प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ०३१ हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)
अध्यायः ०३२
[[लेखकः :|]]
अध्यायः ०३३ →
दक्षयज्ञविध्वंसः

द्वात्रिंशोऽध्यायः

वैशम्पायन उवाच
ततो महति वृत्तान्ते स्थिते राज्ये महोदये ।
देवतानां मनुष्याणां सहवासोऽभवत् तदा ।। १ ।।
एकतः समधीयन्ति सहिताः प्ररुदन्ति च ।
स्वयं च भागं गृह्णन्ति यज्ञकर्मणि भारत ।। २ ।।
प्राचेतसं ततो दक्षं दीक्षित्वा वै बृहस्पतिः ।
वाजिमेधाय भगवानृषिभिः परिवारितः ।। ३ ।।
तस्मिन् मातामहे यज्ञे दक्षस्य विदितात्मनः ।
शामित्रमकरोद् रुद्रो भागार्थे सह नन्दिना ।। ४ ।।
रुद्रस्यैव हि तद् रूपं द्विधाभूतं तदीप्सया ।
जातः परमधर्मात्मा नन्दी पुरुषविग्रहः ।। ५ ।।
तेन योगेन राजेन्द्र यत्तद् ब्रह्म सनातनम् ।
विहितं सत्यवचनैस्तेनैव परमात्मना ।। ६ ।।
सरूपैश्चाप्यरूपैश्च विरूपाक्षैर्घटोदरैः ।
ऊर्ध्वनेत्रैर्महाकायैर्विकटैर्वामनैस्तथा ।। ७ ।।
शिखिभिर्जटिभिश्चैव त्र्यक्षैश्च शङ्कुकर्णिभिः ।
चीरिभिश्चर्मिभिश्चैव कूटमुद्गरपाणिभिः ।। ८ ।।
सघण्टाधारिभिश्चैव मुञ्जमेखलधारिभिः ।
सहस्तकटकैश्चैव स्वर्णकुण्डलधारिभिः ।। ९ ।।
सडिण्डिमैः सभेरीयैः समृदङ्गैः सवेणुभिः ।
एतैः परिवृतो देवो मखं तं समुपारुजत् ।। 3.32.१० ।।
सशङ्खमुरजैश्चापि सतालफलपाणिभिः ।
उप्रायुधधरो देवः सपिनाक इवान्तकः ।। ११ ।।
विरराजार्चिभिर्दीप्तैर्मखे मखवतां वरः ।
कालाग्निरिव दीप्तार्चिर्जगद्दग्धुमिवोद्यतः ।। १२ ।।
नन्दी पिनाकपाणिश्च जघ्नतुर्मखमुत्तमम् ।
युगान्त इव कालाग्निः क्षिप्रं दग्धुमिवोद्यतः ।। १३ ।।
यूपमुत्क्षिप्य धावन्ति निशाचरगणास्तथा ।
त्रासयन् मुनिसंघांश्च चीरचर्मनिवासिनः ।। १४ ।।
हवींष्यन्ये पिबन्त्येव जिह्वाभिस्ताम्रलोचनाः ।
भक्षयन्ति पशूनन्ये रसनान्तावलम्बिभिः ।। १५ ।।
मुमुचुश्चापरे यूपान् पशवः प्रहरन्ति च ।
वह्निमध्ये प्रसिञ्चन्ति वारिभिः प्रशमाय च ।। १६ ।।
सोममन्ये जहुः केचिन्नेत्रैस्ताम्रजपोपमैः ।
दर्भान् केचिद् विलुम्पन्ति हस्तैः पद्मदलप्रभैः ।। १७ ।।
बभञ्जिरे च यूपाग्रान् कलशांश्चापि चिक्षिपुः ।
चिच्छिदुः काञ्चनान् वृक्षाञ्छोभार्थमुपकल्पितान् ।। ।। १८ ।।
बिभिदुश्चैव बाणैस्ते मुमुचुश्च हिरण्मयान् ।
लुलुपुश्चैव पात्राणि ममन्थुश्चारणीमपि ।। १९ ।।
अरुजंश्चैव प्राग्वंशं लुलुपुश्च समाहिताः ।
चखादिरे पुरोडाशान् नखाग्रैश्च चकर्तिरे ।। 3.32.२० ।।
एवं दिवा च रात्रौ च भिद्यमानो महामखः ।
