प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ०३२ हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)
अध्यायः ०३३
[[लेखकः :|]]
अध्यायः ०३४ →
वाराहावतारस्य उपक्रमः

त्रयस्त्रिंशोऽध्यायः

जनमेजय उवाच
प्रादुर्भावः पुराणेषु विष्णोरमिततेजसः ।
सतां कथयतां विप्र वाराह इति नः श्रुतः ।। १ ।।
न जानतेऽस्य चरितं न विधिं नैव विस्तरम् ।
न कर्म गुणवद्भावं न हेतुं न मनीषितम् ।। २ ।।
किमात्मको वराहोऽसौ का मूर्तिः कास्य देवता ।
किमाचारः किं प्रभावः किं वा तेन पुरा कृतम्।। ३ ।।
एतन्मे संशयत्वेन वाराहं श्रुतिविस्तरम् ।
यज्ञार्थं च समेतानां द्विजातीनां महात्मनाम् ।। ४ ।।
वैशम्पायन उवाच
एतत् ते कथयिष्यामि पुराणं ब्रह्मसम्मितम् ।
नानाश्रुतिसमायुक्तं कृष्णद्वैपायनेरितम् ।
महावराहचरितं कृष्णस्याद्भुतकर्मणः ।। ५ ।।
यथा नारायणो राजन् वाराहं वपुरास्थितः ।
दंष्ट्र्या गां समुद्रस्थामुज्जहारारिसूदनः ।। ६ ।।
छान्दसीभिरुदाराभिः श्रुतिभिः समलङ्कृतः ।
शुचिः प्रयत्नवान् भूत्वा निबोध जनमेजय ।। ७ ।।
इदं पुराणं परमं पुण्यं वेदैश्च सम्मितम् ।
नानाश्रुतिसमायुक्तं नास्तिकाय न कीर्तयेत् ।। ८ ।।
पुराणमेतदखिलं सांख्यं योगं तथैव च ।
कार्त्स्न्येन विधिना प्रोक्तं योऽस्यार्थं ज्ञास्यते पुमान् ।।९।।
विश्वेदेवास्तथा साध्या रुद्रादित्यास्तथाश्विनौ ।
प्रजानां पतयश्चैव सप्त चैव महर्षयः ।। 3.33.१० ।।
मनःसंकल्पजाश्चैव पूर्वजाश्च महर्षयः ।
वसवोऽप्सरसश्चैव गन्धर्वा यक्षराक्षसाः ।। ११ ।।
दैत्याः पिशाचा नागाश्च भूतानि विविधानि च ।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा म्लेच्छादयो भुवि।। १२ ।।
चतुष्पदानि सर्वाणि तिर्यग्योनिगतानि च ।
जङ्गमानि च सत्त्वानि यच्चान्यज्जीवसंज्ञितम् ।। १३ ।।
पूर्णे युगसहस्रान्ते ब्राह्मेऽहनि तथागते ।
निर्वाणे सर्वभूतानां सर्वोत्पातसमुद्भवे ।। १४ ।।
हिरण्यरेतास्त्रिशिखस्ततो भूत्वा वृषाकपिः ।
शिखाभिर्विविधाँल्लोकान् संशोषयति देहिनः।। १५ ।।
दह्यमानास्ततस्तस्य तेजोराशिभिरग्रतः ।
विवर्णवर्णा दग्धाङ्गा हतार्चिष्मद्भिराननैः ।। १६ ।।
साङ्गोपनिषदा वेदा इतिहासपुरोगमाः ।
सर्वविद्याश्रयाश्चैव सत्यधर्मपरायणाः ।। १७ ।।
ब्रह्माणमग्रतः कृत्वा छन्दतो विश्वतोमुखम् ।
सर्वे देवगणाश्चैव त्रयस्त्रिंशच्च कोटयः ।। १८ ।।
तस्मिन्नहनि सम्प्राप्ते तं हंसं महदक्षरम् ।
प्रविशन्ति महायोगं हरिं नारायणं प्रभुम् ।। १९ ।।
तेषां भूयः प्रविष्टानां निधनोत्पत्तिरुच्यते ।
यथा सूर्यस्य सततमुदयास्तमयाविह ।। 3.33.२० ।।
पूर्णे युगसहस्रान्ते कल्पो निःशेष उच्यते ।
तस्मिञ्जीवकृतं सर्वं निःशेषमवतिष्ठते ।। २१ ।।
संहृत्य लोकान् सर्वान् स सदेवासुरपन्नगान् ।
कृत्वाऽऽत्मगर्भे भगवानास्त एको जगद्गुरुः ।। २२ ।।
