प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ०१८ हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)
अध्यायः ०१९
[[लेखकः :|]]
अध्यायः ०२० →
योगिनः स्थितिः, तस्य समक्षे भविष्ये प्रकटनीयानां विघ्नरूपाणां ऐश्वर्याणां वर्णनम्

एकोनविंशोऽध्यायः

जनमेजय उवाच
प्राग्वंशं श्रोतुमिच्छामि विस्तरेण महामुने ।
आद्ययोर्युगयोर्ब्रह्मन् ब्रह्मप्राप्तस्य सर्वशः ।। १ ।।
वैशम्पायन उवाच
शृणु विस्तरशः सर्वं यन्मां पृच्छसि मेधया ।
उपपन्नेन मनसा दैवप्रत्ययसाधिना ।। २ ।।
ऋद्धि प्राप्तस्तु भगवान् योगात्मा ब्रह्मसम्भवः ।
भूतानां बहुलत्वं च चकारेहेश्वरः प्रभुः ।। ३ ।।
स्थितो ब्रह्मासने ब्रह्मा विक्षिप्तः सहसा प्रभुः ।
अचलेनैव भावेन स्थाणुभूतेन भारत ।। ४ ।।
रक्तश्च मोक्षविषये स च ज्ञानमये पदे ।
यस्मात् पदसहस्राणि प्रभवन्ति भवन्ति च ।। ५ ।।
ब्रह्मयज्ञं तु यजते योगाद् वेदात्मकं सदा ।
ब्रह्मणो विपुलं ज्ञानमैश्वर्यं च प्रवर्तते ।। ६ ।।
ततः प्रथममैश्वर्यं युञ्जानेन प्रवर्तितम् ।
ब्रह्मणा ब्रह्मभूतेन भूतानां हितमिच्छता ।। ७ ।।
तदा त्वाकाशमैश्वर्यं युञ्जानस्य प्रवर्तते ।
ब्रह्मणो ब्रह्मभूतस्य निर्विकारेण कर्मणा ।। ८ ।।
तदान्तरिक्षं सम्प्राप्तं निर्मलं ब्रह्म चाव्ययम् ।
संहारः सर्वभूतानां नराणां ब्रह्मवादिनाम् ।
ध्रुवमैश्वर्ययोगानां प्रतिपद्यन्ति देहिनः ।। ९ ।।
आकाशैश्वर्यभूतेन संयुगे ब्रह्मवादिना ।
प्रवर्तमानमैश्वर्यं वायुभूतं करोति च ।
विकारैर्बहुभिः प्राप्तैः सम्पतद्भिर्महाबलैः ।। 3.19.१० ।।
एतैर्विकारैः संवृत्तैर्निरुद्धैश्च समन्ततः ।
ध्रुवमैश्वर्यमापन्नः सिद्धो भवति ब्राह्मणः ।। ११ ।।
शरीरादभिनिष्क्रम्य आकाशेन प्रधावति ।
निरालम्बो निरालम्बान्नालम्ब्य मनसा ततः ।। १२ ।।
ऐश्वर्यभूतो भूतात्मा चरन् दिवि न दृश्यते ।
चक्षुर्भिर्बहुभिर्लोकैः पुरंदरसमैरपि ।। १३ ।।
ओंकारं ये त्वधीयन्ते मनसा ब्रह्मसत्तमाः ।
विमुक्ताः सर्वकर्मभ्यस्ते तं पश्यन्ति साधवः ।। १४ ।।
एतद्धि परमं ब्रह्म ब्राह्मणानां मनीषिणाम् ।
अन्तश्चरति भूतानां विद्धि चेतनया सह ।। १५ ।।
एष शब्दो महानादः पुराणो ब्रह्मसम्भवः ।
वायुभूतोऽक्षरं प्राप्तो वदन्त्येवं द्विजातयः ।। १६ ।।