चुक्रोश च महानादान् भिद्यमान इवार्णवः ।। २१ ।।
धनुः सशरमादाय पूर्वदत्तं स्वयंभुवा ।
कृतं कीचकवेणुभ्यां समरे सुमहारथः ।। २२ ।।
प्रतिगृह्य महादेवः स शरैः समयोजयत् ।
धनुर्विगृह्य जानुभ्यां जघान स महाक्रतुम् ।। २३ ।।
स विद्धस्तेन बाणेन खं समुत्पतितः क्रतुः ।
मृगो भूत्वा नर्दमानो ब्रह्माणमुपधावति ।। २४ ।।
शरेणाभिहतस्त्राणं न लेभे प्रशमं भुवि ।
शरणार्थी ह्ययं प्राप्तः शरेणान्तर्गतेन च ।। २५ ।।
तमुवाच मृगं ब्रह्मा शुभं सानुनयं वचः ।
स्वरेणोत्तमवीर्येण गम्भीरेण सुभाषिणा ।। २६ ।।
एवंरूपो नभसि त्वं भविष्यसि महामृगः ।
विजितश्च त्रिपर्वेण शरेणानतपर्वणा ।। २७ ।।
तिष्ठन् नक्षत्रशिरसि सह रुद्रेण नित्यशः ।
सोमेन सह संयुक्तो ह्यक्षयेणाव्ययेन च ।। २८ ।।
दिवि संचारभूतो वै ताराभिः सह संगतः ।
ज्योतिर्भूतो ज्योतिषां त्वं ध्रुवश्चैव महाध्रुवः ।। २९ ।।
यच्चैतद् रुधिरं दिव्यं क्षतजादभिनिःसृतम् ।
नभस्युत्पतितं चैव प्रवेगेन प्रधावतः ।। 3.32.३० ।।
क्षतजं बहुवर्णं च क्षेत्रं मण्डलसंज्ञितम् ।
निमित्तभूतं भूतानां वर्षे वर्षप्रदं तथा ।। ३१ ।।
सुखं दुःखं च भूतानां दर्शने सम्प्रवर्तते ।
इन्द्रियश्रवणाच्चैव नभसीन्द्रायुधोऽभवत् ।। ३२ ।।
चक्षुषी मानुषे राजन् विस्मयात् समवैक्षत ।
अद्भुतं बहुचित्रं च मनसा सम्प्रकल्पितम् ।। ३३ ।।
न तु रात्रौ प्रदृश्येत खे सब्रह्मणि संज्ञितम् ।
दिनस्यैव सदा त्वग्रे महत्कार्यं प्रदृश्यते ।। ३४ ।।
भूमावेव समुत्तिष्ठेदाकाशे तु विलीयते ।
शतशश्च समं सर्वे प्रधावन्ति प्रचेतसः ।
भयाद् रुद्रस्य महतो धन्विनो बाणपाणयः ।। ३५ ।।
नन्दी रुद्रगणैः सार्द्धं पिनाकी समतिष्ठत ।
युगान्तकाले ज्वलितो ब्रह्मदण्ड इवोद्यतः ।। ३६ ।।
विष्णुः शृङ्गसमुद्भूतं प्रगृह्य विपुलं धनुः ।
प्रातिष्ठत महाबाहुः पाणिना चक्रमादधत् ।। ३७ ।।
गदां सघण्टामन्येन खड्गमन्येन पाणिना ।
प्रगृह्य सोऽग्रतोऽतिष्ठद् रुद्रायोद्यतपाणये ।। ३८ ।।
ततः शृङ्गाग्रसम्भूतं प्रगृह्य विपुलं धनुः ।
शङ्खं चाप्रतिमं लोके शरांश्चानतपर्वणः ।। ३९ ।।
विष्णुरग्रस्थितो भाति सबलः संहताङ्गुलिः ।
बद्धगोधाङ्गुलित्राणः सचन्द्र इव तोयदः ।। 3.32.४० ।।
आदित्या वसवश्चैव दिव्यैः प्रहरणैः सह ।
विष्णुमेवाभितः सर्वे तिष्ठन्ति ज्वलनप्रभाः ।। ४१ ।।
मरुतश्चैव विश्वे च रुद्रमेवाभिपेदिरे ।
गन्धर्वाः किन्नराश्चैव नागा यक्षाः सपन्नगाः ।। ४२ ।।
ऋषयो न्यस्तदण्डाश्च उभयोः पक्षयोर्हिताः ।
जपन्ति शान्तये नित्यं लोकानां हितकाम्यया ।। ४३ ।।
