हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)/अध्यायः ०३८

← अध्यायः ०३७ हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)
अध्यायः ०३८
[[लेखकः :|]]
अध्यायः ०३९ →
देवासुरसंग्रामः, हिरण्याक्षेण देवराजेन्द्रस्य स्तम्भनम्

अष्टात्रिंशोऽध्यायः

वैशम्पायन उवाच
कदाचित् तु सपक्षास्ते पर्वता धरणीधराः ।
प्रस्थिता धरणीं त्यक्त्वा नूनं तस्यैव मायया ।। १ ।।
तदासुराणां निलयं हिरण्याक्षेण पालितम् ।
दिशं प्रतीचीमागत्य ह्रदेऽमज्जन् यथा गजाः ।। २ ।।
तत्रासुरेभ्यः शंसन्त आधिपत्यं सुराश्रयम् ।
तच्छ्रुत्वाथासुराः सर्वे चक्रुरुद्योगमुत्तमम् ।। ३ ।।
क्रूरां च बुद्धिमतुलां पृथिवीहरणे रताः ।
आयुधानि च सर्वाणि जगृहुर्भीमविक्रमाः ।। ४ ।।
चक्राशनींस्तथा खड्गान् भुशुण्डीश्च धनूंषि च ।
प्रासान्पाशांश्च शक्तीश्च मुसलानि गदास्तथा ।। ५ ।।
चक्र, अशनि, खङ्ग, भुशुण्डि, धनुष, प्रास, पाश,
शक्ति, मूसल और गदा आदि आयुध ले लिये ।। ५ ।।
केचित् कवचिनः सज्जा मत्तनागांस्तथा परे ।
केचिदश्वरथान्युक्ता अपरेऽश्वान् महासुराः ।। ६ ।।
केचिदुष्ट्रांस्तथा खड्गान् महिषान् गर्दभानपि ।
स्वबाहुबलमास्थाय केचिच्चापि पदातयः ।। ७ ।।
परिवार्य हिरण्याक्षं तलबद्धाः कलापिनः ।
इतश्चेतश्च निश्चेरुर्हृष्टाः सर्वे युयुत्सवः ।। ८ ।।
ततो देवगणाः पश्चात् पुरंदरपुरोगमाः ।
दैत्यानां विदितोद्योगाश्चक्रुरुद्योगमुत्तमम् ।। ९ ।।
महता चतुरङ्गेण बलेन सुसमाहिताः ।
बद्धगोधाङ्गुलित्राणास्तूणवन्तः समार्गणाः ।। 3.38.१० ।।
उग्रायुधधरा देवाः स्वेष्वनीकेष्ववस्थिताः ।
ऐरावतगतं शक्रमन्वगच्छन्त पृष्ठतः ।। ११ ।।
ततस्तूर्यनिनादेन भेरीणां च महास्वनैः ।
अभ्यद्रवद्धिरण्याक्षो देवराजं पुरंदरम् ।। १२ ।।
तीक्ष्णैः परशुनिस्त्रिंशैर्गदातोमरशक्तिभिः ।
मुसलैः पट्टिशैश्चैव छादयामास वासवम् ।। १३ ।।
ततोऽस्त्रबलवेगेन सार्चिष्मत्यः सुदारुणाः ।
घोररूपा महावेगा निपेतुर्बाणवृष्टयः ।। १४ ।।
शिष्टाश्च दैत्या बलिनः सितधारैः परश्वधैः ।
परिघैरायसैः खड्गैः क्षेपणीयैश्च मुद्गरैः ।। १५ ।।
गण्डशैलैश्च विविधै रश्मिभिश्चाद्रिसंनिभैः ।
घातनीभिश्च गुर्वीभिः शतघ्नीभिस्तथैव च ।। १६ ।।
युगैर्यन्त्रैश्च निर्मुक्तैरर्गलैश्च विदारणैः ।
