हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)/अध्यायः ०६०
← अध्यायः ०५९ | हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व) अध्यायः ०६० [[लेखकः :|]] |
अध्यायः ०६१ → |
कुबेरस्य अनुह्रादेन सार्द्धं भयंकरं युद्धम् |
षष्टितमोऽध्यायः
वैशम्पायन उवाच
धनाध्यक्षमनुह्रादः प्रह्रादस्यानुजो बली ।
ससैन्यं योधयामास क्षोभयन् यक्षवाहिनीम् ।। १ ।।
महता च बलौघेन त्वनुह्रादोऽसुरोत्तमः ।
अर्दयामास संक्रुद्धो धनाध्यक्षं प्रतापवान् ।। २ ।।
अमृष्यमाणस्त्रिदशानाहवस्थानुदायुधान् ।
चकार कदनं घोरं धनुष्पाणिर्महासुरः ।। ३ ।।
आवर्त इव संजज्ञे बलस्य महतो महान् ।
क्षुभितस्याप्रमेयस्य सागरस्येव सम्प्लवे ।। ४ ।।
त्रिदशानां शरीरैस्तु दानवानां च मेदिनी ।
बभूव निचिता घोरैः पर्वतैरिव सम्प्लवे ।। ५ ।।
मेरुपृष्ठं तु रक्तेन रञ्जितं सम्प्रकाशते ।
सर्वतो माधवे मासि पुष्पितैरिव किंशुकः ।। ६ ।।
हतैर्वीरैर्गजैरश्वैः प्रावर्तत महानदी ।
शोणितौघा महाघोरा यमराष्ट्रविवर्धिनी ।। ७ ।।
शकृन्मेदोमहापङ्का सम्प्रकीर्णान्त्रशैवला ।
छिन्नकायशिरोमीना अङ्गावयवशाद्वला ।। ८ ।।
गृध्रहंससमाकीर्णा केकिसारसनादिता ।
वसाफेनसमाकीर्णा प्रोत्क्रुष्टस्तनितस्वरा ।। ९ ।।
तां कापुरुषदुस्तारां युद्धभूमौ महानदीम् ।
नदीमिवातपापाये हंससंघोपशोभिताम् ।। 3.60.१० ।।
त्रिदशा दानवाश्चैव तेरुस्ते दुस्तरां नदीम् ।
यथा पद्मरजोध्वस्तां नलिनीं गजयूथपाः ।। ११ ।।
ततः सृजन्तं बाणौघाँननुह्रादं रथे स्थितम् ।
ददर्श तरसा देवो निघ्नन्तं यक्षवाहिनीम् ।। १२ ।।
क्रुद्धस्ततो दैत्यबलं सूदयामास वित्तपः ।
विक्षिपन्निव खे वायुर्महाभ्रपटलं बलात् ।। १३ ।।
समीक्ष्य तुमुलं युद्धमनुह्रादश्च वीर्यवान् ।
रथेनादित्यवर्णेन कुबेरमभिदुद्रुवे ।। १४ ।।
स धनुर्धन्विनां श्रेष्ठो विकृष्य रणमूर्धनि ।
उत्ससर्ज शितान् बाणान्वित्तेशस्य महात्मनः ।। १५ ।।
कुबेरं प्राप्य ते बाणा निर्भिद्य सुसमाहिताः ।
अपरान्पृष्ठतो जघ्नुर्व्यासक्तान्यक्षराक्षसान् ।। १६ ।।
देवः शरैरभिहतो निशितैर्ज्वलनोपमैः ।
अनुह्रादं प्रत्युदियात् संक्रुद्धः परमाहवे ।। १७ ।।
ततो वैश्रवणो राजा क्रुद्धो यक्षगणैः सह ।
ववर्ष शरवर्षाणि दानवं प्रति वीर्यवान् ।। १८ ।।
तद्यथा शारदं वर्षं गोवृषः शीघ्रमागतम् ।
अपारयन् वारयितुं प्रतिगृह्णन् निमीलितः ।। १९ ।।
एवमेव कुबेरस्य शरवर्षं महासुरः ।
निमीलिताक्षः सहसा दैत्यः सहति दारुणम् ।। 3.60.२०।।
रोषितः शरवर्षेण धनदेन महासुरः ।
इन्द्रकेतुप्रतीकाशमभीतोऽपश्यत द्रुमम् ।। २१ ।।
प्रवृद्धशाखाविटपं तरुणाङ्कुरपल्लवम् ।
उत्पाट्य कुपितो दैत्यस्तरुं फलसमन्वितम् २२ ।।
निजघान हयाञ्छ्रेष्ठान् कुबेरस्य महात्मनः ।
तस्य कर्म महाघोरं दृष्ट्वा सर्वे महासुराः ।। २३ ।।
सिंहनादं नदन्ति स्म अनुह्रादप्रहर्षिताः ।
तयोस्तु तुमुलं युद्धं संजज्ञे देवदैत्ययोः ।। २४ ।।
