हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)/अध्यायः ०५८

← अध्यायः ०५७ हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)
अध्यायः ०५८
[[लेखकः :|]]
अध्यायः ०५९ →
रणाजेः एकचक्रस्य सार्द्धं, मृगव्याधस्य बलासुरेण, अजैकपादस्य राहोः, सुधूम्राक्षस्य केशीदैत्येन सार्द्धं युद्धस्य वर्णनम्

अष्टपञ्चाशत्तमोऽध्यायः

वैशम्पायन उवाच
तत्रैव तु महायुद्धे रणाजिर्देवसत्तमः ।
युध्यते सह दैत्येन एकचक्रेण धीमता ।। १ ।।
प्रच्छाद्य रथपन्थानमुत्क्रोशंश्च महाबलः ।
एकचक्रस्य सैन्यं तच्छरवर्षैरवाकिरत् ।। २ ।।
महासुरा महावीर्या महापट्टिशयोधिनः ।
शूलानि च भुशुण्डीश्च क्षिपन्ति स्म महारणे ।। ३ ।।
तच्छूलवर्षं सुमहद्गदाशक्तिसमाकुलम् ।
अविशद् दितिजैर्मुक्तं दुर्निवार्यं चराचरैः ।। ४ ।।
अन्योन्यमभिवर्तन्ते देवासुरगणा युधि ।
महाद्रिशिखराकारा वीर्यवन्तो महाबलाः ।। ५ ।।
तुरङ्गमाणां तु शतं युक्तं तस्य महारथे।
महासुरवरस्येव हिरण्यकशिपोर्युधि ।। ६ ।।
तेषां चरणपातेन चक्रनेमिस्वनेन च ।
तथा बाणनिपातैश्च हता वै शतशः सुराः ।। ७ ।।
ततः स लघुभिश्चित्रैः शरैः संनतपर्वभिः ।
सायुधानच्छिनत्क्रुद्धः शतशोऽथ सहस्रशः ।। ८ ।।
वध्यमानाः शरैस्तीक्ष्णै रथद्विरदवाजिनः ।
गमिताः प्रक्षयं केचित् त्रिदशैर्दानवा रणे ।। ९ ।।
ततः प्रमीयमाणास्तानुपप्रेक्ष्य दितेः सुताः ।
त्यक्त्वा प्राणान् न्यवर्तन्त प्रगृहीतवरायुधाः ।। 3.58.१० ।।
ते दिशो विदिशश्चैव प्रतियुद्धप्रहारिणः ।
अभ्यघ्नन् निशितैः शस्त्रैर्देवान्दितिसुता रणे ।। ११।।
रणाजिर्ज्वलितं घोरं परमं तिग्मतेजसम् ।
मुमोचास्त्रं महाबाहुर्मथनं नाम संयुगे ।। १२ ।।
ततः शस्त्राणि शूलानि निशितानि सहस्रशः ।
अस्त्रवीर्येण महता दितिजः सम्प्रचिच्छिदे ।। १३ ।।
छित्त्वा शूलेन तान् सर्वानेकचक्रो महासुरः ।
अभ्यविध्वत तं साध्यं दशभिर्निशितैः शरैः ।। १४ ।।
अस्त्रवेगं निहत्यैवं सोऽस्त्रैस्तस्यानुसैनिकान् ।
ज्वलितैरपरैः शीघ्रैस्तानविध्यत् सहस्रशः ।।१५ ।।
तेषां छिन्नानि गात्राणि विसृजन्ति स्म शोणितम् ।
प्रावृषीवास्त्रवृष्टीनि शृङ्गाणि धरणीभृताम् ।। १६ ।।
इन्द्राशनिसमस्पशैर्निपतद्भिरजिह्मगैः ।
दितिजैर्बध्यमानास्ते वित्रेसुः सुरसत्तमाः ।। १७ ।।
एकचक्रो रथे तिष्ठन्नपश्यद् गजयूथपान् ।
वराभरणनिर्ह्रादान् समुद्रस्वननिःस्वनान् ।। १८ ।।
