प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ०५८ हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)
अध्यायः ०५९
[[लेखकः :|]]
अध्यायः ०६० →
वृषपर्वणः निष्कुम्भेन विश्वेदेवेन सार्द्धं, प्रह्रादस्य कालेन सार्द्धं घोरयुद्धस्य वर्णनम्

एकोनषष्टितमोऽध्यायः

वैशम्पायन उवाच
वृषपर्वा तु दैत्येन्द्रो विश्वमद्भुतदर्शनम् ।
निष्कुम्भं योधयामास लोहितार्कसमद्युतिम् ।। १ ।।
क्रोधमूर्च्छितवक्त्रस्तु धुन्वन् परमकार्मुकम् ।
धनूंषि प्रेक्ष्य शत्रूणां सारथिं त्वरितोऽब्रवीत् ॥ २ ॥
अत्रैव तावत् त्वरितं नय मे सारथे रथम् ।
एते देवाश्च सहिता घ्नन्ति नः समरे बलम् ॥ ३ ॥
एतान् निहन्तुमिच्छामि समरश्लाघिनो रणे।।
एतैर्हि दानवानीकं कृतच्छिद्रमिदं महत् ॥ ४ ॥
ततः प्रजविताश्वेन रथेन रथिनां वरः।।
अरीनभ्यहनत् क्रुद्धः शरजालैर्महासुरः ॥ ५ ॥
न स्थातुं देवताः शक्ताः किं पुनर्योद्धुमाहवे।।
वृषपर्वेषुनिर्भिन्नाः सर्व एवाभिदुद्रुवुः ॥ ६ ॥
तान् मृत्युवशमापन्नान् वैवस्वतवशं गतान् ।।
समीक्ष्य निहताञ्ज्ञातीनवतस्थे महासुरः ॥ ७ ॥
दृष्ट्वा तं तत्र निष्कुम्भं सर्वे ते त्रिदशोत्तमाः ।
समेत्य सहिताः सर्वे द्रुतं तं पर्यवारयन् ॥ ८ ॥
व्यवस्थितं तु निष्कुम्भं दृष्ट्वा त्रिदशसत्तमम् ।
बभूवुर्बलवन्तो वै तस्यास्त्रबलतेजसा ॥ ९ ॥
वृषपर्वा तु शैलाभं निष्कुम्भं समरे स्थितम् ।
महेन्द्र इव धाराभिः शरवर्षैरवाकिरत् ॥ 3.59.१० ॥
अचिन्तयित्वा तु शराञ्छरीरे पतितान् बहून् ।
स्थितश्च प्रमुखे श्रीमान् ससैन्यः स महाबलः॥ ११ ॥
सम्प्रहस्य महातेजा वृषपर्वाणमाहवे।
अभिदुद्राव वेगेन कम्पयन्निव मेदिनीम् ॥ १२
तस्य त्वाधावमानस्य दीप्यमानस्य तेजसा ।।
बभूव रूपं दुर्धर्षं दीप्तस्येव विभावसोः ॥ १३॥
रथं त्यक्त्वा महातेजाः सक्रोधः समपद्यत ।।
वृक्षमुत्पाटयामास महातालं महोच्छ्रयम् ॥ १४ ॥
ततश्चिक्षेप तं वृक्षं निष्कुम्भो वृषपर्वणः ।
तं गृहीत्वा महावृक्षं पाणिनैकेन दानवः ॥ १५॥
विनद्य सुमहानादं भ्रामयित्वा च वीर्यवान् ।।
सगजान् सगजारोहान् सरथान् रथिनस्तथा ॥ १६॥
जघान दानवस्तेन शाखिना त्रिदशांस्तदा ।।
तमन्तकमिव क्रुद्धं समरे प्राणहारिणम् ॥ १७ ॥
वृषपर्वाणमासाद्य त्रिदशा विप्रदुद्रुवुः ।
तमापतन्तं संक्रुद्धं त्रिदशानां भयावहम् ॥ १८ ॥
आलोक्य धन्वी निष्कुम्भश्चुक्रोध च ननाद च।