अरूपी रूपसम्पन्नो धातुभिः सह संगतः ।
अन्तश्चरति भूतेषु कामकारकरो वशी ।।१७ ।।
एतत् पूर्वमनुध्याय मनसाऽऽपूरयन्निव ।
वेदात्मकं तदा यज्ञं चिन्तयन्तो मनीषिणः ।।१८ ।।
ब्राह्मणाः शुचयो दान्ता यशोयुञ्जस्तदन्वयाः ।
ब्रह्मलोकं काङ्क्षमाणा वैष्णवं पदमुत्तमम् ।। १९।।
पदहेतोः क्रियाः सर्वाः कुर्वन्ति विगतज्वराः ।
न ह्येते प्रसवादाने भवमिच्छन्ति भारत ।। 3.19.२०
त्रिभिर्माल्योपहारैश्च प्रतिभावैश्च वै द्विजाः ।
यजन्ति परमात्मानं विष्णुं सत्यपराक्रमम् ।।२१ ।।
यजनं विक्रमं चैव ब्रह्मपूर्वाः प्रचक्रिरे ।
ब्रह्मापि वैष्णवं तेजो वेदोक्तैर्वचनैर्नृप ।। २२ ।।
ब्राह्मणैर्ब्रह्मविद्भिश्च ब्रह्मज्ञैर्ब्रह्मवादिभिः ।
शुचिभिः कर्मनिर्मुक्तैः सत्यव्रतपरायणैः ।। २३ ।।
धातुभिर्मोक्षकाले च महात्मा सम्प्रदृश्यते ।
तदेव परमं ब्रह्म वैष्णवं परमाद्भुतम् ।। २४ ।।
रसात्मकं तदैश्वर्यं विकारान्ते प्रदृश्यते ।
घोररूपा विकारास्ते व्यथयन्ति महात्मनः ।।२५ ।।
संछाद्यातीव तोयेन क्षुभ्यमाणो विचेतनः ।
ऊर्मिभिश्छाद्यते चैव शीतोष्णाभिर्विकारतः ।। २६ ।।
महार्णवगतश्चैव दह्यते न च मज्जते ।
मग्नश्चैव महानद्याः सलिले नैव सीदति ।। २७ ।।
सीदमानश्च सलिले स शीते पात्यते बलात् ।
व्यसनाच्छादनाच्चैव मुच्यमानो विचेतनः ।। २८ ।।
श्वभ्रे प्रपद्यमानश्च तोयेन परिषिच्यते ।
शुक्लवर्णेन बहुना स्रोतसा मूर्ध्नि सर्वशः ।। २९।।
ऊर्ध्वं ज्योतिरवेक्षंश्च शुक्लैः पीतैश्च बाध्यते ।
वारिदपूर्णैः सुगम्भीरैर्विद्युद्भिरिव भासितैः ।। 3.19.३० ।।
एतैर्विकारैः संवृत्तैनिर्रुद्धैश्चैव सर्वशः ।
ध्रुवमैश्वर्यमासाद्य सिद्धो भवति ब्राह्मणः ।। ३१ ।।
रसात्मकं तदैश्वर्यं जिह्वाग्रादभिनिःसृतम् ।
सहस्रधारं विततं मेघत्वं समुपागतम् ।। ३२ ।।
रसांश्च विविधान् योगात् संसिद्धः सृजते प्रभुः।
धात्वर्थं सर्वभूतानां योगप्राप्तेन हेतुना ।। ३३ ।
तेजसो रूपमैश्वर्यं विकारैः सह वर्धते ।
आत्मनो विघ्नजननं स्वस्थो ब्राह्मणकारणे ।। ३४
उप्ररूपैर्विरूपैश्च हन्यते दण्डपाणिभिः ।
घोररूपैः सुगम्भीरैः पिङ्गाक्षैर्नरविग्रहैः ।। ३५ ।।
नेत्रं समुद्धरन् भीमो जिह्वाग्रं चास्य विन्दति ।
नदन्ति युगपन्नादं जृम्भमाणाः पुनः पुनः ।। ३६ ।।