ततस्तौ क्रोधरक्ताक्षावन्योन्यवधकाङ्क्षिणौ ।
अन्योन्यं विविधैः शस्त्रैर्घोरैर्जघ्नतुराहवे ।। २५ ।।
त्रिदशा दानवान् सर्वे मथित्वा प्राणदंस्तदा ।
दानवैस्त्रिदशाश्चापि क्रुद्धैर्भुवि निपातिताः ।। २६ ।।
दानवास्त्वथ संक्रुद्धास्त्रिदशान् निशितैः शरैः ।
विव्यधुर्वज्रसंकाशैः कङ्कपत्रैरजिह्मगैः ।। २७ ।।
विदार्यमाणा दैत्यौघैस्त्रिदशास्तु महाबलाः ।
अमर्षिततराश्चक्रुर्युद्धकर्माण्यभीतवत् ।। २८ ।।
तैर्गदाभिः सुभीमाभिः पट्टिशैः शूलमुद्गरैः ।
परिघैश्च सुतीक्ष्णाग्रैर्दानवाः पीडिताः शरैः ।। २९ ।।
शरनिर्भिन्नगात्राश्च खड्गविच्छिन्नवक्षसः ।
जगृहुस्ते शिलाश्चैव द्रुमाश्चासुरसत्तमाः ।। 3.60.३० ।।
ते भीमवेगा दितिजा नर्दमानाः पुनः पुनः ।
ममन्थुस्त्रिदशान् वीर्याच्छतशोऽथ सहस्रशः ।। ३१।।
ततस्तु तुमुलं युद्धं तेषां समभिवर्तत ।
शिलाभिर्विपुलाभिश्च शतशश्चैव पादपैः ।। ३२ ।।
परिघैः पट्टिशैर्भल्लैर्भिन्दिपालैः परश्वधैः ।
केचिन्निवृत्तशिरसः केचिच्च विदलीकृताः ।। ३३ ।।
केचिद् विनिहता भूमौ रुधिरार्द्राः सुरासुराः ।
केचिद् रणाजिरान्नष्टाः परस्परवधार्दिताः ।। ३४ ।।
विभिन्नहृदयाः केचिच्छिन्नपादाश्च शेरते ।
विदारितास्त्रिशूलैश्च केचित् तत्र गतासवः ।। ३५ ।।
तत् सुभीमं महद्युद्धं देवदानवसंकुलम् ।
बभूव तुमुलं युद्धं शिलापादपसंकुलम् ।। ३६ ।।
धनुर्ज्यातन्त्रिमधुरं हिक्कातालसमन्वितम् ।
आर्तस्तनितघोषाढ्यं युद्धं गान्धर्वमाबभौ ।। ३७ ।।
कुबेरः स धनुष्पाणिर्दानवान् रणमूर्धनि ।
दिशो विद्रावयामास संक्रुद्धः शरवृष्टिभिः ।। ३८ ।।
कुबेरेणार्दितं सैन्यं विद्रुतं प्रेक्ष्य दानवः ।
अम्यद्रवदनुह्रादः प्रगृह्य महतीं शिलाम् ।। ३९ ।।
क्रोधाद् द्विगुणरक्ताक्षः पितृतुल्यपराक्रमः ।
शिलां तां पातयामास कुबेरस्य रथोत्तमे ।। 3.60.४० ।।
आपतन्तीं शिलां दृष्ट्वा गदापाणिर्धनाधिपः ।
रथादाप्लुत्य वेगेन वसुधायां व्यतिष्ठत ।।४१ ।।
सचक्रकूबरहयं सध्वजं सशरासनम् ।
भङ्क्त्वा रथोत्तमं तस्य निपपात शिला भुवि ।। ४२ ।।
विमथ्य तु कुबेरस्य प्रह्रादस्यानुजो रथम् ।
शूराणां कदनं चक्रे सस्कन्धविटपैर्द्रुमैः ।। ४३ ।।
निर्भिन्नशिरसो भग्नास्त्रिदशाः शोणितोक्षिताः ।
द्रुमप्रव्यथिताङ्गाश्च निपेतुर्धरणीतले ।। ४४ ।।
विद्राव्य विपुलं सैन्यमनुह्रादो महासुरः ।
गिरिशृङ्गं गृहीत्वा तु कुबेरमभिदुद्रुवे ।। ४५ ।।
तमापतन्तं धनदो गदामुद्यम्य वीर्यवान् ।
विनदित्वाऽऽह्वयामास दानवेन्द्रं महाबलम् ।। ४६ ।।
तस्य दैत्यस्य संक्रुद्धो गदां तां बहुकण्टकाम् ।
न्यपातयत वित्तेशो दानवस्योरसि प्रभो ।। ४७ ।।
दैत्यः सक्रोधताम्राक्षस्तं प्रहारमचिन्तयन् ।
वित्तेशस्योपरि तदा गिरिशृङगमपातयत् ।। ४८ ।।
स विह्वलितसर्वाङ्गो गिरिशृङ्गेण ताडितः ।
पपात सहसा भूमौ विशीर्ण इव पर्वतः ।। ४९ ।।
वित्तेशं विह्वलं दृष्ट्वा सर्वे ते यक्षराक्षसाः ।
परिवार्य महात्मानं ररक्षुर्भीमविक्रमाः ।। 3.60.५० ।।
