प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ०२९ हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)
अध्यायः ०३०
[[लेखकः :|]]
अध्यायः ०३१ →
पृथोः राज्याभिषेकं, दैत्यानां देवतानां च मन्दराचलस्य मन्थनदण्डेन समुद्रस्य मन्थनं, समुद्रात् अन्येभिः रत्नैः सह अमृतस्य प्राकट्यं, राहोः शिरस्य छेदनम्

त्रिंशोऽध्यायः

जनमेजय उवाच
ब्रह्मन् खिले वर्तमाने निर्मर्यादे महाग्रहे ।
अविनाशे च भूतानां कथमासन् प्रजास्तदा ।। १ ।
वैशम्पायन उवाच
अभ्यषिञ्चत्पृथुं वैन्यं पुरा राज्ये प्रजापतिः ।
राज्याय ऋषिभिः सार्धं प्रजाधर्मपरायणः ।। २ ।।
एष नः परमो राजा सानुरागो व्यजायत ।
त्रेतायां सम्प्रवृत्तायामन्योन्यमनुजल्पिरे ।। ३ ।।
एष नो वृत्तिदाता च शिल्पानां च प्रवर्तिता ।
निर्माता सर्वभूतानां सत्यप्राप्तेन कर्मणा ।। ४ ।।
एतस्मिन्नन्तरे देवा गन्धमादनसानुषु ।
बहुभिर्नियमैः श्रान्ता निषण्णा गिरिसानुषु ।। ५ ।।
अथ गन्धं समासाद्य समन्ताद् देवदानवाः ।
माथवे समये प्राप्ते तेन गन्धेन दर्पिताः ।। ६ ।।
पुष्पमात्रस्य यद् वीर्यं मारुतेन विसर्पितम् ।
मनोग्राहि सुखं सर्वं पार्थिवं गन्धमुत्तमम् ।। ७ ।।
ते दैत्यास्तेन गन्धेन किंचिद् विस्मयमागताः ।
प्रसन्नमनसो भूत्वा परं सौख्यमुपागताः ।। ८ ।।
ऊचुश्च सहिताः सर्वे तेन गन्धेन दर्पिताः ।
पुष्पमात्रस्य यद् वीर्यं किं तस्य फलतो भवेत् ।। ९ ।।
अनुमानेन विज्ञेया विविधाः कर्मबुद्धयः ।
शुभाश्चैवाशुभाश्चैव बुद्धिप्राणेन देहिनाम् ।। 3.30.१० ।।
तस्माद् वयं पयोमध्ये ओषध्यो निर्मथामहे ।
मन्दरेण विशालेन बलिना कामरूपिणा ।। ११ ।।
समुद्रमभिसंरम्भान्मथ्नीमः सोमजं जलम् ।
पीत्वा च सहिताः सर्वे प्रस्थिताः कामरूपिणः ।। १२।
विष्णुरेवाग्रणीस्तेषां भविष्यति महाबलः ।
दिवं च वसुधां चैव भोक्ष्यामः सह शत्रुभिः ।। १३ ।।
समूलपत्रशाखाश्च सपुष्पाः फलशालिनः ।
सर्वे ग्रहांश्च गृह्णीमः सुधां च वसुधातले ।। १४ ।।
उद्धृत्य गिरिपादेभ्यो गन्धमादनसानुजान् ।
प्रभाष्य वचनं दैत्या मन्दरस्य प्रकम्पने ।। १५ ।।
समुद्धर्तुं प्रधावन्तः कम्पयन्ति स्म मेदिनीम् ।
निश्चयेन महावीर्या बाहुभिः परिणाहिभिः ।। १६ ।।
न शक्नुस्ते सूमुद्धर्तुं शैलेन्द्रं दनुवंशजाः ।
निपेतुर्जानुभिर्घृष्टा विपुले पर्वतान्तरे ।। १७ ।।
समाधायात्मनाऽऽत्मानं तपसा दग्धकिल्बिषाः ।
पितामहं प्रपद्यन्ते शिरोभिः कामरूपिभिः ।। १८।।
तेषां मनोऽभिलषितं ब्रह्मा सर्वत्रगो वशी ।
ज्ञात्वा बहुविधैर्वाक्यैर्व्याजहार सरस्वतीम् ।। १९ ।।
अशरीरां शरीरस्थः परया वर्णसम्पदा ।
सर्वलोकमतिर्ब्रह्मा लोकानां हितकाम्यया ।। 3.30.२० ।।
आदित्यैर्वसुभिश्चैव रुद्रैश्च समरुद्गणैः ।
देवैर्यक्षैः सगन्धर्वैः किन्नरैश्च प्रगायिभिः ।। २१ ।।
समेत्य सहितैः सर्वैः शक्य उद्धरितुं गिरिः ।
अमृतार्थे महातेजा धातुभिः समरंजितः ।। २२ ।।
सुरासुरगणाः सर्वे समुत्पाट्य महागिरिम् ।
हस्तारूढाः प्रपश्यन्ति वीरुधो हिमवद्रसम् ।। २३ ।।
एतच्छुत्वा च वचनं सर्वेषामन्तिके तदा ।
दैतेया बाहुबलिनो मनोभिर्वाग्भिरैव च ।। २४ ।।
विक्रीडभूता बहुधा बभूवुर्लवणाम्भसः ।
यत्र पुष्करविन्यस्तः सहितैर्देवदानवैः ।। २५ ।।
सुरासुरगणाः सर्वे सहिता लवणाम्भसः ।
मन्दरं पुष्करं कृत्वा नेत्रं वासुकिमेव च ।। २६ ।।
समाः सहस्रं मथितं जलमोषधिभिः सह ।
क्षीरभूतं समायोगादमृतं समपद्यत ।। २७ ।।
तज्जह्रुरसुराः पूर्वमाक्रान्ता लोभमन्युना ।
धन्वन्तरिस्तथा मद्यं श्रीर्देवी कौस्तुभो मणिः।। २८ ।।
शशाङ्को विमलश्चापि समुत्तस्थुः समन्ततः ।
उच्चैःश्रवा हयो रम्यः पीयूषं तदनन्तरम् ।। २९ ।।
पश्चाद् देवास्तदातुमुद्यता राहुमब्रुवन् ।
न तु केचित्पिबन्ति स्म दैत्या नैव च दानवाः ।। 3.30.३० ।।
चिच्छेदाथ हरिः संख्ये राहोश्चक्रेण कं तदा ।
अनिर्मुक्तं पितृगणैर्मुनिभिश्च सनातनैः ।। ३१ ।।
तदिन्द्रहस्तादमृतं जहार पृथिवी स्वयम् ।
जगामाङ्कगता देवी ब्रह्मवाक्यप्रचोदिता ।। ३२ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि पौष्करे त्रिंशोऽध्यायः ।। ३० ।।