प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ०७१ हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)
अध्यायः ०७२
[[लेखकः :|]]
अध्यायः ०७३ →
विराड्रूपधारिणः वामनोपरि आक्रमणकारिणां दैत्यानां नामानि, रूपाणां आयुधानां च परिचयं, भगवता त्रयाणां लोकानां मापयित्वा राज्यस्य विभाजनं, बलिं पातालस्य राज्यं दत्त्वा मर्यादां बंधयित्वा तेषां तत्र प्रेषणम्, जीविकायाः व्यवस्थाकरणं, नारदेन बलिं मोक्षविंशकसंज्ञकस्य स्तोत्रस्य उपदेशकरणं, तस्य प्रभावेण बलेः बन्धनमुक्तिः, स्तोत्रस्य महिमा

द्विसप्ततितमोऽध्यायः

वैशम्पायन उवाच
शृणु नामानि सर्वेषां रूपाण्यभिजनानि च ।
आयुधानि च मुख्यानि दानवानां महात्मनाम् ।। १ ।।
विप्रचित्तिः शिबिः शङ्कुरयः शङ्कुस्तथैव च ।
अयःशिरा अश्वशिरा हयग्रीवश्च वीर्यवान् ।। २ ।।
वेगवान् केतुमानुग्रः सोग्रव्यग्रो महासुरः ।
पुष्करः पुष्कलश्चैव साश्वोऽश्वपतिरेव च ।। ३ ।।
प्रहादोऽश्वशिराः कुम्भः संह्रादो गगनप्रियः ।
अनुह्रादो हरिहरौ वाराहः संहरो रुजः ।। ४ ।।
वृषपर्वा विरूपाक्षो अतिचन्द्रः सुलोचनः ।
निष्प्रभः सुप्रभः श्रीमांस्तथैव च निरूदरः ।। ५ ।।
एकवक्त्रो महावक्त्रो द्विवक्त्रः कालसंनिभः ।
शरभः शलभश्चैव कुणपः कुलपः क्रथः ।। ६ ।।
बृहत्कीर्तिर्महागर्भः शङ्कुकर्णो महाध्वनिः ।
दीर्घजिह्वोऽर्कवदनो मृदुबाहुर्मृदुप्रियः ।। ७ ।।
वायुर्गविष्ठो नमुचिः शम्बरो विक्षरो महान् ।
चन्द्रहन्ता क्रोधहन्ता क्रोधवर्धन एव च ।। ८ ।।
कालकः कालकाक्षश्च वृत्रः क्रोधो विमोक्षणः ।
गविष्ठश्च हविष्ठश्च प्रलम्बो नरकः पृथुः ।। ९ ।।
चन्द्रतापनवातापी केतुमान् बलदर्पितः ।
असिलोमा पुलोमा च बाष्कलः प्रमदो मदः ।। 3.72.१०।।
शृगालवदनश्चैव करालः केशिरेव च ।
एकाक्षश्चैकबाहुश्च तुहुण्डः सृमलः सृपः ।। ११।।
एते चान्ये च बहवः क्रममाणं त्रिविक्रमम् ।
उपतस्थुर्महात्मानं विष्णुं दैत्यगणास्तदा ।। १२।।
प्रासोद्यतकराः केचिद् व्यादितास्याः खरस्वनाः ।
शतघ्नीचक्रहस्ताश्च वज्रहस्तास्तथा परे ।। १३।।
खड्गपट्टिशहस्ताश्च परश्वधधराः परे ।
प्रासमुद्गरहस्ताश्च तथा परिघपाणयः ।। १४।।
महाशनिव्यग्रकरा मौशलास्तु महाबलाः ।
महावृक्षोद्यतकरास्तथैव च धनुर्धराः ।। १५।।
गदाभुशुण्डिहस्ताश्च वज्रहस्तास्तथा परे ।
महापट्टिशहस्ताश्च तथा परिघपाणयः ।।१६।।
असिकम्पनहस्ताश्च दानवा युद्धदुर्मदाः ।
नानाप्रहरणा घोरा नानावेषा महाबलाः ।।१७।
कूर्मकुक्कुटवक्त्राश्च हस्तिवक्त्रास्तथा परे ।
खरोष्ट्रवदनाश्चैव वराहवदनास्तथा ।।१८।।
