प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ०३८ हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)
अध्यायः ०३९
[[लेखकः :|]]
अध्यायः ०४० →
भगवता वराहेण हिरण्याक्षस्य वधम्

एकोनचत्वारिंशोऽध्यायः

वैशम्पायन उवाच
निष्प्रयत्ने सुरपतौ धर्षितेषु सुरेषु च ।
हिरण्याक्षवधे बुद्धिं चक्रे चक्रगदाधरः ।। १ ।।
वाराहः पर्वतो नाम यः पूर्वं समुदाहृतः ।
स एव भूत्वा भगवानाजगामासुरान्तकृत् ।। २ ।।
ततश्चन्द्रप्रतीकाशमगृह्णाच्छङ्खमुत्तमम् ।
सहस्रारं च तच्चक्रं चक्रपर्वतसंनिभम् ।। ३ ।।
महादेवो महाबुद्धिर्महायोगी महेश्वरः ।
पठ्यते योऽमरैः सर्वैर्गुह्यैर्नामभिरव्ययः ।। ४ ।।
सदसच्चात्मनि श्रेष्ठः सद्भिर्यः सेव्यते सदा ।
इज्यते यः पुराणश्च त्रिलोके लोकभावनः ।। ५ ।।
यो वैकुण्ठः सुरेन्द्राणामनन्तो भोगिनामपि ।
विष्णुर्यो योगविदुषां यो यज्ञो यज्ञकर्मणाम् ।। ६ ।।
मखे यस्य प्रसादेन भुवनस्था दिवौकसः ।
आज्यं महर्षिभिर्दत्तमश्नुवन्ति त्रिधा हुतम् ।। ७ ।।
यो गतिर्देवदैत्यानां यः सुराणां परा गतिः ।
यः पवित्रं पवित्राणां स्वयम्भूरव्ययो विभुः ।। ८ ।।
यस्य चक्रप्रविष्टानि दानवानां युगे युगे ।
कुलान्याकुलतां यान्ति यानि दृप्तानि वीर्यतः ।। ९ ।।
ततो दैत्यद्रवकरं पौराणं शङ्खमुत्तमम् ।
धमन् वक्त्रेण बलवानाक्षिपद् दैत्यजीवितम् ।। 3.39.१० ।।
श्रुत्वा शङ्खस्वनं घोरमसुराणां भयावहम् ।
क्षुभिता दानवाः सर्वे दिशो दश व्यलोकयन् ।। ११ ।।
ततः संरक्तनयनो हिरण्याक्षो महासुरः ।
कोऽयमित्यब्रवीद् रोषान्नारायणमुदैक्षत ।। १२ ।।
वाराहरूपिणं देवं संस्थितं पुरुषोत्तमम् ।
शङ्खचक्रोद्यतकरं देवानामार्तिनाशनम् ।। १३ ।।
रराज शङ्खचक्राभ्यां ताभ्यामसुरसूदनः ।
सूर्याचन्द्रमसोर्मध्ये यथा नीलपयोधरः ।। १४ ।।
ततोऽसुरगणाः सर्वे हिरण्याक्षपुरोगमाः ।
उद्यतायुधनिस्त्रिंशा दृप्ता देवमुपाद्रवन् ।। १५ ।।
पीड्यमानोऽतिबलिभिर्दैत्यैः सर्वायुधोद्यतैः ।
न चचाल हरिर्युद्धेऽकम्प्यमान इवाचलः ।। १६ ।।
ततः प्रज्वलितां शक्तिं वाराहोरसि दानवः ।
हिरण्याक्षो महातेजाः पातयामास वीर्यवान् ।। १७ ।।
तस्याः शक्त्याः प्रभावेण ब्रह्मा विस्मयमागतः ।
समीपमागतां दृष्ट्वा महाशक्तिं महाबलः ।। १८ ।।
हुंकारेणैव निर्भर्त्स्य पातयामास भूतले ।
तस्यां प्रतिहतायां तु ब्रह्मा साध्विति चाब्रवीत् ।। १९ ।।
यः प्रभुः सर्वभूतानां वाराहस्तेन ताडितः ।
ततो भगवता चक्रमाविध्यादित्यसंनिभम् ।। 3.39.२० ।।
पातितं दानवेन्द्रस्य शिरस्युत्तमकर्मणा ।
ततः स्थितस्यैव शिरस्तस्य भूमौ पपात ह ।
हिरण्मयं वज्रहतं मेरुशृङ्गमिवोत्तमम् ।। २१ ।।
हिरण्याक्षे हते दैत्ये शेषा ये तत्र दानवाः ।
सर्वे तस्य भयत्रस्ता जग्मुराशु दिशो दश ।। २२ ।।
स सर्वलोकाप्रतिचक्रचक्रो महाहवेष्वप्रतिमोग्रचक्रः ।
बभौ वराहो युधि चक्रपाणिः कालो युगान्तेष्विव दण्डपाणिः ।। २३ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि वाराहे एकोनचत्वारिंशोऽध्यायः ।। ३९ ।।