प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ०१९ हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)
अध्यायः ०२०
[[लेखकः :|]]
अध्यायः ०२१ →
ब्रह्मणा योगधारणापूर्वकेन सृष्टा मानसिक सृष्ट्याः वर्णनम्

विंशोऽध्यायः

वैशम्पायन उवाच
ततोऽन्यां धारणां गत्वा मनसा स पितामहः ।
ब्रह्मकर्मसमारम्भं निर्मुक्तेनान्तरात्मना ।। १ ।।
सर्वाङ्गधारणां कृत्वा मनसा प्रहसन्निव ।
ब्रह्मयोगेन च ब्रह्मा सृजते मनसा प्रजाः ।। २ ।।
चक्षुषो रूपसम्पन्ना ह्यप्सराः सृजते प्रभुः ।
नासिकाग्राच्च गन्धर्वान् सुचित्राम्बरवाससः ।। ३ ।।
तुम्बुरुप्रमुखान् सर्वाञ्छतशोऽथ सहस्रशः ।
नृत्यवादित्रकुशलान् कुशलान् सामगीतिषु ४ ।।
ब्रह्मयोगेन योगज्ञः स्वयम्भूर्भगवान् प्रभुः ।
चारुनेत्रां सुकेशान्तां सुभ्रूं चारुनिभाननाम् ।। ५ ।।
पद्मेन शतपत्रेण चारुणा सुविराजिताम् ।
स्वक्षां शुचिगिरं सेव्यां ब्राह्मीं मूर्तिमतीं श्रियम्।। ६ ।।
ससृजे मनसा ब्रह्मा सम्यक्प्रोक्तेन चेतसा ।
भावयोगेन भूतात्मा सर्वप्राणभृतां नृप ।। ७ ।।
चक्षुषो रूपसम्पन्नाः सृजन् सोऽप्सरसः प्रभुः।
नासिकाग्राच्च गन्धर्वान् सुवासः सुप्रवादितान्।। ८ ।।
गानप्रभाषं संचक्रे गन्धर्वाणामशेषतः ।
अन्येषां चैव विप्राणां गानं ब्रह्मप्रभाषितम् ।। ९ ।।
पद्भ्यां सृजति भूतानि गतिमन्ति ध्रुवाणि च ।
नरकिन्नरयक्षांश्च पिशाचोरगराक्षसान् ।। 3.20.१० ।।
गजान् सिंहांश्च व्याघ्रांश्च मृगांश्चैव सहस्रशः ।
तृणजातीश्च बहुधा भावहेतोश्चतुष्पदान् ।। ११ ।।
ये तु हस्तान्निखादन्ति कर्मप्राप्तेन हेतुना ।
हस्तेभ्यः कर्म ससृजे मन्तव्यं मनसा तथा ।। १२ ।।
वायुना स विसर्गं च भूतानां सुखमिच्छता ।
उपतस्थे तदानन्दं पञ्चेन्द्रियसमाधिना ।। १३ ।।
हृदयादसृजद् गावो बाहुभ्यां पक्षिणस्तथा ।
अन्यानि चैव सत्त्वानि तैस्तैर्वेषैः पृथग्विधैः ।। १४ ।।
ऋषिं त्वङ्गिरसं चैव मुनिं ज्वलिततेजसम् ।
ब्रह्मवंशकरं दिव्यं व्यतिषिक्तषडिन्द्रियम् ।। १५ ।।
भ्रुवोऽन्तरादजनयद् योगाद् योगेश्वरः प्रभुः ।
ब्रह्मवंशकरं दिव्यं भृगुं परमधार्मिकम् ।। १६ ।।
ललाटमध्यादसृजन्नारदं प्रियविग्रहम् ।
सनत्कुमारं मूर्ध्नश्च महायोगी पितामहः ।। १७ ।।
अभिषिक्तं तु सोमं च यौवराज्ये पितामहः ।
ब्राह्मणानां च राजानं शाश्वतं रजनीश्वरम् ।। १८ ।।
तपसा महता युक्तो ग्रहैः सह निशाकरः ।
चचार नभसो मध्ये प्रभाभिर्भासयन् जगत् ।। १९ ।।
स गात्रैर्भगवान् योगान्मनसा सिद्धिमागतः ।
ससृजे सर्वभूतानि स्थावराणि चराणि च ।। 3.20.२० ।।
तत्र स्थानानि भूतानां योगांश्चैव पृथग्विधान् ।
व्यधत्त शतशो ब्रह्मा सर्वभूतपितामहः ।। २१ ।।
एष ब्रह्ममयो यज्ञो योगः सांख्यश्च तत्त्वतः ।
विज्ञानं च स्वभावश्च क्षेत्रं क्षेत्रज्ञ एव च ।। २२ ।।
एकत्वं च पृथक्त्वं च सम्भवो निधनं तथा ।
कालः कालक्षयश्चैव ज्ञेयो विज्ञानमेव च ।। २३ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि पौष्करे विंशोऽध्यायः ।। २० ।।