मत्तान् सुविहितान् दृप्तान् महामात्रैरधिष्ठितान् ।
कुलीनान् वीर्यसम्पन्नान् प्रतिद्विरदघातिनः ।। १९।।
शिक्षितान् गजशिक्षायामैरावतसमान् युधि ।
न्यहनत् सुरसैन्यस्य गजान् गज इवासुरः ।। 3.58.२० ।।
विक्षरन्तो महानागान् भीमवेगांस्त्रिधा मदम् ।
मेघस्तनितनिर्घोषान् महाद्रीनिव चोत्थितान् ।। २१ ।।
सहस्रसम्मितान् दिव्याञ्जाम्बूनदपरिष्कृतान् ।
सुवर्णजालैर्विततांस्तरुणादित्यवर्चसः ।। २२ ।।
एकचक्रो गदापाणिर्बलवान् गदिनां वरः ।
उत्सारयामास गजान् महाभ्राणीव मारुतः ।। २३ ।।
निहत्य गदया सर्वांस्तान् गजान् गजमर्दनः ।
भूयोऽश्वसंघान् स बली निरैक्षत महासुरः ।। २४ ।।
शुकवर्णानृष्यवर्णान् मयूरसदृशांस्तथा ।
पारावतसवर्णांश्च हंसवर्णांस्तथैव च ।। २५ ।।
मल्लिकाक्षान् विरूपाक्षान् क्रौञ्चवर्णान् मनोजवान् ।
अश्वसैन्यं महाबाहुस्तदप्रतिमपौरुषः ।
निषूदयामास बली गदया भीमविक्रमः ।। २६ ।।
रणाजिर्व्यस्य समरे सर्वान् दृष्ट्वा सुरद्विषः ।
अजिन्त्यविक्रमः श्रीमान् स युद्धाद् विरराम ह ।२७।
गदायुद्धेषु कुशलो रथेन रथयूथपः ।
नष्टसैन्यो महाबाहुः प्रस्थितः शक्रसंनिधौ ।। २८ ।।
त्रिंशच्छतसहस्राणि रथानां विनिहत्य सः ।
रणेऽतिष्ठत दैत्येन्द्रो विधूम इव पावकः ।। २९ ।।
तस्मिन्तेव तु संग्रामे बलो दृप्तो महासुरः ।
मृगव्याधं महात्मानं योधयत्यजितं रणे ।। 3.58.३० ।।
मृगव्याधस्य रुद्रस्य महापारिषदास्तथा ।
समुत्पेतुर्बलं दृष्ट्वा हुताग्निसमतेजसः ।। ३१ ।।
गजैर्मत्तै रथैर्दिव्यैर्वाजिभिश्च महाजवैः ।
अस्त्रैश्च निशितैर्बाणैः शरैश्चानलसंनिभैः ।। ३२ ।।
ददृशुस्ते ततो वीरा दीप्यमानं महासुरम् ।
रश्मिवन्तमिवोद्यन्तं सुतेजोरश्मिमालिनम् ।। ३३ ।।
संग्रामस्थं महावेगं महासत्त्वं महाबलम् ।
महामतिं महोत्साहं महाकायं महारथम् ।। ३४ ।।
समीक्ष्य तं महायोधं दिक्षु सर्वास्ववस्थितम् ।
ततः प्रहरणैर्घोरैरभिपेतुः समन्ततः ।। ३५ ।।
तस्य सर्वायसास्तीक्ष्णाः शराः पीतमुखाः शिताः।
शिरस्यद्रिप्रतीकाशे मृगव्याधेन पातिताः ।। ३६।।
तैश्च सप्तभिराविष्टः शरैः शिरसि चार्पितैः ।
उत्पपात तदा व्योम्नि दिशो दश विनादयन् ।। ३७ ।।
ततस्तं त्रिदशो वीरः सरथः सज्जकार्मुकः ।
अनुवव्राज संहृष्टः खे तदा स महाबलः ।। ३८ ।।
असुरं छादयामास तं व्योम्नि शरवृष्टिभिः ।
