प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ०५६ हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)
अध्यायः ०५७
[[लेखकः :|]]
अध्यायः ०५८ →
देवासुरसंग्रामे कुजम्भस्य, असिलोम्नः वृत्रासुरस्य च उत्कर्षस्य वर्णनं, हरेः अश्विनीकुमाराभ्यां च पराजयः

सप्तपञ्चाशत्तमोऽध्यायः

वैशम्पायन उवाच
ततः सर्वाणि सैन्यानि देवराजस्य शासनात्।
अभ्यद्रवन्त दितिजान्नदन्तो भैरवान् रवान् ।। १ ।
तं बलौघमपर्यन्तं देवानां सुदुरासदम् ।
रथनागाश्वकलिलं शङ्खदुन्दुभिनिःस्वनम् ।। २ ।।
आपतन्तं सुदुष्पारं रजसा सर्वतोवृतम् ।
सैन्यसागरमक्षोभ्यं वेलेव मकरालयम् ।। ३ ।।
तदाश्चर्यमपश्यन्त अश्रद्धेयमिवाद्भुतम् ।
उदीर्णां पृतनां सर्वां साश्वां सरथकुञ्जराम् ।। ४ ।।
आवार्य समरेऽतिष्ठत् कुजम्भस्तरसा बली ।
सैन्यार्णवं देवतानां गिरिर्मेरुरिवाचलः ।। ५।।
अनीकिनीं कुजम्भस्तु गदया स न्यवारयत् ।
सा तथा वारिता सेना विह्वलाभून्निरुद्यमा ।। ६ ।।
तस्मिंस्तथा वर्तमाने सम्प्रहारे सुदारुणे ।
असिलोमा तु बलवान् दानवो दानवाधिपः ।। ७ ।।
देवसैन्यस्य सर्वस्य धूमकेतुरिवोत्थितः ।
तपत्यर्क इवामोघः सुरसैन्यानि संयुगे ।। ८ ।।
सहस्ररश्मिप्रतिमो दानवस्य रथोत्तमः ।
शरैर्मेघ इवावर्षद् देवानीकं प्रतापवान् ।। ९ ।।
शरौघरश्मिभिर्दीप्तैः प्रतप्तो घोरविक्रमः ।
रौद्रः क्रूरो दुराधर्षो दुरापो ध्वजिनीमुखे ।। 3.57.१० ।।
युध्यते दैवतैः सार्धं ग्रसमान इव प्रभुः ।
उग्रेषुरुग्रवदनः समारुह्य महागजम् ।। ११ ।।
सुराणामुत्तमाङ्गानि प्रचिनोति महाबलः ।
ग्रसन् दैवतसैन्यानि शरदंष्ट्रः प्रतापवान् ।। १२ ।।
असिजिह्वश्चक्रहस्तश्चापव्यात्ताननोऽसुरः ।
परश्वधनखः श्रीमान् मृदङ्गापूरितध्वनिः ।। १३ ।।
तिष्ठते दानवश्रेष्ठः संयुगे व्याघ्रवद् बली ।
मौर्वीघोषस्तनयित्नुः पृषत्कः प्रथितो महान् ।। १४ ।।
धनुर्विद्युद्गणश्चापो महामेघ इवापरः ।
इष्वस्त्रसागरो घोरो बाहुग्राहो दुरासदः ।। १५ ।।
कार्मुकोर्मितरङ्गौघो बाणावर्तमहाह्रदः ।
गदासिमकरो रौद्रो ज्यावेलः शिक्षयोद्धतः ११६ ।।
पदातिमीनः सुमहान् गर्जितोत्क्रुष्टघोषवान् ।
हयान्गजान्पदातींश्च रथांश्च सहसा बहून् ।।१७ ।।
न्यमज्जयत समरे परवीरान् महारथान् ।
आप्लावयत् स देवौघान् दारुणो दानवेश्वरः ।। १८ ।।
प्रावर्तत युधि श्रीमान्युधि श्रेष्ठो युधि स्थिरः ।
अपश्यंस्त्रिदशाः सर्वे शुद्धजाम्बूनदप्रभम् ।। १९ ।।
सन्नद्धं तत्र युध्यन्तं ज्वलन्तमिव पावकम् ।
मध्यंदिनगतं सूर्यं ज्वलन्तमिव तेजसा ।। 3.57.२० ।।
न शेकुः सर्वभूतानि दानवं प्रसमीक्षितुम् ।
यथा प्ररूढं घर्मान्ते दहेत् कक्षं हुताशनः ।। २१ ।।
तथा सुरवरान् दैत्यो दहति स्म सुतेजसा ।
