हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)/अध्यायः ०३१

← अध्यायः ०३० हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)
अध्यायः ०३१
[[लेखकः :|]]
अध्यायः ०३२ →
बलेः यज्ञे वामनेन त्रिलोक्याः राज्यस्य हरणं, कालान्तरे देवेभिः बलेः राज्याभिषेककरणम्

एकत्रिंशोऽध्यायः

जनमेजय उवाच
निहते दैत्यसंघाते विष्णोश्चातिपराक्रमे ।
दैतेया दानवेयाश्च किमिच्छन्ति पराक्रमात् ।। १ ।
वैशम्पायन उवाच
दानवा राज्यमिच्छन्ति पराक्रम्य महाबलाः ।
तप इच्छन्ति सहिता देवाः सत्यपराक्रमाः ।। २ ।।
जनमेजय उवाच
कथं कालस्य महतो हिरण्यकशिपुस्तदा ।
यजते ब्रह्मणः क्षेत्रे प्राप्तैश्वर्यः स कामदः ।। ३ ।।
वैशम्पायन उवाच
ईजे बहुसुवर्णेन राजसूयेन पार्थिवः ।
क्रतुना दानवश्रेष्ठो वसुधायां महाबलः ।। ४ ।।
गङ्गायमुनयोर्मध्ये यदभूद् विपुलं तपः ।
समेयुस्तत्र सहिता यजमाने महासुरे ।। ५ ।।
ब्राह्मणा वेदविद्वांसो महाव्रतपरायणाः ।
यतयश्चापरे सिद्धा योगधर्मेण भारत ।। ६ ।।
मुनयो वालखिल्याश्च धन्या धर्मेण शोभिताः ।
बहवो हि द्विजा मुख्या नित्यधर्मपरायणाः ।। ७ ।।
ऋषयश्च महाभागा विप्रैः पूज्याः सहस्रशः ।
विपुलैरत्र विभवैर्हियमाणैस्ततस्ततः ।। ८ ।।
शुक्रस्तु सह पुत्रेण दैत्यं याजयते प्रभुः ।
हिरण्यकशिपुं मध्ये गणानां ज्वलनप्रभः ।। ९ ।।
हिरण्यकशिपुश्चैव व्याजहार सरस्वतीम् ।
कामाद् वरं ददातीति तद् वै सम्प्रतिपद्यताम् ।। 3.31.१० ।।
विष्णुर्वामनरूपेण भिक्षां तां प्रतिगृह्णति ।
हिरण्यकशिपोर्हस्ताद् द्वे पदे पदमेव च ।। ११ ।।
ततः क्रमितुमारेभे विष्णुः सत्यपराक्रमः ।
त्रीँल्लोकान् मुनिभिः क्रान्तैर्दिव्यं वपुरधारयत् ।। १२ ।।
हृतराज्याश्च दैतेयाः पातालविवरं ययुः ।
ससैन्यगणसम्बद्धाः सप्रासाः सासितोमराः ।। १३ ।।
सयन्त्रलगुडाश्चैव सपताकारथध्वजाः ।
सचर्मवर्मकोशाश्च सायुधाः सपरश्वधाः ।। १४ ।।
तथेन्द्रविष्णुसहिताः सद्यस्तेऽभ्युत्थिता गणा।
अभ्यषिञ्चन् प्रमुदिता लोकानामधिपे सुराः ।। १५ ।।
स तान् स्वधामृतेनाशु पितृत्वे समतर्पयत् ।
ब्रह्मा तदमृतं दिव्यं महेन्द्राय प्रयच्छति ।
अक्षयं चाव्ययं चैव संवृतस्तेन कर्मणा ।। १६ ।।
ततः शङ्खमुपाध्मासीद् द्विषतां लोमहर्षणम् ।
पितामहकरोद्भूतं जनितृ प्रथमे पदे ।। १७ ।।
तं श्रुत्वा शङ्खशब्दं तु त्रयो लोकाः समाहिताः ।
निर्वृतिं परमां प्राप्ता इन्द्रं नाथमवाप्य च ।। १८ ।।
सर्वैः प्रहरणैश्चैव संयुक्ता वह्निसम्भवैः ।
मन्दराग्रेषु विहितैर्ज्वलद्भिरिव पावकैः ।। १९ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि पौष्करे एकत्रिंशोऽध्यायः ।। ३१