वृष्टिमानिव जीमूतो निदाघान्ते धराधरम् ।। ३९
अर्द्यमानस्ततस्तेन मृगव्याधेन दानवः ।
चकार निनदं घोरमम्बरे जलदो यथा ।। 3.58.४०।।
स दूरं सहसोत्पत्य मृगव्याधरथं प्रति ।
निपपात महावेगः पक्षवातैर्गिरिर्यथा ।। ४१ ।।
बभञ्ज च ततो दैत्यो भग्नेषाकूबरं रथम् ।
मृगव्याधः परित्यज्य स्थितो भूमौ महाबलः ।।४२।।
विरथं प्रेक्ष्य रुद्रं तु तस्य पारिषदाः शुभाः ।
उत्थिता घोररक्ताक्षा व्योम्नि मुद्गरपाणयः ।। ४३।।
स तैः सहसोत्थाय वेष्टितो विमलेऽम्परे ।
भीमेर्भ्रूकः परशुभिर्यथा ।। ४४1
तेषां वेगवतां वेगं निहत्य स महारथः ।
निपपात पुनर्भूमौ सुपर्णसमविक्रमः ।। ४५ ।।
स शालवृक्षमुत्पाट्य महाशासं महाबलः ।
सर्वान् पारिषदान्संणये सूदयामास दानवः ।। ४६ ।।
स तैर्विक्षतदेहस्तु रुधिरौघपरिप्लुतः ।
शुशुभे दानवश्रेष्ठो बालसूर्य इवोदितः ।।४७ ।।
अथोत्पाट्य गिरेः शृङ्गं समृगव्यालपादपम् ।
जघान तान् पारिषदान् समरे दानवेश्वरः ।। ४८ ।।
ततस्तेपु च भग्नेषु महापारिवदेतु वै ।
बलं तदवशेषं तु नाशयामास वीर्यवान् ।। ४९ ।।
अल्पैरश्वादगणैर्नागान् योधान्योधे रथान्रथैः।
दानवः स्त्वयामास युगान्तेऽन्तकवत्प्रजाः ।। 3.58.५० ।
हतैरश्वैश्च नागैश्च भग्नाक्षैश्च महारथैः ।
त्रिदशैश्चाभवद् भूमी रुद्धमार्गा समन्ततः ।। ५१ ।।
एवं बलः स दैत्येन्द्रो मृगव्याधश्च वीर्यवान् ।
युधि प्रवृद्धौ बलिनौ प्रभिन्नाविव वारणौ ।। ५२।।
वैशम्पायन उवाच
तत्रैव युध्यते रुद्रो द्वितीयो राहुणा सह ।
विश्रुतस्त्रिषु लोकेषु क्रोधात्मा ह्यज एकपात् ।। ५३ ।।
तत् यथा सुमहद् युद्धं तुमुलं लोमहर्षणम् ।
आसीत्प्रतिभयं रौद्रं वीराणां जयमिच्छताम्।। ५४ ।।
देवदानवदेहैस्तु दुस्तरा केशशाद्वला ।
शरीरसंघातवहा प्रसृता लोहितापगा ।। ५५ ।।
आजघानाथ संक्रुद्धो रुद्रो रौद्राकृतिः प्रभुः ।
राहुं शतमुखं युद्धे शत्रुसैन्यनिवारणम् ।। ५६।।
तस्य काञ्चनचित्राङ्गं रथं साश्वं ससारथिम् ।
जघान समरे श्रीमान् क्रुद्धो दैत्यस्य सायकैः ।। ५७ ।।
तस्य पारिषदस्त्वेकः शरशक्त्या महाबलः ।
बिभेद समरे हृष्टो दानवं तं स्तनान्तरे ।। ५८ ।।
स भिन्नगात्रो रुद्रेण तथा पारिषदैरपि ।
रुद्रस्य रथमायान्तं स राहुर्दानवोत्तमः ।। ५९ ।।
प्रममाथ तलेनाशु सहसा क्रोधमूर्च्छितः ।
भिन्नगात्रं शरैस्तीक्ष्णैर्मेरुं सूर्य इवांशुभिः ।। 3.58.६० ।।
हतैर्दानवमुख्यैस्तु रुद्रेणामिततेजसा ।