स तत्र निशितैर्बाणैस्त्रिंशद्भिर्मर्मभेदिभिः ॥ १९॥
निर्बिभेद महावीर्यो निष्कुम्भो दानवाधिपम् ।।
शरशक्तिभिरुग्राभिदैत्यानामधिपोऽप्यमुम् ॥ 3.59.२० ॥
विद्धः स रणमध्यस्थो रुधिरं प्रास्रवद् बहु ।।
उद्विग्ना मुक्तकेशास्ते भग्नदर्पाः पराजिताः ॥ २१ ॥
श्वसन्तो दुद्रुवुः सर्वे भयाद् वै वृषपर्वणः ।।
अन्योन्यं प्रममन्थुस्ते त्रासिता वृषपर्वणा ॥ २२॥
पृष्ठवक्त्राः सुसंविग्नाः प्रेक्षमाणा मुहुर्मुहुः ।।
त्यक्तप्रहरणाः सर्वे कृतास्ते वृषपर्वणा ॥ २३ ॥
संग्रामे युद्धशौण्डेन तदा निष्कुम्भसैनिकाः ।।
तत्रैव तु महावीर्यः प्रह्लादः कालमाहवे ॥ २४ ॥
योधयामास रकाक्षो हिरण्यकशिपोः सुतः ।।
तस्य दानववीरस्य युद्धकाले जयक्रियाः ॥ २५ ॥
चकार त्वरया युक्तो भार्गवो विजयावहाः ।।
हुताशनं तर्पयतो ब्राह्मणांश्च नमस्यतः ॥ २६ ॥
आज्यगन्धप्रतिवहो मारुतः सुरभिर्ववौ ।।
स्रजश्च विविधाश्चित्रा जयार्थमभिमन्त्रिताः ॥ २७ ॥
प्रह्लादस्य शुभे मूर्धन्याबबन्धोशनाः स्वयम् ।।
कालेन सह संग्रामे प्रयुद्धस्य महात्मनः ॥ २८ ॥
प्रह्लादस्यातिवीर्यस्य शान्ति चक्रे स भार्गवः ।।
दश शिष्यसहस्राणि भार्गवस्य महात्मनः ॥ २९ ॥
यानि दानववीराणां जेपुः शान्तिमनुतमाम् ।
अथवणमथो दिव्यं ब्रह्मसंस्तवचोदितम् ॥ 3.59.३० ॥
ततः सर्वास्त्रविदुषः समरेष्वनिवर्तिनः ॥ ३१॥
विद्यया तपसा युक्ताः कृतस्वस्त्ययनक्रियाः ।
धनुर्हस्ताः कवचिनो वेगेनाप्लुत्य दानवाः ।।
बलिमभ्यर्च्य राजानं प्रह्लादं पर्यवारयन् ॥ ३२॥
आस्थाय परमं दिव्यं रथं पररथारुजम् ।।
नानाप्रहरणाकीर्णं सवज्रमिव पर्वतम् ॥ ३३॥
तद् बभूव मुहूर्तेन क्ष्वेडितास्फोटिताकुलम् ।
मेरोः शिखरमाकीर्णं द्यौरिवाम्बुधरागमे ॥ ३४॥
स्रजः पद्मपलाशानामामुच्य सुविभूषिताः ।
बान्धवान् सम्परित्यज्य निपतन्ति रणप्रियाः ॥ ३५॥
महायुधधरः श्रीमाञ्छुभचर्मधरः प्रभुः ।।
सतनुत्रशिरस्त्राणो धन्वी परमदुर्जयः ॥ ३६॥
सिंहशार्दूलदर्पाणां गदतां किङ्किणीकिनाम् ।
दैत्यानां च सहस्राणि प्रयान्त्यग्रे महारणे ॥ ३७॥
सैन्यपक्षहितास्तस्य रथाः परमदुर्जयाः ।
सप्ततिर्वै सहस्राणि गजास्तावन्त एव च ॥ ३८ ॥
मध्ये व्यूहोदरस्थस्तु कालनेमिर्महासुरः ।।
धनुर्विस्फारयन् घोरं ननाद प्रजहास च ॥ ३९ ॥
तस्मिञ्छतसहस्राणि पुरो यान्ति महाद्युतेः ।।
दानवानां बलवतां शक्रप्रतिमतेजसाम् ॥ 3.59.४० ॥