देवानां दानवानां च बलं नर्दति दारुणम् ।। २२ ।।
विरूढमभवत् सर्वमाकुलं च समन्तत ।
शूराश्च ते बलोदग्रा हस्त्यश्वरथधूर्गताः ।। २३ ।।
आर्यां बुद्धिं समास्थाय न त्यजन्ति महारणम्।
तदुत्पिञ्जलकं युद्धमभवद् रोमहर्षणम् ।। २४ ।।
देवदानवयोः संख्ये रुधिरस्रावकर्दमम् ।
न दिशः प्रत्यजानन्त भयग्राहनिपीडिताः ।
शस्त्रपातांश्च विविधान् दानवानां महारणे ।। २५ ।।
अन्योन्यं मूढचित्तास्ते निजघ्नुर्व्याकुलीकृताः ।
स्वान् परान्नाभिजानन्ति विमूढाः शस्त्रपाणयः।। २६ ।।
शिरोरुहेषु संगृह्य कश्चिच्छूरस्य संयुगे ।
शूरश्छिनत्ति मूर्धानं संदष्टौष्ठपुटाननम् ।। २७ ।।
बाहुभिर्मुष्टिभिश्चैव वज्रकल्पैः सुदारुणैः ।
प्रहरन्ति रणे वीरा आत्तशस्त्राः परस्परम् । २८ ।।
योधप्राणहरे रौद्रे स्वर्गद्वारेनपावृते ।
संकुले तुमुले युद्धे वर्तमाने महाभये ।। २९ ।।
हयो हयं गजो नागं वीरो वीरं महाहवे ।
अभ्यद्रवज्जिघांसन्तो ह्यसमञ्जसमाहवे ।। 3.57.३० ।।
असुराश्च सुराश्चैव विक्रमाख्या महारथाः ।
जुहुवुः समरे प्राणान् निजघ्नुरितरेतरम् ।। ३१ ।।
मुक्तकेशा विकवचा विरथाश्छिन्नकार्मुकाः ।
हस्तैः पादैश्च युध्यन्ते दानवास्त्रिदशैः सह ।। ३२ ।।
हरिस्तु निशितं भल्लं प्रेषयामास संयुगे ।
स तस्य धनुषः कोटिं छित्त्वा भूमावपातयत् ।। ३३ ।।
पुनश्चापि पृषत्कानां शतानि नतपर्वणाम् ।
प्राहिणोत् सहसा तस्य दानवेन्द्रस्य संयुगे । ३४।।
तस्य देहे विमुक्तास्ते मारुतेन समीरिताः ।
मग्नार्धकाया विविशुः पन्नगा इव पर्वते ।। ३५ ।।
स तैर्निपतितैर्गात्रैः क्षरद्भिरसृगावली ।
बभौ दैत्यो महाबाहुर्मेरुर्धातुमिवोत्सृजन् ।
पुनश्चापि पृषत्कानां शतानि नतपर्वणाम् । ३६।।
ततोऽसिलोमा संक्रुद्धः प्रगृह्यान्यन्महाधनुः ।
रुक्मपुङ्खांश्च निशितान्प्रेषयामास सायकान् ।३७।
तैस्तु मर्मसु विव्याध सर्पानलविषोपमैः ।
गात्रं सछादयामास महाभ्रैरिव पर्वतम् ।।३८ ।।
भूयः संधाय च शरं मुमोचान्तकसंनिभम् ।
सुपुङ्खं सूर्यसंकाशं बाणमप्रतिमं रणे ।। ३९ ।
तेन बाणप्रहारेण संयुगे भीमकर्मणा ।
मुमोह सहसा देवो भूमौ चापि पपात ह ।। 3.57.४०।।
ततो हाहाकृताः सर्वे देवे भूतलमाश्रिते ।
जगत् सदेवमाविग्नं यथार्कपतनं तथा ।।४१ ।
परिवारं तु समरे तस्य हत्वा महासुरः ।
एकत्रिंशत्सहस्राणि योधानां दानवोत्तमः ।। ४२।।
जयश्रिया सेव्यमानो दीप्यमान इवाचलः ।
प्रगृह्य कार्मुकं घोरं गतः शक्ररथं प्रति ।। ४३।।
तथैव तु महायुद्धे ससैन्यावश्विनावुभौ ।
प्रयुद्धौ सह वृत्रेण बलिना देवतारिणा ।। ४४।।
बाणखड्गधनुष्पाणिः समरे त्यक्त जीवितः ।
आसाद्य सोऽश्विनौ दैत्यः स्थितो गिरिरिवाचलः ।।४५।।
ततः शङ्खमुपाध्माय द्विषतां लोमहर्षणम् ।
ज्याघोषतलशब्दैश्च सर्वभूतान्यवेजयत् ।। ४६ ।।