रुद्रपारिषदान् सर्वान् निजघान महासुरः ।। ६१ ।।
सृजन्तं शरवर्षाणि दानवं घोरदर्शनम्।
बिभेद समरे रुद्रो बाणैः संनतपर्वभिः ।। ६२ ।।
वर्तमाने महाघोरे संग्रामे लोमहर्षणे ।
रुधिरौघा महावेगा महानद्यः प्रसुस्रवुः ।। ६३ ।।
दानवं समरे रुद्रो नीलाञ्जनचयोपमम् ।
निर्बिभेद शरैस्तीक्ष्णैर्मेरुं सूर्य इवांशुभिः ।। ६४ ।।
हतैर्दानवमुख्यैश्च शक्तिशूलपरश्वधैः ।
पतितैः पर्वताभैश्च दानवैः कामरूपिभिः ।। ६५ ।।
वर्तमाने महाघोरे संग्रामे लोमहर्षणे ।
विरेजुस्ते तदा दैत्याः पुष्पिता इव किंशुकाः ।। ६६ ।।
महाभेरीमृदङ्गानां पणवानां च निःस्वनः ।
शङ्खवेणुस्वनोन्मिश्रः सम्बभूवाद्भुतोपमः ।। ६७ ।।
हतानां स्वनतां तत्र दैत्यानां चापि निःस्वनः ।
देवानां च तथा तत्र शुश्रुवे दारुणो महान् ।। ६८ ।।
तुरङ्गमखुरोत्कीर्णं रथनेमिसमुत्थितम् ।
रुरोध मार्गं योधानां चक्षूंषि च धरारजः ।। ६९ ।।
शस्त्रपुष्पोपहारा सा तत्रासीद् युद्धमेदिनी ।
दुर्दर्शा दुर्विगाह्या च मांसशोणितकर्दमा ।। 3.58.७० ।।
भग्नैः खड्गैर्गदाभिश्च शक्तितोमरपट्टिशैः ।
अपविद्धैश्च भग्नैश्च रथैः सांग्रामिकैर्हतैः ।। ७१ ।।
निहतैः कुञ्जरैर्मत्तैस्तथा त्रिदशदानवैः ।
चक्राक्षयुगशस्त्रैश्च भग्नैरवनिपातितैः ।। ७२ ।।
बभूवायोधनं घोरं पिशिताशनसंकुलम् ।
उत्पेतुश्च कबन्धानि दिक्षु सर्वासु संयुगे ।। ७३ ।।
अन्योन्यबद्धवैराणां दैत्यानां जयगृद्धिनाम् ।
सम्प्रहारस्तथा युद्धे वर्ततेऽतिभयंकरः ।। ७४ ।।
सैन्यानां सम्प्रयुद्धानां शूराणामनिवर्तिनाम् ।
अजस्य चैकपादस्य राहोश्चैव महात्मनः ।। ७५ ।।
तेषां तु तत्र पततां क्रुद्धानाशतिनिःस्वनः ।
उद्वर्त इव भूतानां समुद्राणां तु शुश्रुवे ।। ७६ ।।
तत्रैकस्तु सुधूम्राक्षः श्रीमान् रुद्रो मुनीश्वरः ।
बिभेद केशिनं शक्त्या गदापरिघशूलभृत् ।। ७७ ।।
नानाप्रहरणा घोरा भीमाक्षा भीमविक्रमाः ।
निष्पेतू रुद्रदयिता महापारिषदास्तथा ।। ७८ ।।
रथमास्थाय च श्रीमांस्तप्तकाञ्चनकुण्डलः ।
दानवैः संवृतः केशी युध्यते युद्धदुर्जयैः ।। ७९ ।।
तस्य संग्रामशौण्डस्य संग्रामेषु युयुत्सतः ।
निपेतुरुग्रवीर्यस्य ज्वाला हि प्रसृता मुखात् ।। 3.58.८० ।
स तु सिंहर्षभस्कन्धः शार्दूलसमविक्रमः ।
महाजलदसंकाशो मृदङ्गध्वनिनिःस्वनः ।। ८१ ।।
तस्य निष्पतमानस्य दानवैः संवृतस्य च ।
