हरिवंशपुराणम्/पर्व २ (विष्णुपर्व)/अध्यायः १२५

← अध्यायः १२४ हरिवंशपुराणम्
अध्यायः १२५
वेदव्यासः
अध्यायः १२६ →
श्रीकृष्णस्य जृम्भास्त्रेण भगवतः शङ्करस्य जृम्भायाः वशीभूतभवनं, ब्रह्मणा शिवं विष्णोः सह तस्य एकत्वस्य स्मारणं, ब्रह्मणः पृच्छाकरणोपरि मार्कण्डेयेन हरिहरस्य एकत्वं स्थापयित्वा माहात्म्यसहितं हरिहरात्मकस्य स्तोत्रस्य वर्णनम्

वैशम्पायन उवाच
अन्धकारीकृते लोके प्रदीप्ते त्र्यम्बके तथा ।
न नन्दी नापि च रथो न रुद्रः प्रत्यदृश्यत ।। १ ।।
द्विगुणं दीप्तदेहस्तु रोषेण च बलेन च ।
त्रिपुरान्तकरो बाणं जग्राह स चतुर्मुखम् ।। २ ।।
संदधत् कार्मुकं चैव क्षेप्तुकामस्त्रिलोचनः ।
विज्ञातो वासुदेवेन चित्तज्ञेन महात्मना ।। ३ ।।
जृम्भणं नाम सोऽप्यस्त्रं जग्राह पुरुषोत्तमः ।
हरं संजृम्भयामास क्षिप्रकारी महाबलः ।। ४ ।।
सशरः सधनुश्चैव हरस्तेनाशु जृम्भितः ।
संज्ञां न लेभे भगवान् विजेतासुररक्षसाम् ।। ५ ।।
सशरं सधनुष्कं च दृष्ट्वाऽऽत्मानं विजृम्भितम् ।
बलोन्मत्तोऽथ बाणोऽसौ शर्वं चोदयतेऽसकृत्।। ६ ।।
ततो ननाद भूतात्मा स्निग्धगम्भीरया गिरा ।
प्रध्मापयामास तदा कृष्णः शङ्खं महाबलः ।। ७।।
पाञ्चजन्यस्य घोषेण शार्ङ्गविस्फूर्जितेन च ।
देवं विजृम्भितं दृष्ट्वा सर्वभूतानि तत्रसुः ।। ८ ।।
एतस्मिन्नन्तरे तत्र रुद्रस्य पार्षदा रणे ।
मायायुद्धं समाश्रित्य प्रद्युम्नं पर्यवारयन् ।। ९ ।।
सर्वांस्तु निद्रावशगान्कृत्वा मकरकेतुमान् ।
दानवान् नाशयत् तत्र शरजालेन वीर्यवान् ।
प्रमाथगणभूयिष्ठांस्तत्र तत्र महाबलान् ।। 2.125.१० ।।
ततस्तु जृम्भमाणस्य देवस्याक्लिष्टकर्मणः ।
ज्वाला प्रादुरभूद्वक्त्राद्दहन्तीव दिशो दश ।।११।।
ततस्तु धरणीदेवी पीड्यमाना महात्मभिः ।
ब्रह्माणं विश्वधातारं वेपमानाभ्युपागमत् ।। १२ ।।
पृथिव्युवाच
देवदेव महाबाहो पीड्यामि परमौजसा ।
कृष्णरुद्रभराक्रान्ता भविष्यैकार्णवा पुनः ।। १३ ।।
अविषह्यमिमं भारं चिन्तयस्व पितामह ।
लघ्वीभूता यथा देव धारयेयं चराचरम् ।। १४ ।।
ततस्तु काश्यपीं देवीं प्रत्युवाच पितामहः ।
मुहूर्तं धारयात्मानमाशु लघ्वी भविष्यसि ।। १५ ।।
वैशम्पायन उवाच
दृष्ट्वा तु भगवान् ब्रह्मा रुद्रं वचनमब्रवीत् ।
सृष्टो महासुरवधः किं भूयः परिरक्ष्यते ।। १६ ।।
न च युद्धं महाबाहो तव कृष्णेन रोचते ।
न च बुध्यसि कृष्णं त्वमात्मानं तु द्विधा कृतम्।। १७ ।।
ततः शरीरयोगाद्धि भगवानव्ययः प्रभुः ।
प्रविश्य पश्यते कृत्स्नांस्त्रींल्लोकान्सचराचरान्।। १८ ।।
प्रविश्य योगं योगात्मा वरांस्ताननुचिन्तयन् ।
द्वारवत्यां यदुक्तं च तदनुस्मृत्य सर्वशः ।