मुहूर्तं विह्वलो भूत्वा पुनर्विश्रवसः सुतः ।
उपतस्थे च सहसा धनदः क्रोधमूर्च्छितः ।। ५१ ।।
स ननाद महानादं त्रैलोक्यमभिनादयन् ।
जनयन्निव निर्घोषं विधमन्निव पर्वतान् ।। ५२ ।।
तमवध्यं तु विज्ञाय निहन्तुं पुनरुत्थितम् ।
प्रेक्ष्य पिङ्गाक्षमायान्तं दानवा विप्रदुद्रुवुः ।। ५३ ।।
तांस्तु विद्रवतो दृष्ट्वानुह्रादो ह्यसुरोऽब्रवीत्।
कालनेमिं दानवं च वीर्यदर्पसमन्वितम् ।। ५४ ।।
आत्मानं चैव वीर्यं च विस्मृत्याभिजनं तथा ।
क्व गच्छथ भयत्रस्ताः प्राकृता इव दानवाः ।। ५५ ।।
निवर्तध्वं महावीर्याः किं प्राणान् परिरक्षथ ।
नालं युद्धाय यक्षोऽयं महतीयं विभीषिका ।। ५६ ।।
एतां विभीषिकामद्य दानवानां समुत्थिताम् ।
विक्रम्य विधमिष्यामि निवर्तध्वं महासुराः ।। ५७ ।।
तेऽसुराः संनिवृत्ताश्च समदा इव कुञ्जराः ।
निजघ्नुः परमक्रुद्धा देवसैन्यं महासुराः ।। ५८ ।।
क्षीणप्रहरणाः केचिन्महामेघनिभस्वनाः ।
दर्पोत्कटा भुजैरेव सम्प्रहारं प्रचक्रिरे ।। ५९ ।।
प्रांशुभिश्चैव काष्ठैश्च शिलाभिश्च महाबलाः ।
बाहुभिश्च तथान्योन्यमाक्षिपन्ति स्म वेगिताः ।। 3.60.६० ।।
मुष्टिभिश्च तलैश्चैव नखपातैर्महाबलाः ।
पादपैश्च महाशाखैरयुध्यन्त रणाजिरे ।। ६१ ।।
अनुह्रादस्तु संक्रुद्धो देवतानां महाचमूम्।
ममन्थ परमायत्तो वनान्यग्निरिवोत्थितः ।। ६२ ।।
रुधिरार्द्रास्तु बहवः शेरते योधसत्तमाः ।
विकृताः पतिता भूमौ ताम्रपुष्पा इव द्रुमाः ।। ६३ ।।
अनुह्रादस्य विक्रान्तो देवस्त्वाशीविषोपमान् ।
युध्यमानस्य समरे व्यसृजन्निशिताञ्छरान् ।। ६४ ।।
धनाधिपेन विद्धस्य अनुह्रादस्य संयुगे ।
अङ्गारमिश्राः क्रुद्धस्य मुखान्निश्चेरुरर्चिषः ।। ६५ ।।
अथ बाणसहस्रेण वित्तेशं दानवोत्तमः ।
विव्याध स शरैः क्रुद्धो दण्डपाणिरिवान्तकः ।। ६६ ।।
कुबेरस्तु शरैर्भिन्नः समन्तात्क्षतजोक्षितः ।
रुधिरं परिसुस्राव गिरिः प्रस्रवणैरिव ।। ६७ ।।
लब्ध्वा स तु पुनः संज्ञां रोषरक्तेक्षणः सुरः ।
गदामथ समासाद्य भीमां भीमपराक्रमः ।
चिक्षेप दैत्यमुद्दिश्य बलात्क्रोधेन मूर्छितः ।। ६८ ।।
अप्राप्तामन्तरे सोऽथ तां गदां गदयासुरः ।
बभञ्ज विनदन् क्रुद्धस्तदाश्चर्यमभूत् तदा ।। ६९ ।।
प्रगृह्य तु गदां भूयो ह्यभिदुद्राव दानवम्।
तमापतन्तं दृष्ट्वैव अनुह्रादो महाबलः ।। 3.60.७० ।।
गिरिशृङ्गमिवोत्पाट्य कैलासाचलसंनिभम् ।
धनाधिपं प्रदुद्राव व्यादितास्य इवान्तकः ।। ७१ ।।
तमन्तकमिवायान्तमजेयं सकलैः सुरैः ।
ग्रसन्तमिव तं दैत्यं त्रैलोक्यमखिलं रुषा ।। ७२ ।।
तमालोक्य तथा भूतं धनाध्यक्षो रणं भयात् ।
अपहाय ययौ तत्र यत्र शक्रः सुराधिपः ।। ७३ ।।
तस्य चापि महत् कर्म दृष्ट्वा वित्तपतिस्तदा ।
जगाम भयसंत्रस्तो यत्र देवः शचीपतिः ।। ७४ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि वामनप्रादुर्भावे देवासुरयुद्धे
अनुह्रादकुबेरयुद्धवर्णने षष्टितमोऽध्यायः ।। ६० ।।