भीमा मकरवक्त्राश्च शिशुमारमुखास्तथा ।
मार्जारशुकवक्त्राश्च दीर्घवक्त्राश्च दानवाः ।।१९।।
गरुडाननाः खड्गमुखा मयूरवदनास्तथा ।
अश्ववक्त्रा वभ्रुवक्त्रा घोरा मृगमुखास्तथा ।।3.72.२०।।
उष्ट्रशल्यकवक्त्राश्च दीर्घवक्त्राश्च दानवाः ।
नकुलस्येव वक्त्राश्च पारावतमुखास्तथा ।२१।।
चक्रवाकमुखाश्चैव गोधवक्त्रास्तथा परे ।
तथा मृगाननाः शूरा गोऽजादिमहिषाननाः ।।२२।।
कृकलासमुखाश्चैव व्याघ्रवक्त्रास्तथा परे ।
ऋक्षशार्दूलवक्त्राश्च सिंहवक्त्रास्तथा परे ।।२३।
गजेन्द्रचर्मवसनास्तथा कृष्णाजिनाम्बराः ।
चीरसंवृतगात्राश्च तथा फलकवाससः ।।२४।।
उष्णीषिणो मुकुटिनस्तथा कुण्डलिनोऽसुराः ।
किरीटिनो लम्बशिखाः कम्बुग्रीवाः सुवर्चसः ।।२५।।
नानावेषधरा दैत्या नानामाल्यानुलेपनाः ।
स्वान्यायुधानि दीप्तानि प्रगृह्यासुरसत्तमाः ।।२६।।
क्रममाणं हृषीकेशमुपातिष्ठन्त दानवाः ।
प्रमथ्य सर्वान् दैतेयान् पादहस्ततलैः प्रभुः ।।२७।।
रूपं कृत्वा महाकायं जहाराशु स मेदिनीम् ।
त्रैलोक्यं क्रममाणस्य द्युतिरादित्यसम्भवा ।।२८।।
तस्य विक्रमतो भूमिं चन्द्रादित्यौ स्तनान्तरे ।
नभः प्रक्रममाणस्य सक्थिदेशे व्यवस्थितौ ।।२९।।
परं विक्रममाणस्य जानुदेशे व्यवस्थितौ ।
विष्णोरमितवीर्यस्य वदन्त्येवं द्विजातयः ।। 3.72.३०।।
जित्वा लोकत्रयं कृत्स्नं हत्वा चासुरपुङ्गवान् ।
ददौ शक्राय वसुधां हरिर्लोकनमस्कृतः ।।३१।।
सुतलं नाम पातालमधस्ताद् वसुधातले ।
बलेर्दत्तं भगवता विष्णुना प्रभविष्णुना ।।३२।।
तदवाप्यासुरश्रेष्ठश्चकार मतिमुत्तमाम् ।
रसातलतले वासमकरोदसुराधिपः ।।३३।।
तत्रस्थश्च महातेजा ध्यानं परममास्थितः ।
उवाच वचनं धीमान् विष्णुं लोकनमस्कृतम्।।३४।।
किं मया देव कर्तव्यं ब्रूहि सर्वमशेषतः ।
ततो दैत्याधिपं प्राह देवो विष्णुः सुरोत्तमः ।।३५।।
विष्णुरुवाच
ददामि ते महाभाग परितुष्टोऽस्मि तेऽसुर ।
वरं वरय भद्रं ते यथेष्टं काममाप्नुहि ।।३६।।
मा च शुक्रस्य वचनं प्रतिहासीः कथंचन ।
अहमाज्ञापयामि त्वां श्रेयश्चैवमवाप्स्यसि ।।३७।।
अथ दैत्याधिपं प्राह विष्णुर्देवाधिपानुजः ।
वाचा परमया देवो वरेण्यः प्रभुरीश्वरः ।।३८।।
यत् त्वया सलिलं दत्तं गृहीतं पाणिना मया ।
तस्मात् ते दैत्य देवेभ्यो नास्ति जातु भयं क्वचित्।।३९।।
सुतलं नाम पातालं तत्र त्वं सानुगो वस ।
सर्वदैत्यगणैः सार्धं मत्प्रसादान्महासुर ।।3.72.४०।।
न च ते देवदेवस्य शक्रस्यामिततेजसः ।
शासनं प्रतिहन्तव्यं स्मरता शासनं मम ।।४१।।
देवताश्चापि ते सर्वाः पूज्या एव महासुर ।
भोगांश्च विविधान् सम्यग्यज्ञांश्च सहदक्षिणान्।।४२।।