स समं वर्तमानस्तु पक्षाभ्यां विस्तृतो महान् ।
अभवद् दानवव्यूहो दुर्भेद्यः सर्वदैवतैः ॥ ४१ ॥
षष्टी रथसहस्राणि दानवानां धनुर्भृताम् ।
नानाप्रहरणानां च परिमाणं न विद्यते ॥ ४२ ॥
गदापरिघनिस्त्रिशैः शूलमुद्गरपट्टिशैः ।।
प्रगृहीतैर्व्यराजन्त दानवाः पर्वतोपमाः ॥ ४३॥
गर्जन्तो निनदन्तश्च विक्रोशन्तः पुनः पुनः ।।
अयुध्यन्त महावीर्याः समरेष्वनिवर्तिनः ॥ ४४ ॥
तत्र तूर्यसहस्राणि भेरीशङ्खरवाणि च ।
हयानां च गजानां च गर्जतामतिवेगिनाम् ॥ ४५ ॥
दुन्दुभीनां च निर्घोषः पर्जन्यनिनदोपमः ।
शुश्रुवे शङ्खशब्दश्च पटहानां च निःस्वनः ॥ ४६॥
तेन शङ्खनिनादेन भेरीतूर्यरवेण च ।
निर्घोषेण रथानां च क्रोशतीव नभस्तलम् ॥ ४७ ॥
सागरप्रतिमौघेन बलेन महता वृतः ।।
प्रह्लादोऽयुध्यत रणे कालान्तकयमोपमः ॥ ४८ ॥
तस्य नादेन रौद्रेण घोरेणाप्रतिमौजसः ।
विनेदुः सर्वभूतानि त्रैलोक्यनिकृतैः स्वनैः ॥ ४९ ॥
अन्तरिक्षात् पपातोल्का वायुश्च परुषो ववौ ।।
वमन्त्यः पावकं घोरं शिवाश्चैव ववाशिरे ॥ 3.59.५० ॥
प्रह्लादस्तु महावीर्यः प्रहसन् युद्धदुर्मदः ।
उवाच वचनं श्रीमांस्तत्कालक्षममुत्तमम् ॥ ५१ ॥
अद्याहं दर्शयिष्यामि स्वबाहुबलमूर्जितम् ।
अद्य मद्बाणनिहतान् देवान् द्रक्ष्यथ संयुगे ॥ ५२॥
बान्धवा निहता येषां त्रिदशैरिह संयुगे ।।
अद्य निर्वर्तयिष्यन्ति शत्रुमांसानि दानवाः ॥ ५३॥
इममद्य समुद्भूतं रेणुं समरमूर्धनि ।
अहं तु शमयिष्यामि शत्रुशोणितविस्रवैः ॥ ५४॥ |
तिमिरौघहतार्कं तु सैन्यरेण्वरुणीकृतम्।
आकाशं सम्पतिष्यन्ति खद्योता इव मे शराः ॥ ५५ ॥
हृष्टाः सम्परिमोदध्वं देवेभ्यस्त्यज्यतां भयम् ।
अद्याहं निहनिष्यामि कालेन्द्रं धनुषा रणे ॥ ५६ ॥
तोषयिष्यामि राजानं बलिं बलवतां वरम् ।
त्रिदशान् सगणान् हत्वा रणे चान्तकमन्तिकात्॥५७॥
अक्षयाः सन्ति मे तूणाः शराश्चाशीविषोपमाः ।।
स्थातुं मे पुरतः शक्ताः के रणे जीवितेप्सवः ॥ ५८ ॥
हत्वा रिपुगणांस्तुष्टिरनुरागश्च राजसु ।।
हतस्य त्रिदिवे वासो नास्ति युद्धसमा गतिः ॥ ५९॥
तद् भयं पृष्ठतः कृत्वा रणे दानवसत्तमाः ।।
निहत्येमानरीन् सर्वान् मोदध्वं नन्दने वने ॥ 3.59.६० ॥
एवमुक्त्वा महत्सैन्यं प्रह्लादो दानवोत्तमः ।
कालसैन्यं महारौद्रं तरसामर्दतासुरः ॥ ६१ ॥
सर्वास्त्रविद्वान् वीरश्च नित्यं चाप्यपराजितः ।
युद्धे ह्यभिमुखो नित्यं स्वबाहुबलदर्पितः ॥ ६२ ॥