यः स्रष्टा सर्वभूतानां कल्पान्तेषु पुनः पुनः ।
अव्यक्तः शाश्वतो देवस्तस्य सर्वमिदं जगत् ।। २३ ।।
नष्टार्ककिरणे लोके चन्द्ररश्मिविवर्जिते ।
त्यक्तभूताग्निपवने क्षीणयज्ञवषट्क्रिये ।। २४ ।।
अपक्षिगणसंघाते सर्वप्राण्यचरे पथि ।
अमर्यादाकुले रौद्रे सर्वतस्तमसावृते ।। २५ ।।
अदृश्ये सर्वलोकेऽस्मिन्नभावे सर्वकर्मणाम् ।
प्रशान्ते सर्वसम्पाते नष्टे वैरपरिग्रहे ।। २६ ।।
गते स्वभावसंस्थानं लोके नारायणात्मके ।
परमेष्ठी हृषीकेशः शयनायोपचक्रमे ।। २७ ।।
पीतवासा लोहिताक्षः कृष्णो जीमूतसंनिभः ।
शिखासहस्रविकचं जटाभारं समुद्वहन् ।। २८ ।।
श्रीवत्सकलिलं पुण्यं रक्तचन्दनभूषितम् ।
वक्षो बिभ्रन्महाबाहुः सविद्युदिव तोयदः ।। २९ ।।
पुण्डरीकसहस्रस्य मालास्य शुशुभे तदा ।
पत्नी चैव स्वयं लक्ष्मीर्देहमावृत्य तिष्ठति ।। 3.33.३० ।।
ततः स्वपिति धर्मात्मा सर्वलोकपितामहः ।
किमप्यमितविक्रान्तो निद्रायोगमुपागतः ।। ३१ ।।
ततो वर्षसहस्रे तु पूर्णे स पुरुषोत्तमः ।
स्वयमेव विभुर्भूत्वा बुध्यते विबुधाधिपः ।। ३२ ।।
ततश्चिन्तयते भूयः सृष्टिं लोकस्य लोककृत्।
पितृदेवासुरनरान् पारमेष्ठ्येन कर्मणा ।। ३३ ।।
ततश्चिन्तयते कार्यं देवेषु समितिंजयः ।
सम्भवं सर्वलोकस्य विदधाति स वाक्पतिः ।। ३४ ।।
कर्ता चैव विकर्ता च संहर्ता च प्रजापतिः ।
धाता विधाता च तथा संयमो नियमो यमः ।। ३५ ।।
नारायणपरा देवा नारायणपराः क्रियाः ।
नारायणपरो यज्ञो नारायणपरा श्रुतिः ।। ३६ ।।
नारायणपरो मोक्षो नारायणपरा गतिः ।
नारायणपरो धर्मो नारायणपरः क्रतुः ।। ३७ ।।
नारायणपरं ज्ञानं नारायणपरं तपः ।
नारायणपरं सत्यं नारायणपरं पदम् ।
नागयणपरो देवो न भूतो न भविष्यति ।। ३८ ।।
स्वयंभूरिति विज्ञेयः स ब्रह्मा भुवनाधिपः ।
स वायुरिति विज्ञेय एष यज्ञः सनातनः ।। ३९ ।।
सदसच्च स विज्ञेयः स यज्ञः स प्रजाकरः ।
यद् वेदितव्यं त्रिदशैस्तदेष परिविन्दति ।। 3.33.४० ।।.
यच्च वेद्यं भगवतो देवा अपि न तद् विदुः ।
प्रजानां पतयः सप्त ऋषयश्च सहामरैः ।। ४१ ।।
नास्यान्तमधिगच्छन्ति ततोऽनन्त इति श्रुतिः ।
यदस्य परमं रूपं तत्र पश्यन्ति देवताः ।। ४२ ।।
प्रादुर्भावेषु सम्भूतं यत् तदर्चन्ति देवताः ।
यन्न दर्शितवान् देवः कस्तदन्वेष्टुमर्हति ।। ४३ ।।
ग्रामणीः सर्वभूतानामग्निमारुतयोर्गतिः ।
तेजसस्तपसश्चैव निधानममृतस्य च ।।४४ ।।
चतुराश्रमवर्णेषु चातुर्होत्रफलाशनः ।
चतुःसागरपर्यन्तश्चतुर्युगविवर्तकः ।। ४५ ।।
तदेष संहृत्य जगत् कृत्वा गर्भस्थमात्मनः ।
मुमोचाण्डं महायोगी धृतं वर्षसहस्रिकम् ।। ४६ ।।
सुरासुरद्विजभुजगाप्सरोगणैर्महौषधिक्षितिधरयक्षगुह्यकैः ।
प्रजापतिः श्रुतिधर रक्षसां कुलं तदासृजज्जगदिदमात्मना प्रभुः ।। ४७ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि वाराहे प्रादुर्भावे त्रयस्त्रिंशोऽध्यायः ।। ३३ ।।