पुनरेव तदा भूत्वा बहुरूपास्तदाभवन् ।
नृत्यमानाः प्रगायन्ति तर्पयन्तो विशेषतः ।। ३७ ।।
स्त्रीभूताश्च ततः सर्वे युञ्जानाश्चावलम्बिरे ।
कण्ठेऽस्य बहुरूपत्वाद् विघ्नैश्चैव प्रलोभयन् ।। ३८ ।।
मधुरैरभिधानैश्च व्याहरन्ति न भीतवत् ।
पतन्ति युगपत् सर्वे पादयोर्मूर्धभिर्युताः ।। ३९ ।।
प्रसादं काङ्क्षमाणाश्च योगस्यान्तरविघ्नतः ।
बहुप्रकारं कथयन् नृत्यन्ति च तरन्ति च ।। 3.19.४० ।।
एतैर्विकारैः संवृत्तैर्निरुद्धैश्चैव सर्वशः ।
भुवमैश्वर्यमासाद्य सिद्धो भवति ब्राह्मणः ।। ४१ ।।
तदर्चिष इवाग्नेया आदित्यस्येव रश्मयः ।
तेजोरूपकमैश्वर्यं जनितास्तेजबिन्दवः ।। ४२ ।।
ज्योतींषि चैव संवृत्ता आकाशे गुणसंवृताः ।
चरन्ति लोके सततं सूर्याचन्द्रमसोर्गतिम् ।। ४३
चन्द्रसूर्यात्मकं दिव्यं ज्योतिः सघनमुत्तमम् ।
एतद् विभ्राजते लोके कालचक्रं ध्रुवं वरम् ।। ४४।।
अर्धमासाश्च मासाश्च ऋतुसंवत्सराण्यथ ।
क्षणा लवा मुहूर्ताश्च कलाः काष्ठास्तथैव च ।। ४५ ।।
अहोरात्रप्रमाणं च निमिषोन्मेषणं तथा ।
ताराणां गतयश्चैव ग्रहाणां च विशेषतः ।। ४६ ।।
अथ पार्थिवमैश्वर्यं विकारग्रहसम्भवम् ।
योगयुक्तास्त्वभिग्रस्ताः पात्यन्ते ह्यचलासनात्।।४७ ।।
अलोभाच्छिद्यते सद्यो वेपमानोऽनुकीर्त्यते ।
सीदते वसुधामध्ये भिद्यमानः पुनः पुनः ।। ४८।।
भूतानां बहुरूपैश्च अन्यैश्च तलवासिभिः ।
विषयैर्युज्यते क्षिप्रं संक्षेपात् समवरुद्ध्यते ।। ४९ ।।
ततः पार्थिवमैश्वर्यं सेवमानश्च सर्वतः ।
मूर्तिमद्भिश्च बहुधा धातुभिः स च हन्यते ।। 3.19.५० ।।
शक्तितोमरनिस्त्रिंशैर्गदाभिश्चाप्यनेकधा ।
असिभिः पात्यते चैव क्षुरधारैः सहस्रशः ।। ५१ ।।
भिद्यते चैव बाणाग्रैः सुतीक्ष्णैर्मर्मभेदिभिः ।
एभिर्विकारैर्निर्वृत्तैर्निरुद्धैश्चैव सर्वशः ।। ५२ ।।
भुवमैश्वर्यमापन्नः सिद्धो भवति ब्राह्मणः ।
ततः पार्थिवमैश्वर्यं निर्मुक्तस्य विकारतः ।। ५३ ।।
प्रादुर्भवति संजाते समाधौ प्रलयं गते ।
दिव्यं गन्धं समाघ्राय दिव्यार्थांस्ताञ्छृणोति च ।। ५४ ।।
दिव्यरूपैश्च पुरुषैश्छिद्यते न च भिद्यते ।
गच्छन् सुकृतिनां चान्तः प्रधानात्मा क्षरन्निव।। ५५ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि पौष्करे एकोनविंशोऽध्यायः ।। १९ ।।