षष्टिं रथसहस्राणि विविधायुधधारिणीम् ।
प्रह्लादस्यातिवीर्यस्य ते तस्य तनया निजाः ॥ ६३॥
तैस्तु क्रतुशतैरिष्टं विपुलैराप्तदक्षिणैः ।।
क्षान्ता धर्मपरा नित्यं सत्यव्रतपरायणाः ॥ ६४ ॥
दातारः प्रियवक्तारो वक्तारः शास्त्रवस्तुषु ।
स्वदारनिरता दान्ता ब्रह्मण्याः सत्यसङ्गराः ॥६५॥
यष्टारः क्रतुभिर्नित्यं नित्यं चाध्ययने रताः ।
इष्वस्त्रकुशलाः सर्वे बहुशो दृढविक्रमाः ॥ ६६॥
मत्तवारणविक्रान्ताः शत्रुसैन्यप्रमर्दकाः ।
दारयन्तः पदाक्षेपैः सुघोरान् वातरेचकान् ॥ ६७ ॥
युद्धोत्सुकधिया नित्यं क्रोधरञ्जितलोचनाः ।।
संदष्टौष्ठपुटा दैत्या विनेदुर्भीमविक्रमाः ।
क्ष्वेडितास्फोटितरवैरन्योन्यं समहर्षयन् ॥ ६८ ॥
वेणुशङ्खरवैश्चैव सिंहनादैश्च पुष्कलैः ।
आप्लुत्याप्लुत्य सहसा रणे वव्रुरनेकशः ॥ ६९॥
तालमात्राणि चापानि विकृष्य सुमहाबलाः ।।
अमृष्यमाणाः सहसा दानवाश्चापपाणयः ॥ 3.59.७० ॥
सुरासुरैरप्यजितं योधयन्ति रणेऽन्तकम् ।।
प्रतप्तहेमाभरणाः सर्वे ते श्वेतवाससः ॥ ७१ ॥
दानवा मानिनः सर्वे सर्वे स्वर्गाभिकाङ्क्षिणः ।
सर्वे जयैषिणो वीराः सर्वे शत्रुवधोद्यताः ॥ ७२॥
शुशुभे सा चमूर्दीप्ता पताकाध्वजमालिनी ।।
गजाश्वरथसंबाधा स्वर्गमार्गाभिकाङ्क्षिणी ॥ ७३ ॥
ततः कालः सुनिर्यातो भीमो भीमपराक्रमः ।
निनदन् सुमहाकायो व्याधिभिर्बहुभिर्वृतः ॥ ७४॥ ।
ददर्श महतीं सेनां दानवानां बलीयसाम् ।।
अभिसंजातदर्पाणां कालं समभिगर्जताम् ॥ ७५ ॥
तदायान्तं तदानीकं दानवानां तरस्विनाम् ।
प्रतिलोमं चकाराशु व्याधिभिः सहितोऽन्तकः ॥ ७६॥
प्रविश्य ध्वजिनीं चैषां पातयामास दानवान् ।
कालो रुधिररक्ताक्षः स्वेनानीकेन संवृतः ॥ ७७ ॥
प्रह्लादबलमत्युग्रं प्रह्लादं च महाबलम् ।
आजघान रणे कालो दण्डमुद्गरपट्टिशैः ॥ ७८ ॥
शरशक्त्यृष्टिखड्गांश्च शूलानि मुसलानि च ।
गदाश्च परिघाश्चैव विचित्राश्च परश्वधाः ॥ ७९॥
धनूंषि च विचित्राणि शतघ्नीश्च स्थिरायसीः ।
पात्यन्ते व्याधिभिर्युद्धे दानवानां चमूमुखे ॥ 3.59.८० ॥
बहवो व्याधयो युद्धे बहूनसुरपुङ्गवान् ।
व्याधीनपि च दैत्यौघा निजघ्नुर्बहवो बहून् ॥ ८१।।
शूलैः प्रमथिताः केचित् केचिच्छिन्नाः परश्वधैः।
परिघैराहताः केचित् केचिच्च परमायुधैः ॥ ८२ ॥
केचिद् द्विधा कृताः खड्गैः स्फुरन्तः पतिता भुवि ।।
व्याधयो दानवैरेव नानाशस्त्रैर्विदारिताः ॥ ८३॥
