प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ०६३ हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)
अध्यायः ०६४
[[लेखकः :|]]
अध्यायः ०६५ →
बलेः इन्द्रेण सार्द्धं युद्धं, इन्द्रस्य रणभूमितः पलायनम्

चतुःषष्टितमोऽध्यायः

वैशम्पायन उवाच
बलिना तु सुराः सर्वे वर्जयित्वा सुराधिपम् ।
रणे शरशतैर्भिन्नाः ससैन्या वै पराजिताः ।। १ ।।
विमुखा याति दैत्येन्द्रैर्वध्यमाना महाचमूः ।
जितास्तु बलिना देवाः शक्रमाहुर्महाबलम् ।। २ ।।
देवा ऊचुः
भवानिन्द्रश्च धाता च लोकानां प्रभुरव्ययः ।
त्वमप्रतिमकर्मा च तथैवानुपमद्युतिः ।। ३ ।।
विद्रुतानीह सैन्यानि सहास्माभिः सुरेश्वर ।
रथचक्रध्वजाक्षाणि विभिन्नानि महासुरैः ।। ४ ।।
रथहस्त्यश्वयोधाश्च पदाताश्च सहस्रशः ।
भिन्नच्छिन्नाश्च शतशो गदामुशलपट्टिशैः।।५।।
महाभैरवरूपं हि दैत्येन्द्रेण कृतं रणे ।
किमुपेक्षसि दैत्येन्द्रैर्हन्यमाना महाचमूम् ।। ६ ।।
त्रायस्व त्रिदशश्रेष्ठ शरण्यः शरणागतान् ।
श्रुत्वा तु वचनं तेषां देवानाममराधिपः ।। ७ ।।
संवर्ताग्निसमक्रुद्धः सर्वान् दहति दानवान् ।
दिवाकरकराकारं किरीटं धारयन् प्रभुः ।। ८ ।।
वैदूर्यवर्णसंकाशो नानारत्नचिताङ्गदः ।
मयूररोमा रक्ताक्षः शतबाहुः सहस्रदृक् ।। ९ ।।
हरिरेको हरिश्मश्रुर्नानाकेतुर्महाबलः ।
वज्रप्रहरणः श्रीमान् योगी शतशिरोधरः ।। 3.64.१० ।।
सधनुर्बद्धसन्नाहः शतादित्यसमप्रभः ।
देवगन्धर्वयक्षौघैरनुयातः सहस्रशः ।। ११ ।।
सामगैश्च जयैश्चापि स्तूयमानो महर्षिभिः ।
शतपर्वं महारौद्रं स्फोटनं सर्वतोमुखम् ।। १२ ।।
प्रगृह्य रुचिरं वज्रं दीप्तं रौद्राट्टहासनम् ।
दैत्यानयोधयत् सर्वान् महेन्द्रः पाकशासनः ।। १३ ।।
अधृष्यः सर्वभूतानामदित्या दयितः सुतः ।
ततः प्रवृत्तः संग्रामो बलिवासवयोस्तदा ।। १४ ।।
उभाभ्यां देवदैत्याभ्यामचिरान्महदद्भुतः ।
अतिवीर्यबलोदग्रस्तुमुलो लोमहर्षणः ।। १५ ।।
प्रह्लादेन स्तुतिशतैः कर्मभिर्जयसम्मतैः ।
प्रबोधितो दैत्यपतिरग्निरिद्ध इवाबभौ ।। १६ ।।
सुरासुरेन्द्रयोर्दृष्ट्वा संग्रामं लोमहर्षणम् ।
देवानां दानवानां च भूयो युद्धमभूत् तदा ।। १७ ।।
ततोऽविध्यन्महेन्द्रस्तं बलिमस्त्रैर्महाबलम् ।
तान्यस्त्राणि महाबाहुश्चिच्छेद शतधा रणे ।। १८ ।।
ततः क्रुद्धः पुनस्तत्र निजघ्ने दानवं महत् ।
आग्नेयमथ शत्रुघ्नं चिक्षेपेन्द्रो महाबलः ।। १९ ।।
तद्दृष्ट्वा खे समागच्छत् प्रलयानलसंनिभम् ।
पातयामास तच्चैन्द्रं वारुणास्त्रेण दानवः ।। 3.64.२० ।।
संक्रुद्धो मघवा वज्रमगृह्णात् पर्वतोपमम् ।
हन्तुकामो रणश्लाघी बलिं दैत्याधिपं रणे ।। २१ ।।
ततः शुश्राव देवेन्द्रः कौशिको हरिवाहनः ।
अशरीरां शुभां वाणीं तस्मिन् महति वैशसे ।। २२ ।।
निवर्तस्व महाबाहो सुराणां नन्दिवर्धन ।
पुरंदर सुरश्रेष्ठ न जेष्यसि रणे बलिम् ।। २३ ।
तपसात्युत्तमो दैत्यो वरदानेन चाधिकः ।
स्वयंभूपरितोषाच्च सत्यधर्माच्च वासव ।। २४ ।।
नैष शक्यस्त्वया जेतुं त्रिदशैर्वा सुरेश्वर ।
यो ह्यस्य जेता भगवांस्तं शृणुष्व समाहितः ।। २५ ।।
ब्रह्मणः स हि सर्वस्वं देवानां चैव सा गतिः ।
परं रहस्यं धर्मस्य परस्य च परा गतिः ।। २६ ।।
परात्परतरः श्रीमान् परावरगतिः प्रभुः ।
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।। २७ ।।
शङ्खचक्रगदापाणिः पीतवासाः सुरारिहा ।
जेता जेयो जयः श्रीमान्सोऽस्य जेता भविष्यति।। २८ ।।
श्रुत्वा दिव्यां तु मधुरां वाणीं तामशरीरिणीम् ।
अपयातो रणाच्छक्रः सार्धं सर्वैः सुरोत्तमैः ।। २९ ।।
अपयाते तु देवेन्द्रे कौशिके हरिवाहने ।
सिंहनादो महानासीद् दानवानां महामृधे ।। 3.64.३० ।।
ततः किलकिलाशब्दः क्ष्वेडितास्फोटितस्वनः ।
शङ्खानां निनदश्चात्र योधानां वल्गितस्वनः ।। ३१ ।।
वादित्राणां च निर्घोषस्तुमुलश्चाभवत्तदा ।
जयशब्दरवाश्चैव देवानां तु पराजये ।। ३२ ।।
ससैन्यो दैत्यराजस्तु स्तूयमानः सुहृद्गणैः ।
बलीन्द्रो विबभौ दैत्यो हिरण्यकशिपुर्यथा ।। ३३ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि वामने देवासुरसंग्रामे शक्रापयाने चतुःषष्टितमोऽध्यायः ।। ६४ ।।