प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ०४४ हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)
अध्यायः ०४५
[[लेखकः :|]]
अध्यायः ०४६ →
दैत्येभिः कृतानां प्रहाराणां रचितानां मायानां च निष्फलता

पञ्चचत्वारिंशोऽध्यायः

वैशम्पायन उवाच
स्वराः खरमुखाश्चैव मकराशीविषाननाः ।
ईहामृगमुखाश्चान्ये वराहसदृशाननाः ।। १ ।।
बालसूर्यमुखाश्चैव धूमकेतुमुखास्तथा ।
चन्द्रार्धचन्द्रवक्त्राश्च प्रदीप्ताग्निमुखास्तथा ।। २ ।।
हंसकुक्कुटवक्त्राश्च व्यादितास्या भयावहाः ।
पञ्चास्या लेलिहानाश्च काकगृध्रमुखास्तथा ।। ३ ।।
विद्युज्जिह्वास्त्रिशीर्षाश्च तथोल्कासंनिभाननाः ।
महाग्राहनिभाश्चान्ये दानवा बलदर्पिताः ।। ४ ।।
कैलासवपुषस्तस्य शरीरे शरवृष्टयः ।
अवध्यस्य मृगेन्द्रस्य न व्यथां चक्रुराहवे ।। ५ ।।
एवं भूयोऽपरान् घोरानसृजन्दानवाः शरान् ।
मृगेन्द्रस्योरसि क्रुद्धा निःश्वसन्त इवोरगाः ।। ६ ।।
ते दानवशरा घोरा मृगेन्द्राय समीरिताः ।
विलयं जग्मुराकाशे खद्योता इव पर्वते ।। ७ ।।
ततश्चक्राणि दिव्यानि दैत्याः क्रोधसमन्विताः ।
मृगेन्द्रायाक्षिपन्त्याशु प्रज्वलन्तीव सर्वशः ।। ८ ।।
तैरासीद् गगनं चक्रैः सम्पतद्भिः समावृतम् ।
युगान्ते सम्प्रकाशद्भिश्चन्द्रसूर्यग्रहैरिव ।। ९ ।।
तानि चक्राणि वदनं प्रविशन्ति विभान्ति वै ।
मेघोदरदरीं घोरां चन्द्रसूर्यग्रहा इव ।। 3.45.१० ।।
तानि चक्राणि सर्वाणि मृगेन्द्रेण महात्मना ।
निगीर्णानि प्रदीप्तानि पावकार्चिःसमानि वै ।। ११ ।।
हिरण्यकशिपुर्दैत्यो भूयः प्रासृजदूर्जिताम् ।
शक्तिं प्रज्वलितां घोरां हुताशनसमप्रभाम् ।। १२ ।।
तामापतन्तीं सम्प्रेक्ष्य मृगेन्द्रः शक्तिमुत्तमाम् ।
हुंकारेणैव रौद्रेण बभञ्ज भगवांस्तदा ।। १३ ।।
रराज भग्ना सा शक्तिर्मृगेन्द्रेण महीतले ।
सविस्फुलिङ्गा ज्वलिता महोल्केव नभश्च्युता।। १४ ।।
नाराचपङक्तिः सिंहस्य सृष्टा रेजे विदूरतः ।
नीलोत्पलपलाशानां मालेवोज्ज्वलदर्शना ।। १५ ।।
गर्जित्वा तु यथाकामं विक्रम्य च यथासुखम् ।
तत् सैन्यमुत्सारितवांस्तृणाग्राणीव मारुतः ।। १६ ।।
ततोऽश्मवर्षं दैत्येन्द्रा व्यसृजन्त नभोगताः ।
नगमात्रैः शिलाखण्डैर्गिरिकूटैर्महाप्रभैः ।। १७ ।।
तदश्मवर्षं सिंहस्य गात्रे निपतितं महत् ।
दिशो दश प्रकीर्णं हि खद्योतप्रकरो यथा ।। १८ ।।
तदश्मौघैर्दितिसुतास्तदा सिंहमरिंदमम् ।
प्राच्छादयन् यथा मेघा धाराभिरिव पर्वतम् ।। १९ ।।
न च तं चालयामासुर्दैत्यौघा देवमास्थितम् ।
भीमवेगा बलश्रेष्ठं समुद्रा इव पर्वतम् ।। 3.45.२० ।।
ततोऽश्मवर्षे निहते जलवर्षमनन्तरम् ।
धाराभिरक्षमात्राभिः प्रादुरासीत् समन्ततः ।। २१ ।।
नभसः प्रच्युता धारास्तिग्मवेगाः सहस्रशः ।
आवृण्वन् सर्वतो व्योम दिशश्चोपदिशस्तथा ।। २२ ।।
धाराणां संनिपातेन वायोर्विस्फूर्जितेन च ।
वर्धता चैव वर्षेण न प्राज्ञायत किंचन ।। २३ ।।
धारा दिवि च संसक्ता वसुधायां च सर्वशः ।
न स्पृशन्ति स्म तं तत्र निपतन्त्योऽनिशं भुवि ।। २४ ।।
बाह्यतो ववृषे वर्षं नोपरिष्टात् तु तोयदः ।
मृगेन्द्रप्रतिरूपस्य स्थितस्य युधि मायया ।। २५ ।।
हतेऽश्मवर्षे तुमुले जलवर्षे च शोषिते ।
ससृजुर्दानवा मायामग्निं वायुं च सर्वशः ।। २६ ।।
नभसः प्रच्युतश्चैव तिग्मवेगः समन्ततः ।
ज्वालामाली महारौद्रो दीप्ततेजाः समन्ततः ।। २७ ।।
स सृष्टः पावकस्तेन दैत्येन्द्रेण महात्मना ।
न शशाक महातेजा दग्धुमप्रतिमौजसम् ।। २८ ।।
तमिन्द्रस्तोयदैः सार्धं सहस्राक्षोऽमितद्युतिः ।
महता तोयवर्षेण शमयामास पावकम् ।। २९ ।।
तस्यां प्रतिहतायां तु मायायां युधि दानवाः ।
ससृजुर्घोरसंकाशं तमस्तीव्रं समन्ततः ।। 3.45.३० ।।
तमसा संवृते लोके दैत्येष्वात्तायुधेषु वै ।
स्वतेजसा परिवृतो दिवाकर इवाबभौ ।। ३१ ।।
त्रिशिखां भ्रुकुटीं चास्य ददृशुर्दानवा रणे ।
ललाटस्थां त्रिकूटस्थां गङ्गां त्रिपथगामिव ।। ३२ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि नारसिंहे पञ्चचत्वारिंशोऽध्यायः ।। ४५ ।।