प्राप्स्यसे च महाभाग दिव्यान्कामान्यथेप्सितान् ।
इह चामुत्र चाक्षय्यान्विविधांश्च परिच्छदान्।।४३।।
दैत्याधिपत्यं च सदा मत्प्रसादादवाप्स्यसि ।
यदा च तां मया प्रोक्तां मर्यादां चालयिष्यसि ।।४४।।
वधिष्यन्ति तदा हि त्वां नागपाशैर्महाबलाः ।
नमस्कार्याश्च ते नित्यं महेन्द्राद्या दिवौकसः ।।४५।।
मम ज्येष्ठः सुरश्रेष्ठः शासनं प्रतिगृह्यताम् ।
बलिरुवाच
देवदेव महाभाग शङ्खचक्रगदाधर ।।४६।।
सुरासुरगुरो श्रेष्ठ सर्वलोकमहेश्वर ।
तत्रासतो मे पाताले भागं ब्रूहि सुरोत्तम ।।४७।।
ममान्नमशनं देव प्राशनार्थमरिंदम ।
तद् वदस्व सुरश्रेष्ठ तृप्तिर्येन ममाक्षया ।।४८ ।।
श्रीभगवानुवाच
अश्रोत्रियं श्राद्धमधीतमव्रतमदक्षिणं यज्ञमनर्त्विजा हुतम् ।
अश्रद्धया दत्तमसंस्कृतं हविरेते प्रदत्तास्तव दैत्य भागाः ।।४९।।
पुण्यं मद्द्वेषिणां यच्च मद्भक्तद्वेषिणां तथा ।
क्रयविक्रयसक्तानां पुण्यं यच्चाग्निहोत्रिणाम् ।।3.72.५०।।
अश्रद्धया च यद् दानं ददतां यजतां तथा ।
तत्सर्वं तव दैत्येन्द्र मत्प्रसादाद् भविष्यति ।।५१।।
वैशम्पायन उवाच
एतच्छ्रुत्वा तु वचनं बलिर्विष्णोर्महात्मनः ।
एवमस्त्विति तं प्रोक्त्वा पातालमसुरोत्तमः ।
प्रविवेश महानादो देवाज्ञां प्रतिपालयन् ।।५२।।
एतस्मिन्नन्तरे चापि विष्णुस्त्रिदशपूजितः ।
भगवानपि राज्यानां प्रविभागांश्चकार ह ।।५३।।
ददौ पूर्वां दिशं चैन्द्रीं शक्रायामिततेजसे ।
याम्यां यमाय देवाय पितृराज्ञे महात्मने ।।५४।।
पश्चिमां तु दिशं प्रादाद् वरुणाय महात्मने ।
उत्तरां च कुबेराय यक्षाधिपतये दिशम् ।।५५।।
अधःस्थां नागराजाय सोमायोर्ध्वां दिशं ददौ ।
एवं विभज्य त्रैलोक्यं विष्णुर्बलवतां वरः ।।५६।।
जगाम त्रिदिवं देवः पूज्यमानो महर्षिभिः ।
वामनः सर्वभूतेशः प्रतिष्ठाप्य च वासवम् ।।५७।।
तस्मिन् प्रयाते दुर्धर्षे वामनेऽमिततेजसि ।
सर्वे मुमुदिरे देवाः पुरस्कृत्य शतक्रतुम् ।।५८।।
वैशम्पायन उवाच
गते तु त्रिदिवं कृष्णे बद्ध्वा वैरोचनिं बलिम् ।
नागैः सप्तशिरोभिश्च कम्बलाश्वतरादिभिः ।।५९।।
नागबन्धनदुःखार्तं बलिं वैरोचनिं ततः ।
यदृच्छयासौ देवर्षिर्नारदः प्रत्यपद्यत ।।3.72.६०।।
स तं कृच्छ्रगतं दृष्ट्वा कृपयाभिपरिप्लुतः ।
उवाच दानवश्रेष्ठं मोक्षोपायं ददामि ते ।।६ १ ।।
स्तवं देवाधिदेवस्य वासुदेवस्य धीमतः ।
अनादिनिधनस्यास्य अक्षयस्याव्ययस्य च ।।६२।।
तमधीष्वाथ दैत्येन्द्र विशुद्धेनान्तरात्मना ।
तद्गतस्तन्मना भूत्वा द्रुतं मोक्षमवाप्स्यसि ।।६३।।
ततो विरोचनसुतः प्रयतः प्राञ्जलिः शुचिः ।
मोक्षविंशकमव्यग्रो नारदात् समधीतवान् ।।६४।।