जगाद नोत्तरं किंचिन्निवृत्तो ह्यभवत् तदा ।। १९ ।।
आत्मानं कृष्णयोनिस्थं पश्यत ह्येकयोनिजम् ।
ततो निःसृत्य रुद्रस्तु न्यस्तवादोऽभवन्मृधे ।। 2.125.२० ।।
ब्रह्माणं चाब्रवीद् रुद्रो न योत्स्ये भगवन्निति ।
कृष्णेन सह संग्रामे लघ्वी भवतु मेदिनी ।। २१ ।।
ततः कृष्णोऽथ रुद्रश्च परिष्वज्य परस्परम् ।
परां प्रीतिमुपागम्य संग्रामादपजग्मतुः ।। २२ ।।
न च तौ पश्यते कञ्चिद्योगिनौ योगमागतौ ।
एको ब्रह्मा तथा कृत्वा पश्यँल्लोकान्पितामहः ।। २३ ।।
उवाचैतत् समुद्दिश्य मार्कण्डेयं सनारदम् ।
पार्श्वस्थं परिपप्रच्छ ज्ञात्वा वै दीर्घदर्शिनम् ।। २४ ।।
पितामह उवाच
मन्दरस्य गिरेः पार्श्वे नलिन्यां भवकेशवौ ।
रात्रौ स्वप्नान्तरे ब्रह्मन्मया दृष्टौ हराच्युतौ ।। २५ ।
हरं च हरिरूपेण हरिं च हररूपिणम् ।
शङ्खचक्रगदापाणिं पीताम्बरधरं हरम् ।। २६।।
त्रिशूलपट्टिशधरं व्याघ्रचर्मधरं हरिम् ।
गरुडस्थं चापि हरं हरिं च वृषभध्वजम् ।। २७।।
विस्मयो मे महान्ब्रह्मन् दृष्ट्वा तत्परमाद्भुतम् ।
एतदाचक्ष्व भगवन् याथातथ्येन सुव्रत ।। २८ ।।
मार्कण्डेय उवाच
शिवाय विष्णुरूपाय विष्णवे शिवरूपिणे ।
यथान्तरं न पश्यामि तेन तौ दिशतः शिवम् ।। २९ ।।
अनादिमध्यनिधनमेतदक्षरमव्ययम् ।
तदेव ते प्रवक्ष्यामि रूपं हरिहरात्मकम् ।। 2.125.३० ।।
यो विष्णुः स तु वै रुद्रो यो रुद्रः स पितामहः ।
एका मूर्तिस्त्रयो देवा रुद्रविष्णुपितामहाः ।। ३१ ।।
वरदा लोककर्तारो लोकनाथाः स्वयम्भुवः ।
अर्धनारीश्वरास्ते तु व्रतं तीव्रं समास्थिताः ।। ३२ ।।
यथा जले जलं क्षिप्तं जलमेव तु तद् भवेत् ।
रुद्रं विष्णुः प्रविष्टस्तु तथा रुद्रमयो भवेत् ।। ३३ ।।
अग्निमग्निः प्रविष्टस्तु अग्निरेव यथा भवेत् ।
तथा विष्णुं प्रविष्टस्तु रुद्रो विष्णुमयो भवेत् ।। ३४ ।।
रुद्रमग्निमयं विद्याद्विष्णुः सोमात्मकः स्मृतः।
अग्नीषोमात्मकं चैव जगत् स्थावरजंगमम् ।। ३५ ।।
कर्तारौ चापहर्तारौ स्थावरस्य चरस्य तु ।
जगतः शुभकर्तारौ प्रभविष्णू महेश्वरौ ।। ३६ ।।
कर्तृकारणकर्तारौ कर्तृकारणकारकौ ।
भूतभव्यभवौ देवौ नारायणमहेश्वरौ ।। ३७ ।।
जगतः पालकावेतावेतौ सृष्टिकरौ स्मृतौ ।
एते चैव प्रवर्षन्ति भान्ति वान्ति सृजन्ति च ।
एतत् परतरं गुह्यं कथितं ते पितामह ।। ३८ ।।
यश्चैनं पठते नित्यं यश्चैनं शृणुयान्नरः ।
प्राप्नोति परमं स्थानं विष्णुरुद्रप्रसादजम् ।। ३९ ।।
देवौ हरिहरौ स्तोष्ये ब्रह्मणा सह संगतौ ।
एतौ च परमौ देवौ जगतः प्रभवाप्ययौ ।। 2.125.४० ।।
रुद्रस्य परमो विष्णुर्विष्णोश्च परमः शिवः ।
एक एव द्विधाभूतो लोके चरति नित्यशः ।। ४१ ।।
