प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ०६१ हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)
अध्यायः ०६२
[[लेखकः :|]]
अध्यायः ०६३ →
अग्निना दैत्यानां पराजयः, बृहस्पतिना अग्नेर्देवस्य स्तवनम्

द्विषष्टितमोऽध्यायः

वैशम्पायन उवाच
पराजयं तु देवानां दृष्ट्वाग्निर्देवसत्तमः ।
चकार बुद्धिं दैत्यानां वधे ब्रह्मर्षिभिः स्तुतः ।। १ ।।
स्वयंप्रभायाः शाण्डिल्या यः पुत्रो हव्यवाहनः ।
हिरण्यरेताः पिङ्गाक्षो देवहूतो हुताशनः ।। २ ।।
रोहितो लोहितग्रीवो हर्ता दाता हविः कविः ।
पावको विश्वभुग् देवः सर्वदेवाननः प्रभुः ।। ३ ।।
सुब्रह्मात्मा सुवर्चस्कः सहस्रार्चिर्विभावसुः ।
कृष्णवर्त्मा चित्रभानुर्देवानामपि देवराट् ।। ४ ।।
लोकसाक्षी द्विजहुतः सदर्चिष्मान् वषट्कृतः ।
हव्यभक्षः शमीगर्भस्वयोनिः सर्वकर्मकृत् ।। ५ ।।
पावनः सर्वभूतानां त्रिदशानां तपोनिधिः ।
शमनः सर्वपापानां लेलिहानस्तपोमयः ।। ६ ।।
प्रदक्षिणावर्तशिखः शुचिरोमा मखाकृतिः ।
हव्यभुग् भूतभव्येशो यज्ञभागहरो हरिः ।। ७ ।।
सोमपः सुमहातेजा भूतेशः सुमहातपाः ।
अधृष्यः पावको भूतिर्भूतात्मा वै स्वधाधिपः ।। ८ ।।
स्वाहापतिः सामगीतः सोमपूताशनोऽद्रिधृक् ।
देवदेवो महाक्रोधो रुद्रात्मा ब्रह्मसम्भवः ।। ९ ।।
लोहिताश्वं वायुचक्रं रथमास्थाय भूतधृक् ।
धूमकेतुर्धूमशिखो नीलवासाः सुरोत्तमः ।। 3.62.१० ।।
उद्यम्य दिव्यमाग्नेयं शस्त्रं देवो रणे महान् ।
दानवानां सहस्राणि प्रयुतान्यर्बुदानि च ।। ११ ।।
ददाह भगवान् वह्निः संक्रुद्धः प्रलये यथा ।
प्राणो यः सर्वभूतानां देहे तिष्ठति पञ्चधा ।। १२ ।।
यन्ता यश्च हुताशस्य सखा च प्रभुरीश्वरः ।
प्रभञ्जनो यो लोकानां युगान्ते सर्वनाशनः ।। १३ ।।
सप्तस्वरगता यस्य योनिर्गीर्भिरुदीर्यते ।
यो ह्याकाशमयो देवो दूरगः सर्वसम्भवः ।। १४ ।।
यश्च कर्ता विकर्ता च गतिर्गतिमतां प्रभुः ।
वेदकर्ता समो लोके ब्रह्मणा यः सनातनः ।। १५ ।।
अमूर्तिमन्तं यं प्राहुर्महाभूतं महत्तरम् ।
सोऽग्निं समीरयामास शमीगर्भं समीरणः ।। १६ ।।
त्रिदिवारोहिभिर्ज्वालैर्जम्भमाणो दिशो दश ।
दानवानामभावाय युगान्ताग्निरिवोत्थितः ।। १७ ।।
मेदोमज्जामहापङ्कां केशशैवलशालिनीम् ।
योधशीर्षोपलवहां मृतद्विपतटोत्कटाम् ।। १८ ।।
शोणितोदां रणे दृष्ट्वा संग्रामसरितं विभुः ।
वह्निः प्रस्कन्दयामास दैत्यानां भयवर्धनः ।। १९ ।।
ततोऽग्निर्दितिजान् सर्वान् प्रह्रादप्रमुखांस्तथा ।
पराजयानः स विभुः क्रोशमानो महामृधे ।। 3.62.२० ।।