तमधीत्य स्तवं दिव्यं नारदेन समीरितम् ।
पृथिवी चोद्धृता येन तं जजाप महासुरः ।।६५।।
ॐनमोऽस्त्वनन्तपतये अक्षयाय महात्मने ।
जलेशयाय देवाय पद्मनाभाय विष्णवे ।।६६।।
सप्तसूर्यवपुः कृत्वा त्रींल्लोकान् क्रान्तवानसि ।
भगवन् कालकालस्त्वं तेन सत्येन मोक्षय ।।६७।।
नष्टचन्द्रार्कगगने क्षीणयज्ञतपःक्रिये ।
पुनश्चिन्तयसे लोकांस्तेन सत्येन मोक्षय ।।६८।।
ब्रह्मरुद्रेन्द्रवाय्वग्निसरिद्भुजगपर्वताः ।
त्वत्स्था दृष्टा द्विजेन्द्रेण तेन सत्येन मोक्षय ।६५।
मार्कण्डेन पुरा कल्पे प्रविश्य जठरं तव ।
चराचरगतं दृष्टं तेन सत्येन मोक्षय ।। 3.72.७० ।।
एको विद्यासहायस्त्वं योगी योगमुपागतः ।
पुनस्त्रैलोक्यमुत्सृज्य तेन सत्येन मोक्षय ।। ७१ ।।
जलशय्यामुपासीनो योगनिद्रामुपागतः ।
लोकांश्चिन्तयसे भूयस्तेन सत्येन मोक्षय ।। ७२ ।।
वाराहं रूपमास्थाय वेदयज्ञपुरस्कृतम् ।
धरा जलोद्धृता येन तेन सत्येन मोक्षय ।। ७३।।
उद्धृत्य दंष्ट्रया यज्ञांस्त्रीन्पिण्डान्कृतवानसि ।
त्वं पितॄणामपि हरे तेन सत्येन मोक्षय ।। ७४ ।।
प्रदुद्रुवुः सुराः सर्वे हिरण्याक्षभयार्दिताः ।
परित्रातास्त्वया देव तेन सत्येन मोक्षय ।। ७५ ।।
दीर्घवक्त्रेण रूपेण हिरण्याक्षस्य संयुगे ।
शिरो जहार चक्रेण तेन सत्येन मोक्षय ।। ७६ ।।
भग्नमूर्धास्थिमस्तिष्को हिरण्यकशिपुः पुरा ।
हुंकारेण हतो दैत्यस्तेन सत्येन मोक्षय ।। ७७ ।।
दानवाभ्यां हृता वेदा ब्रह्मणः पश्यतः पुरा ।
परित्रातास्त्वया देव तेन सत्येन मोक्षय ।। ७८ ।।
कृत्वा हयशिरोरूपं हत्वा तु मधुकैटभौ ।
ब्रह्मणे तेऽर्पिता वेदास्तेन सत्येन मोक्षय ।। ७९ ।।
देवदानवगन्धर्वा यक्षसिद्धमहोरगाः ।
अन्तं तव न पश्यन्ति तेन सत्येन मोक्षय ।। 3.72.८० ।।
अपान्तरतमा नाम जातो देवस्य वै सुतः ।
कृताश्च तेन वेदार्थास्तेन सत्येन मोक्षय ।। ८१ ।।
वेदयज्ञाग्निहोत्राणि पितृयज्ञहवींषि च ।
रहस्यं तव देवस्य तेन सत्येन मोक्षय ।। ८२ ।।
ऋषिर्दीर्घतमा नाम जात्यन्धो गुरुशापतः ।
त्वत्प्रसादाच्च चक्षुष्मांस्तेन सत्येन मोक्षय ।। ८३ ।।
ग्राहग्रस्तं गजेन्द्रं च दीनं मृत्युवशं गतम् ।
भक्तं मोक्षितवांस्त्वं हि तेन सत्येन मोक्षय ।। ८४ ।।
अक्षयश्चाव्ययश्च त्वं ब्रह्मण्यो भक्तवत्सलः ।
उच्छ्रितानां नियन्तासि तेन सत्येन मोक्षय ।। ८५ ।।
शङ्खं चक्रं गदां पद्मं शार्ङ्गं गरुडमेव च ।
प्रसादयामि शिरसा ते बन्धान्मोक्षयन्तु माम्।। ८६ ।।
शङ्खं चक्रं गदा पद्मं शार्ङ्गं च गरुडादयः ।
हरिं प्रसादयामासुर्बलिं मोक्षय बन्धनात् ।। ८७ ।।
ततः प्रसन्नो भगवानादिदेश खगेश्वरम् ।