रुद्रः शरेणाभ्यहनद् विष्णुमेवाग्रणी रणे ।
हृदि सर्वाङ्गसन्धीषु तीक्ष्णाग्रेण सुयन्त्रिणा ।। ४४ ।।
न चकम्पे तदा विष्णुः सर्वात्मा ब्रह्मसम्भवः ।
न च रोषमना नित्यं वृतः सर्वैः षडिन्द्रियैः ।। ४५ ।।
विष्णुश्च धनुरानम्य शरेण समयोजयत्।
जत्रुदेशे मुमोचाशु ब्रह्मदण्डमिवोद्यतम् ।। ४६ ।।
स विद्धस्तेन बाणेन महादेवो न कम्पते ।
वज्रेण च महासन्धिर्मन्दरस्य न चाल्यते ।। ४७ ।।
ततः प्रसभमाप्लुत्य रुद्रं विष्णुः सनातनम् ।
कण्ठे जग्राह भगवान् नीलकण्ठस्ततोऽभवत्।। ४८।।
अनादिनिधनो देवो क्षमतां हि भवान्मम ।
सर्वभूतागमाचार्यमचलत्वाच्च कर्मणाम् ।। ४९ ।।
कर्मणां चैव कर्ता च विकर्ता चैव भारत ।
अशेषत्वाच्च भूतानां सर्वभूतेषु चोत्तमः ।। 3.32.५० ।।
स्वयमेव हि यत् कर्म विधत्ते कर्मयोनिषु ।
तयोः शुभतमो राजन् स्वयमेव तथाकरोत् ।। ५१ ।।
अन्तरिक्षाच्छुभा वाचः श्रूयन्ते परमाद्भुताः ।
सिद्धानां वदनोन्मुक्ताः सनातन नमोऽस्तु ते ।। ५२ ।।
नन्दी पिनाकमुद्यम्य बलवान् रुद्रसम्भवः ।
मूर्द्धन्यभिजघानाजौ विष्णुं क्रोधेन मूर्छितः ।। ५३ ।।
ततः प्रहसितो विष्णुर्नन्दीं दृष्ट्वा सुरोत्तमः ।
स्तम्भयामास भगवान् सर्वभूतपतिर्हरिः ।। ५४ ।।
विष्णुर्ब्रह्मसमो भूत्वा तेजसा प्रज्वलन्निव ।
क्षमया च समायुक्तः स्थितः स्थाणुरिवाचलः।। ५५ ।।
अचिन्त्यश्चाप्रमेयश्च ह्यजेयश्चाप्यरिंदमः ।
युगान्ताग्निसमो भूत्वा शान्तात्मा हरिरव्ययः ।। ५६ ।।
प्रसन्नः कल्पयामास भागं रुद्राय धीमते ।
विष्णुर्धर्मपरो नित्यं त्यक्तकामः सुरोत्तमः ।। ५७ ।।
विष्णुना चैव राजेन्द्र स यज्ञः संधितः पुनः ।
यथापक्षं च ते सर्वे गणास्त्वासन् महीपते ।
तस्मिन् युद्धे महाघोरे विष्णू रुद्रस्य चैव ह ।। ५८ ।।
यथापक्षं भवेद् युद्धं दक्षयज्ञविनाशने ।
विनाशश्चैव यज्ञस्य तदा लोके प्रतिष्ठितः ।। ५९ ।।
सर्वभूतेषु राजेन्द्र हितो यज्ञः सनातनः ।
दक्षो यज्ञफलं चैव प्राप्तवान् स प्रजापतिः ।। 3.32.६० ।।
इमां चोदाहृतां दिव्यां कथामिति स बुद्धिमान् ।
श्रावयेद् यस्तु विप्रेभ्यः शुचिः प्रयतमानसः ।। ६१ ।।
अधीत्य सर्वमध्यात्मं देवलोके महीयते ।
एष पौष्करको नाम प्रादुर्भावो महात्मनः ।। ६२ ।।
पुराणे पौष्करे चैव मया द्वैपायनेरितः ।
यथावदनुपूर्वेण संस्कृतः परमर्षिभिः ।। ६३ ।।
यश्चैनमग्र्यं पुरुषः पुराणं सदाप्रमत्तः शृणुयाद् यथोक्तम्।
अवाप्य कामानिह वीतशोकः परत्र च स्वर्गफलानि भुङ्क्ते ।। ६४ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि पौष्करे द्वात्रिंशोऽध्यायः ।। ३२ ।।