।।
नागाश्चोर्ध्वमुखास्तत्र विचेलुरभिपीडिताः ।
पर्वताः पतितास्तत्र जलधाराभिराप्लुताः ।। ३० ।।
केचिन्मुमुचिरे तत्र शिखराणि समन्ततः ।
दिशश्च प्रदिशश्चैव भूमिराकाशमेव च ।। ३१ ।।
प्रदीप्तानीव दृश्यन्ते स्थाणुकृष्णसमागमे ।
समन्ततश्च निर्घाताः पतन्ति धरणीतले ।। ३२ ।।
शिवाश्चैवाशिवान् नादान्नदन्ते भीमदर्शनाः ।
वासवश्चानदन् घोरं रुधिरं चाप्यवर्षत ।। ३३ ।।
उल्का च बाणसैन्यस्य पुच्छेनावृत्य तिष्ठति ।
प्रववौ मारुतश्चापि ज्योतींष्याकुलतां ययुः ।। ३४ ।।
प्रभाहीनास्तथौषध्यो न चरन्त्यन्तरिक्षगाः ।
एतस्मिन्नन्तरे ब्रह्मा सर्वदेवगणैर्वृतः ।। ३५ ।।
त्रिपुरान्तकमुद्यन्तं ज्ञात्वा रुद्रमुपागमत् ।
गन्धर्वाप्सरसश्चैव यक्षा विद्याधरास्तथा ।। ३६ ।।
सिद्धचारणसंघाश्च पश्यन्तोऽथ दिवि स्थिताः।
ततः पार्जन्यमस्त्रं तत् क्षिप्तं रुद्राय विष्णुना ।। ३७ ।।
ययौ ज्वलन्नथ तदा यतो रुद्रो रथस्थितः ।
ततः शतसहस्राणि शराणां नतपर्वणाम् ।। ३८ ।।
निपेतुः सर्वतो दिग्भ्यो यतो हररथः स्थितः ।
अथाग्नेयं महारौद्रमस्त्रमस्त्रविदां वरः ।। ३९ ।।
मुमोच रुषितो रुद्रस्तदद्भुतमिवाभवत् ।
ततो विशीर्णदेहास्ते चत्वारोऽपि समन्ततः ।। ४० ।।
नादृश्यन्त शरैश्छन्ना दह्यमानाश्च वह्निना ।
सिंहनादं ततश्चक्रुः सर्व एवासुरोत्तमाः ।। ४१ ।।
हतोऽयमिति विज्ञाय आग्नेयास्त्रेण वै तदा।
ततस्तद् विसहित्वाऽऽजौ ह्यस्त्रमस्त्रविदां वरः ।।४२ ।।
जग्राह वारुणं सोऽस्त्रं वासुदेवः प्रतापवान् ।
प्रयुक्ते वासुदेवेन वारुणास्त्रेऽतितेजसि ।।४३ ।।
आग्नेयं प्रशमं यातमस्त्रं वारुणतेजसा ।
तस्मिन् प्रतिहते त्वस्त्रे वासुदेवेन संयुगे ।। ४४ ।।
पैशाचं राक्षसं रौद्रं तथैवाङ्गिरसं भवः ।
मुमोचास्त्राणि चत्वारि युगान्ताग्निनिभानि वै ।। ४५।।
वायव्यमथ सावित्रं वासवं मोहनं तथा ।
अस्त्राणां धारणार्थाय वासुदेवो व्यमुञ्चत ।।४६ ।।
अस्त्रैश्चतुर्भिश्चत्वारि वारयित्वाशु माधवः ।
मुमोच वैष्णवं सोऽस्त्रं व्यादितास्यान्तकोपमम् ।।४७।।
वैष्णवास्त्रं प्रयुक्ते तु सर्व एवासुरोत्तमाः ।
भूतयक्षगणश्चैव बाणानीकं च सर्वशः ।। ४८ ।।
दिशः सर्वा प्राद्रवन्त भयमोहेन विक्लवाः ।
प्रमाथगणभूयिष्ठे दीर्णे सैन्ये महासुरः ।। ४९ ।।
निर्जगाम ततो बाणो युद्धायाभिमुखस्त्वरन् ।
भीमप्रहरणैर्घोरैर्दैत्यैश्च सुमहाबलैः।
वृतो महारथैर्वीरैर्वज्रीव सुरसत्तमैः ।। ५० ।।
वैशम्पायन उवाच
जपैश्च मन्त्रैश्च तथौषधीभिर्महात्मनः स्वस्त्ययनं प्रचक्रुः ।
स तत्र वस्त्राणि शुभाश्च गावः फलानि पुष्पाणि तथैव निष्कान् ।। ५१ ।।
बलेः सुतो ब्राह्मणेभ्यः प्रयच्छन् विराजते तेन यथा धनेशः ।
सहस्रसूर्यो बहुकिङ्किणीकः परार्घ्यजाम्बूनदरत्नचित्रः ।। ५२ ।।
सहस्रचन्द्रायुततारकश्च रथो महानग्निरिवावभाति ।
तमास्थितो दानवसंगृहीतं महाध्वजं कार्मुकधृक् स बाणः ।। ५३ ।।
उद्वर्तयिष्यन् यदुपुङ्गवानामतीव रौद्रं स बिभर्ति रूपम् ।
स मन्युमान् वीररथौघसंकुलो विनिर्ययौ तान् प्रति दैत्यसागरः ।। ५४ ।।
वातप्रवृद्धस्तु तरङ्गसंकुलो यथार्णवो लोकविनाशनाय ।
भीमानि संत्रासकरैर्वपुर्भिस्तान्यग्रतो भान्ति बलानि तस्य ।। ५५ ।।
महारथान्युच्छ्रितकार्मुकाणि सपर्वतानीव वनानि राजन् ।
विनिःसृतः सागरतोयवासादत्यद्भुतश्चाहवद्रष्टुकामः ।। ५६ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि रुद्रकृष्णयुद्धे चतुर्विंशत्यधिकशततमोऽध्यायः ।। १२४ ।।