बभूव सुमहानादः क्षोभयंस्त्रिदिवं यथा ।। ८२ ।।
तेन शब्देन वित्रस्ता त्रिदशानां महाचमूः ।
द्रुमशैलप्रहरणा योद्धुमेवाभ्यवर्तत ।। ८३ ।।
तेषां च देवदैत्यानां युयुत्सूनां परस्परम् ।
संनिपातः सुतुमुलो रौद्रो लोकभयावहः ।। ८४ ।।
तेषां युद्धं महाघोरं संजज्ञे लोमहर्षणम् ।
देवदानवसंघानां प्राणांस्त्यक्त्वा महाहवे ।। ८५ ।।
सर्वे ह्यतिबलाः शूरा सर्वे पर्वतसंनिभाः ।
सर्वे सर्वास्त्रविद्वांसः सर्वे सर्वायुधोद्यताः ।
त्रिदशा दानवाश्चैव परस्परजिघांसवः ।। ८६ ।।
तेषां वै नदतां शब्दः संयुगे मेघनिःस्वनः ।
शुश्रुवेऽतिमहाघोरश्चरस्थावरकम्पनः ।। ८७ ।।
रेणुश्चारुणसंकाशो भीमः स समपद्यत ।
उद्भूतो देवदैत्यौघैः संरुरोध दिशो दश ।। ८८ ।।
अन्योन्यं रजसा तेन कौशेयारुणपाण्डुना ।
संवृता बहुरूपेण ददृशुर्न च किंचन ।। ८९ ।।
न ध्वजो न पताकाश्च न वर्म तुरगोऽपि वा ।
आयुधं स्यन्दनो वापि दृश्यते नैव सारथिः ।। 3.58.९० ।।
स शब्दस्तुमुलस्तेषामन्योन्यमभिधावताम् ।
श्रूयते तुमुलः शब्दो न रूपाणि चकाशिरे ।। ९१ ।।
दानवास्तत्र संक्रुद्धा दानवानेव जघ्निरे ।
त्रिदशास्त्रिदशाश्चैव निजघ्नुस्तुमुले तदा ।।९२ ।।
ते परांश्च विनिघ्नन्तः स्वांश्च युद्धे महासुरान् ।
रुधिरार्द्रा तथा चक्रुर्मेदिनीमसुराः सुराः ।। ९३ ।।
ततस्तु रुधिरौघेण संसिक्तमुदितं रजः ।
शरीरशतसंकीर्णं बभूव धरणीतलम् । ९४ ।।
शूलशक्तिगदाखड्गपरिघप्रासतोमरैः ।
त्रिदशा दानवाश्चैव जघ्नुरन्योन्यमाहवे ।। ९५ ।।
बाहुभिः परिघाकारैर्निघ्नतः परिघैस्तथा ।
रुद्रपारिषदान् सर्वान् सूदयन्ति स्म दानवाः ।। ९६ ।।
रुद्रपारिषदाश्चैव महाद्रुममहाश्मभिः ।
व्यदारयन्नतिक्रम्य शस्त्रैश्चादित्यसंनिभैः ।। ९७ ।
एतस्मिन्नन्तरे क्रुद्धः केशी दानवसत्तमः ।
संग्रामामर्षघोरः सन् स्वान्यनीकानि हर्षयन् ।
तेषां परमसंक्रुद्धो वज्रमस्त्रमुदीरयत् ।। ९८ ।।
वज्रेणास्त्रेण दिव्येन शस्त्रेण च महात्मना ।
महापारिषदाः सर्वे निहता युधि दुर्जयाः ।। ९९ ।।
वज्रास्त्रपीडिता भ्रान्ता रुद्रपारिषदा युधि ।
विप्रकीर्णद्रुमाः पेतुः शैला वज्रहता इव ।। 3.58.१००।।
एवं सुतुमुलं युद्धमभवल्लोमहर्षणम् ।
केशिनः सह रुद्रेण तदद्भुतमिवाभवत् ।।१०१।।
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि वामनप्रादुर्भावे देवासुरयुद्धकेशिरुद्रयुद्धकथने अष्टपञ्चाशत्तमोऽध्यायः ।। ५८ ।।