केचित् प्रदीप्तैर्मुकुटैः केचिद् दीप्तैः शिरोरुहैः ।
केचित् प्रदीप्तवसनैः केचिद् दीप्तैर्भुजाननैः ।। २१ ।।
केचित् प्रदीप्तैरुरुभिः केचिच्छत्रैर्ध्वजै रथैः ।
असुरास्तत्र दृश्यन्ते प्रदीप्तेनाग्निना वृताः ।। २२ ।।
त्यक्त्वाऽऽयुधानि सर्वाणि सध्वजांश्च रथोत्तमान्।
प्रयान्ति समरे भीताः पावकेन पराजिताः ।।२३।।
न च पश्यन्ति ते वह्निं प्रदीप्तं ध्वजिनीमुखे ।
दिशः खड्गांश्च मेघांश्च दीप्तान् पश्यन्ति दानवाः ।।२४।।
ध्रुवः स्वयम्भुवा सृष्टो युगान्तस्तोययोनिना ।
इत्येवं दानवाः सर्वे मेनिरे त्रस्तचेतसः ।। २५ ।।
मयश्च शम्बरश्चैव महामायाधरौ तदा ।
पार्जन्यवारुणी मयि सृजतां वारिविक्षरे ।। २६ ।।
ताभ्यां वह्निः स मायाभ्यां सिच्यमानः समन्ततः ।
तोयौघैः पर्वतनिभैर्मृद्वर्चिरभवद् रणे ।। २७।।
शम्यमाने तु समरे पावके दैत्यनाशिनि ।
बृहत्कीर्तिर्बृहत्तेजा वह्निमाह बृहस्पतिः ।। २८ ।।
गुरुरुवाच
हिरण्यरेतः सुमुख ज्वलनाह्वय सर्वभुक् ।
सप्तजिह्वानन क्षाम लेलिहान महाबल ।। २९ ।।
आत्मा वायुस्तव विभो शरीरं सर्ववीरुधः ।
योनिरापश्च ते प्रोक्ता योनिस्त्वमसि चाम्भसः।। 3.62.३० ।।
ऊर्ध्वं चाधश्च गच्छन्ति संचरन्ति च पार्श्वतः ।
अर्चिषस्ते महाभाग सर्वतः प्रभवन्ति च ।।३१।।
त्वमेवाग्ने सर्वमसि त्वयि सर्वमिदं जगत् ।
त्वं धारयसि भूतानि भुवनं त्वं बिभर्षि च ।। ३२ ।।
त्वमग्ने हव्यवाडेकस्त्वमेव परमं हविः ।
यजन्ति च सदा सन्तस्त्वामेव परमाध्वरे ।। ३३ ।।
त्वमन्नं प्राणिनां भुङ्क्षे जगत्त्रातासि त्वं प्रभो ।
त्वयि प्रवृत्तो विजयस्त्वयि लोकाः प्रतिष्ठिताः ।। ३४ ।।
सर्वांल्लोकांस्त्रीनिमान् हव्यवाह प्राप्ते काले त्वं पचस्येव दीप्तः ।
त्वमेवैकस्तपसे जातवेदो नान्यस्त्वत्तो विद्यते गोषु देव ।।३५ ।।
वृषाकपिः सिन्धुपतिस्त्वमग्ने महामखेष्वग्र्यहरस्त्वमेव ।
विश्वस्य भूम्नस्त्वमसि प्रसूतिस्त्वं च प्रतिष्ठा भगवन् प्रजानाम् ।। ३६ ।।
सृजस्यपो रश्मिभिर्जातवेदस्तथौषधीरोषधीनां रसांश्च ।
विश्वं त्वमादाय युगान्तकाले स्रष्टा भवस्यानल सर्गकाले ।। ३७ ।।
त्वमग्ने सर्वभूतानां योनिर्वेदेषु गीयसे ।
त्वया देवहितार्थाय निहता दानवा रणे ।। ३८।।
स्वयोनिस्ते महातेजस्तोयं मखशतार्चित ।
तां स्वयोनिं समासाद्य किं विषीदसि पावक ।। ३९ ।।
त्रायस्व समरे देवान् दैत्येभ्यः सुरसत्तम ।
पिङ्गाक्ष लोहितग्रीव कृष्णवर्त्मन् हुताशन ।। 3.62.४०।।
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि वामनेऽग्निस्तवे द्विषष्टितमोऽध्यायः ।। ६२ ।।