ततः संहृष्टरोमाणः शङ्खशब्दं विशुश्रुवुः ।
यक्षराक्षसदेवौघा वृत्रस्यापि च निःस्वनम् ।। ४७।।
गदातोमरनिस्त्रिंशशूलशक्तिपरश्वधाः ।
प्रगृहीता व्यराजन्त यक्षराक्षसबाहुभिः । ४८ ।।
तैः प्रयुक्तान्महाकायैः शूलशक्तिपरश्वधान् ।
भल्लैर्वृत्रः प्रचिच्छेद भीमवेगरवैस्तथा ।। ४९ ।।
अन्तरिक्षचराणां च भूमिस्थानां च गर्जताम् ।
शरैर्विव्याध गात्राणि देवानां प्रियदर्शिनाम् ।। 3.57.५० ।।
वृत्रासुरभुजोत्सृष्टैर्बहुधा यक्षरक्षसाम् ।
निकृत्तान्येव दृश्यन्ते शरीराणि शिरांसि च ।। ५१ ।।
अथ रक्तमहावृष्टिरभ्यवर्षत मेदिनीम्।
गदापरिघभिन्नानां देवानां गात्रसम्भवा ।। ५२।।
प्रच्छादयन्तं बाणौघैर्वृत्रं भीमपराक्रमम्।
ददृशुः सर्वभूतानि भानुमन्तमिवांशुभिः ।। ५३ ।।
तीक्ष्णरश्मिरिवादित्यः प्रतपन् सर्वदेवताः ।
अविध्यद् बलवान् क्रुद्धः सायकैर्मर्मभेदिभिः ।।५४ ।।
नदतो विविधान् नादानर्दितस्यापि सायकैः ।
न मोहमसुरेन्द्रस्य ददृशुस्त्रिदशा रणे ।। ५५।।
तेऽसिचर्मगदाभिश्च परिघप्रासतोमरैः ।
परश्वधैश्च शूलैश्च प्रववर्षुर्महारथाः ।। ५६।।
ततो वृत्रः सुसंक्रुद्धस्तैस्तदाभ्यर्दितो बली ।
अभ्यवर्षच्छितैर्बाणैस्तान् सर्वान् सत्यविक्रमः ।। ५७ ।।
तेन वित्रासिता देवा विप्रकीर्णमहायुधाः ।
घोरमार्तस्वरं चक्रुर्वृत्रासुरभयार्दिताः ।। ५८ ।।
उत्सृज्य ते गदाशक्तिशूलर्ष्टिपरिघाशनीन् ।
उत्तरां दिशमाजग्मुस्त्रासिता दृढधन्विना ।। ५९।।
शूलशक्तिगदापाणिर्व्यूढोरस्को महाभुजः ।
प्रावर्तत रणे वृत्रस्त्रासयानश्चराचरान् ।। 3.57.६० ।।
तत्रैकस्तु महाबाहुरसिशूलधरः प्रभुः ।
अभ्यधावत दैत्येन्द्रं वृत्रमप्रतिमं रणे ।। ६१ ।।
तमापतन्तं सम्प्रेक्ष्य निर्भिन्नमिव वारणम् ।
वत्सदन्तैस्त्रिभिः पार्श्वे विव्याध सुरसत्तमम् ।। ६२ ।।
सोऽपि विद्धो महेष्वासः शरैरमितविक्रमः ।
गदां जग्राह बलवान् गदायुद्धविशारदः ।। ६३ ।।
तां प्रगृह्य गदां भीमामयःसारमयीं दृढाम् ।
अश्विनं सहसाऽऽगम्य ताडयामास वीर्यवान् ।। ६४ ।।
दीप्यमानं ततः शूलमश्वी सुविपुलं दृढम् ।
प्रासृजद् वृत्रदैत्याय सहसा रोमहर्षणम् ।। ६५ ।।
भङक्त्वा शूलं गदाग्रेण गदायुद्धविशारदः ।
अश्विनं सहसाभ्येत्य गरुत्मानिव पन्नगम् ।। ६६ ।।
सोऽन्तरिक्षात्समुत्पत्य विधूय महतीं गदाम् ।
नासत्योपरि चिक्षेप गिरिशृङ्गोपमां बली ।। ६७ ।।
गदयाभिहतः सोऽश्वी त्यक्त्वा शूलमनुत्तमम् ।
प्रयातः सहसा तत्र यत्र युध्यति वासवः ।। ६८ ।।
पराजित्य तु संग्रामे अश्विनं भीमविक्रमम् ।
जयश्रिया सेव्यमानो वृत्रो युद्धे व्यवस्थितः ।। ६९ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि वामनावतारे
देवासुरयुद्धे वृत्रासुरोत्कर्षवर्णने सप्तपञ्चाशत्तमोऽध्यायः ।५७।।