गरुडं नागहन्तारं बलिं मोक्षय बन्धनात् ।। ८८ ।।
ततो विक्षिप्य गरुडः पक्षावतुलविक्रमः ।
जगाम वसुधामूलं यत्रास्ते संयतो बलिः ।। ८९ ।।
आगमं तस्य विज्ञाय नागा मुक्त्वा महासुरम् ।
ययुः पुरीं भोगवतीं वैनतेयभयार्दिताः ।। 3.72.९० ।।
मुक्तं कृष्णप्रसादेन चिन्तयानमधोमुखम् ।
भ्रष्टश्रियमुवाचेदं गरुत्मान् पन्नगाशनः ।। ९१ ।।
गरुड उवाच
दानवेन्द्र महाबाहो विष्णुस्त्वामब्रवीत् प्रभुः ।
मुक्तो निवस पाताले सपुत्रजनबान्धवः ।। ९२ ।।
इतस्त्वया न गन्तव्यं गव्यूतिमपि दानव ।
समयं यदि भिन्द्यास्त्वं मूर्धा ते शतधा भवेत्।। ९३ ।।
पक्षेन्द्रवचनं श्रुत्वा दानवेन्द्रो ब्रवीदिदम्।
स्थितोऽस्मि समये तस्य अनन्तस्य महात्मनः ।। ९४ ।।
जीव्योपायं तु भगवान्मम किंचित्करोतु सः ।
इहस्थोऽहं सुखासीनो येनाप्याये खगेश्वर ।। ९५ ।।
बलेस्तु वचनं श्रुत्वा गरुत्मानिदमब्रवीत् ।
पूर्वमेव कृतस्तेन जीव्योपायो महात्मना ।। ९६ ।।
वर्तयिष्यन्ति ये यज्ञान् विधिहीनामऋत्विजः ।
प्रायश्चित्तमजानन्तो यज्ञभागस्ततस्तव ।। ९७ ।।
न तेषां यज्ञभागं वै प्रतिगृह्णन्ति देवताः ।
अनेनाप्यायितबलः सुखमात्रं निवत्स्यसि ।। ९८ ।।
संदेशमेतं भगवान् दत्तवान् कश्यपात्मजः ।
दानवेन्द्र महाबाहो विष्णुस्त्रैलोक्यभावनः ।। ९९ ।।
वैशम्पायन उवाच
इमं स्तवमनन्तस्य सर्वपापप्रमोचनम् ।
यः पठेत नरो भक्त्या तस्य नश्यति किल्बिषम्।। 3.72.१००।
गोहत्यायाः प्रमुच्येत ब्रह्मघ्नो ब्रह्महत्यया ।
अपुत्रो लभते पुत्रं कन्या चैवेप्सितं पतिम् ।।१०१।।
सद्यो गर्भात्प्रमुच्येत गर्भिणी जनयेत्सुतम् ।
ये च मोक्षैषिणो लोके योगिनः सांख्यकापिला।। १०२।।
स्तवेनानेन गच्छन्ति श्वेतद्वीपमकल्मषाः ।
सर्वकामप्रदो ह्येष स्तवोऽनन्तस्य कीर्त्यते ।। १०३।।
यः पठेत् प्रातरुत्थाय शुचिः प्रयतमानसः ।
सर्वान् कामानवाप्नोति मानवो नात्र संशयः ।। १०४।।
एष वै वामनो नाम प्रादुर्भावो महात्मनः ।
वेदविद्भिर्द्विजैरेवं पठ्यते वैष्णवं यशः ।। १०५।।
यस्त्विमं वामनं दिव्यं प्रादुर्भावं महात्मनः ।
शृणुयान्नियतो भक्त्या सदा पर्वसु पर्वसु ।।१०६।।
परान् विजयते राजा यथा विष्णुर्महाबलः ।
यशो विमलमाप्नोति विपुलं चाप्नुते वसु ।। १०७।।
प्रियो भवति भूतानां सर्वेषां वामनो यथा ।
पुत्रपौत्राश्च वर्धन्ते आरोग्यं गुणसम्पदः ।। १०८।।
प्रीयते पठतश्चास्य देवदेवो जनार्दनः ।
सर्वकामयुतश्चैव कृष्णद्वैपायनोऽब्रवीत् ।। १०९।।
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि वामनप्रादुर्भावे द्विसप्ततितमोऽध्यायः ।। ७२ ।।