सर्वान्देवगणान्दैत्याः संनिजघ्नुः सवासवान्।। १७ ।।
धूम्रकेशं हरिश्मश्रुं नानाप्रहरणायुधम् ।
रक्तसंध्याभ्रसंकाशं किरीटोत्तमधारिणम् ।। १८ ।।
नीलपीताम्बरधरं शितदंष्ट्रोर्ध्वधारिणम् ।
आजानुबाहुं हर्यक्षं बैडूर्याभरणोज्ज्वलम् ।। १९ ।।
समुद्यतायुधं दृष्ट्वा सर्वे देवगणास्तदा ।
ते हिरण्याक्षमसुरं दैत्यानामग्रतः स्थितम् ।। 3.38.२० ।।
युगान्तसमये भीमं स्थितं मृत्युमिवाग्रतः ।
प्रविव्यथुः सुराः सर्वे तदा शक्रपुरोगमाः ।। २१ ।।
दृष्ट्वाऽऽयान्तं हिरण्याक्षं महाद्रिमिव जङ्गमम् ।
देवाः संविग्नमनसः प्रगृहीतशरासनाः ।
सहस्राक्षं पुरस्कृत्य तस्थुः संग्राममूर्धनि ।। २२ ।।
सा च दैत्यचमू रेजे हिरण्यकवचोज्ज्वला ।
प्रवृद्धनक्षत्रगणा शारदी द्यौरिवामला ।। २३ ।।
तेऽन्योन्यमपि सम्पेतुः पातयन्तः परस्परम् ।
बभञ्जुर्बाहुभिर्बाहुद्वन्द्वमन्ये युयुत्सवः ।। २४ ।।
गदानिपातैर्भग्नाङ्गा बाणैश्च व्यथितोरसः ।
विनिपेतुः पृथक् केचित्तथान्येऽपि विजघ्निरे ।।२५।।
बभञ्जिरे रथान् केचित्केचित्सम्मर्दिता रथैः ।
सम्बाधमन्ये सम्प्राप्ता न शेकुश्चलितुं रथात् ।। २६ ।।
दानवेन्द्रबलं तत्र देवानां च महद् बलम् ।
अन्योन्यबाणवर्षेण युद्धदुर्दिनमाबभौ ।। २७ ।।
हिरण्याक्षस्तु बलवान् क्रुद्धः स दितिनन्दनः ।
व्यवर्धत महातेजाः समुद्र इव पर्वणि ।। २८ ।।
तस्य कुद्धस्य सहसा मुखान्निश्चेरुरर्चिषः ।
साग्निधूमश्च पवनो ययौ तस्य समीपतः ।। २९ ।।
शस्त्रजालैर्बहुविधैर्धनुर्भिः परिघैरपि ।
सर्वमाकाशमावव्रे पर्वतैरुत्थितैरिव ।। 3.38.३० ।।
बहुभिः शस्त्रनिस्त्रिंशैश्छिन्नभिन्नशिरोरसः ।
न शेकुश्चलितुं देवा हिरण्याक्षार्दिता युधि ।। ३१ ।।
सर्वे वित्रासिता देवा हिरण्याक्षेण संयुगे ।
न शेकुर्यत्नवन्तोऽपि यत्नं कर्तुं विचेतसः ।। ३२ ।।
तेन शक्रः सहस्राक्षः स्तम्भितोऽस्त्रेण धीमता ।
ऐरावतगतः संख्ये नाशकच्चलितुं भयात् ।। ३३ ।।
सर्वांश्च देवानखिलान् स पराजित्य दानवः ।
स्तम्भयित्वा च देवेशमात्मस्थं मन्यते जगत् ।। ३४ ।।
सतोयमेघप्रतिमोग्रनिःस्वनं प्रभिन्नमातङ्गविलासविग्रहम् ।
धनुर्विधुन्वन्तमुदारवर्चसं तदासुरेन्द्रं ददृशुः सुराः स्थिताः ।। ३५ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि वाराहे शक्रस्तम्भने अष्टात्रिंशोऽध्यायः ।। ३८ ।।