प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ०४३ हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)
अध्यायः ०४४
[[लेखकः :|]]
अध्यायः ०४५ →
दैत्येभिः हिरण्यकशिपुना च नृसिंहोपरि विभिन्नानां अस्त्राणां प्रहाराः

चतुश्चत्वारिंशोऽध्याय

वैशम्पायन उवाच
प्रह्रादस्य च तच्छ्रुत्वा हिरण्यकशिपुर्वचः ।
उवाच दानवान् सर्वान् सगणांश्च गणाधिपः ।। १ ।।
मृगेन्द्रो गृह्यतां शीघ्रमपूर्वां तनुमास्थितः ।
यदि वा संशयः कश्चिद् वध्यतां वनगोचरः ।। २ ।।
तच्छुत्वा दानवाः सर्वे मृगेन्द्रं भीमविक्रमम् ।
परिक्षिपन्तो मुदितास्त्रासयामासुरोजसा ।। ३ ।।
सिंहनादं नदित्वा तु पुनः सिंहो महाबलः ।
बभञ्ज तां सभां रम्यां व्यादितास्य इवान्तकः ।। ४ ।।
सभायां भज्यमानायां हिरण्यकशिपुः स्वयम् ।
चिक्षेपास्त्राणि सिंहस्य रोषव्याकुललोचनः ।। ५ ।।
सर्वास्त्राणामथ श्रेष्ठं दण्डमस्त्रं सुभैरवम् ।
कालचक्रं तथात्युग्रं विष्णुचक्रं तथैव च ।। ६ ।।
धर्मचक्रं महच्चक्रमजितं नाम नामतः ।
चक्रमैन्द्रं तथा घोरमृषिचक्रं तथैव च ।। ७ ।।
पैतामहं तथा चक्रं त्रैलोक्यमहितस्वनम् ।
विचित्रमशनीं चैव शुष्कार्द्रं चाशनिद्वयम् ।। ८ ।।
रौद्रं तदुग्रं शूलं च कङ्कालं मुसलं तथा ।
अस्त्रं ब्रह्मशिरश्चैव ब्राह्ममस्त्रं तथैव च ।। ९ ।।
ऐषीकमस्त्रमैन्द्रं च आग्नेयं शैशिरं तथा ।
वायव्यं मथनं नाम कापालमथ किंकरम् ।। 3.44.१० ।।
तथा चाप्रतिमां शक्तिं क्रौञ्चमस्त्रं तथैव च ।
अस्त्रं हयशिरश्चैव सौम्यमस्त्रं तथैव च ।। ११ ।।
पैशाचमस्त्रममितं सार्प्यमस्त्रं तथाद्भुतम् ।
मोहनं शोषणं चैव संतापनविलापने ।। १२ ।।
जृम्भणं प्रापणं चैव त्वाष्ट्रं चैव सुदारुणम् ।
कालमुद्गरमक्षोभ्यं क्षोभणं तु महाबलम् ।। १३ ।।
संवर्तनं मोहनं च तथा मायाधरं परम् ।
गान्धर्वमस्त्रं दयितमसिरत्नं च नन्दकम् ।। १४ ।।
प्रस्वापनं प्रमथनं वारुणं चास्त्रमुत्तमम् ।
अस्त्रं पाशुपतं चैव यस्याप्रतिहता गतिः ।। १५ ।।
एतान्यस्त्राणि सर्वाणि हिरण्यकशिपुस्तदा ।
चिक्षेप नारसिंहस्य दीप्तस्याग्नेर्यथाहुतिः ।। १६ ।।
अस्त्रैः प्रज्वलितैः सिंहमावृणोदसुराधिपः ।
विवस्वान् घर्मसमये हिमवन्तमिवांशुभिः ।। १७ ।।
स ह्यमर्षानिलोद्भूतो दैत्यानां सैन्यसागरः ।
क्षणेनाप्लावयत् सिंहं मैनाकमिव सागरः ।। १८ ।।
प्रासैः पाशैस्तथा शूलैर्गदाभिर्मुसलैस्तथा ।
वज्रैरशनिकल्पैश्च शिलाभिश्च महाद्रुमैः ।। १९ ।।
मुद्गरैः कूटपाशैश्च शूलोलूखलपर्वतैः ।
शतघ्नीभिश्च दीप्ताभिर्दण्डैरपि सुदारुणैः ।। 3.44.२० ।।
परिवार्य समन्तात् तु निघ्नन्नस्त्रैर्हरिं तदा ।
स्वल्पमप्यस्य न क्षुण्णमूर्जितस्य महात्मनः ।। २१ ।।
ते दानवाः पाशगृहीतहस्ता महेन्द्रवज्राशनितुल्यवेगाः ।
समन्ततोऽभ्युद्यतबाहुशस्त्राः स्थितास्त्रिशीर्षा इव पन्नगेन्द्राः ।। २२ ।।
सुवर्णमालाकुलभूषिताङ्गा नानाङ्गदाभोगपिनद्धगात्राः ।
मुक्तावलीदामविभूषिताङ्गा हंसा इवाभान्ति विशालपक्षाः ।। २३ ।।
तेषां तु वायुप्रतिमौजसां वै केयूरमालावलयोत्कटानि ।
तान्युत्तमाङ्गान्यभितो विभान्ति प्रभातसूर्यांशुसमप्रभाणि ।। २४ ।।
तैः प्रक्षिपद्भिर्ज्वलितानलोपमैर्महास्त्रपूगैः स समावृतो बभौ ।
गिरिर्यथा संततवर्षिभिर्घनैः कृतान्धकारोऽद्भुतकन्दरद्रुमः ।। २५ ।।
तैर्हन्यमानोऽपि महास्त्रजालैः सर्वैस्तदा दैत्यगणैः समेतैः ।
नाकम्पताजौ भगवान् प्रतापवान् स्थितः प्रकृत्या हिमवानिवाचलः ।। २६ ।।
संतापितास्ते नरसिंहरूपिणा दितेः सुताः पावकदीप्ततेजसा ।
भयाद् विचेलुः पवनोद्धता यथा महोर्मयः सागरवारिसम्भवाः ।। २७ ।।
शतैर्धनुर्भिः सुमहातिवेगा युगान्तकालप्रतिमाञ्छरौघान् ।
एकायनस्था मुमुचुर्नृसिंहे महासुराः क्रोधविदीपिताङ्गाः ।। २८ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि नारसिंहे चतुश्चत्वारिंशोऽध्यायः ।। ४४ ।।