ते चापि व्याधिभिः सर्वे विविधैरायुधोत्तमैः ।
खड्गैश्च मुसलैस्तीक्ष्णैः प्रासतोमरमुद्गरैः।
भिन्नाश्च दानवाः सर्वे निकृत्ताश्च परश्वधैः ॥ ८४ ॥
मुद्गरैः पट्टिशैश्चैव व्याधिभिश्च महाबलैः ।।
कृत्वा शस्त्रैरनेकैश्च मुष्टिभिश्च हता भृशम् ॥ ८५ ॥
वेमुः शोणितमन्योन्यं विष्टब्धदशनेक्षणाः ।।
आर्तस्वरं च नदतां सिंहनादं च गर्जताम् ॥ ८६॥
बभूव तुमुलः शब्दः संग्रामे लोमहर्षणे ।
मुष्टिभिश्चोत्तमाङ्गानि तलैर्गात्राणि चासकृत् ॥ ८७ ॥
सादितानि महीं जग्मुस्तिष्ठतामेव संयुगे ।
अस्त्रफेना ध्वजावर्ता च्छिन्नबाहुमहोरगा ॥ ८८ ॥
शूलशक्तिमहामत्स्या चापग्राहसमाकुला ।।
रथेषोपलसम्बाधा ध्वजदुमलतावृता ॥ ८९ ॥
सशब्दघोषविस्तारा लोहितोदाभवन्नदी।
स्वधनुःशक्रधनुषौ काञ्चनाङ्गदविद्युतौ ॥ 3.59.९० ॥
तौ दैत्यकालजलदौ शरधारां व्यमुञ्चताम् ।।
तौ महामेघसंकाशौ रथनागगतौ तदा ॥ ९१ ॥
बभूवतुरभिक्रुद्धौ साम्बुगर्भाविवाम्बुदौ ।
तप्तकाञ्चनसंनाहौ दिव्यहारविभूषितौ ॥ ९२॥
तौ विरेजतुरायस्तौ सूर्यवैश्वानरोपमौ ।
तौ महाबलसंकाशावन्योन्यस्य चमूमुखे ॥ ९३ ॥
शक्राशनिसमस्पर्शैर्बाणैर्जघ्नतुराहवे ।
परस्परं समासाद्य तयोर्युधि दुरासदे ॥ ९४ ॥
नाशंसन्त तदा योधा जीवितान्यपि संयुगे ।
शरैर्विभिन्नसर्वाङ्गा युधि प्रक्षीणबान्धवाः ।।
निपेतुर्योधमुख्यास्तु रुधिरोक्षितवक्षसः ॥ ९५ ॥
पतितैर्निष्पतद्भिश्च पात्यमानैश्च संयुगे।
बभूव भूः समाकीर्णा योधैरुद्गतजीवितैः ॥ ९६॥
संगृह्णतोः शरान् घोरान्न च संदधतोस्तयोः ।
अन्तरं ददृशे कश्चित् प्रयत्नादपि संयुगे ॥ ९७ ॥
लघुत्वाच्च महाबाहू युद्धशौण्डौ महाबलौ।
मण्डलीभूतधनुषौ सकृदेव बभूवतुः ॥ ९८॥
प्रह्लादस्य च बाणौघैर्दुद्रावान्तकवाहिनी ।।
उह्यमानं बलवता वायुनेवाभ्रमण्डलम् ॥ ९९ ॥
हतदर्पं तु विज्ञाय प्रह्लादः कालमाहवे।
अपयातं च समरे द्विषन्तं सम्प्रतर्क्य तम् ॥3.59.१००॥
मत्वा वशगतं चैव प्रह्लादो युद्धदुर्मदः ।
तत्रैवान्यां चमूं भूयः सम्ममर्द महासुरः ॥१०१॥
कालप्रह्लादयोर्युद्धमभवद् यादृशं पुरा ।
तादृशं सर्वलोकेषु न भूतं न भविष्यति ॥१०२॥
एवमद्भुतवीर्यौजा महारणकृतव्रणः ।
प्रह्लादस्त्वथ वृद्धोऽत्र कालस्त्वपसृतो रणात् ॥१०३॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि वामने देवासुरयुद्धे कालप्रहादयुद्धे एकोनषष्टितमोध्यायः ॥ ५९ ॥