न विना शंकरं विष्णुर्न विना केशवं शिवः ।
तस्मादेकत्वमायातौ रूद्रोपेन्द्रौ तु तौ पुरा ।
नमो रुद्राय कृष्णाय नमः संहतचारिणे ।। ४२ ।।
नमः षडर्धनेत्राय सद्विनेत्राय वै नमः ।
नमः पिङ्गलनेत्राय पद्मनेत्राय वै नमः ।। ४३ ।।
नमः कुमारगुरवे प्रद्युम्नगुरवे नमः ।
नमो धरणीधराय गङ्गाधराय वै नमः ।। ४४ ।।
नमो मयूरपिच्छाय नमः केयूरधारिणे ।
नमः कपालमालाय वनमालाय वै नमः ।। ४५ ।।
नमस्त्रिशूलहस्ताय चक्रहस्ताय वै नमः ।
नमः कनकदण्डाय नमस्ते ब्रह्मदण्डिने ।। ४६ ।।
नमश्चर्मनिवासाय नमस्ते पीतवाससे ।
नमोऽस्तु लक्ष्मीपतये उमायाः पतये नमः ।। ४७ ।।
नमः खट्वाङ्गधाराय नमो मुसलधारिणे ।
नमो भस्माङ्गरागाय नमः कृष्णाङ्गधारिणे।। ४८ ।।
नमः श्मशानवासाय नमः सागरवासिने ।
नमो वृषभवाहाय नमो गरुडवाहिने ।। ४९ ।।
नमस्त्वनेकरूपाय बहुरूपाय वै नमः ।
नमः प्रलयकर्त्रे च नमस्त्रैलोक्यधारिणे ।। 2.125.५० ।।
नमोऽस्तु सौम्यरूपाय नमो भैरवरूपिणे ।
विरूपाक्षाय देवाय नमः सौम्येक्षणाय च ।। ५१ ।।
दक्षयज्ञविनाशाय बलेर्नियमनाय च ।
नमः पर्वतवासाय नमः सागरवासिने ।। ५२ ।।
नमः सुररिपुघ्नाय त्रिपुरघ्नाय वै नमः ।
नमोऽस्तु नरकघ्नाय नमः कामाङ्गनाशिने ।। ५३ ।।
नमस्त्वन्धकनाशाय नमः कैटभनाशिने ।
नमः सहस्रहस्ताय नमोऽसंख्येयबाहवे ।। ५४ ।।
नमः सहस्रशीर्षाय बहुशीर्षाय वै नमः ।
दामोदराय देवाय मुञ्जमेखलिने नमः ।। ५५।।
नमस्ते भगवन् विष्णो नमस्ते भगवञ्छिव ।
नमस्ते भगवन् देव नमस्ते देवपूजित ।। ५६ ।।
नमस्ते सामभिर्गीत नमस्ते यजुभिः सह ।
नमस्ते सुरशत्रुघ्न नमस्ते सुरपूजित ।। ५७ ।।
नमस्ते कर्मिणां कर्म नमोऽमितपराक्रम ।
हृषीकेश नमस्तेऽस्तु स्वर्णकेश नमोऽस्तु ते ।। ५८ ।।
इमं स्तवं यो रुद्रस्य विष्णोश्चैव महात्मनः ।
समेत्य ऋषिभिः सर्वैः स्तुतौ स्तौति महर्षिभिः ५९ ।।
व्यासेन वेदविदुषा नारदेन च धीमता ।
भारद्वाजेन गर्गेण विश्वामित्रेण वै तथा ।। 2.125.६० ।।
अगस्त्येन पुलस्त्येन धौम्येन तु महात्मना ।
य इदं पठते नित्यं स्तोत्रं हरिहरात्मकम् ।। ६१ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि
अरोगो बलवांश्चैव जायते नात्र संशयः ।
श्रियं च लभते नित्यं न च स्वर्गान्निवर्तते ।। ६२
अपुत्रो लभते पुत्रं कन्या विन्दति सत्पतिम् ।
गुर्विणी शृणुते या तु वरं पुत्रं प्रसूयते ।। ६३ ।।
राक्षसाश्च पिशाचाश्च विघ्नानि च विनायकः ।
भयं तत्र न कुर्वन्ति यत्रायं पठ्यते स्तवः ।। ६४ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि हरिहरात्मकस्तवो नाम पञ्चविंशत्यधिकशततमोऽध्यायः १२५।।