प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ०७२ हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)
अध्यायः ०७३
[[लेखकः :|]]
अध्यायः ०७४ →
रुक्मिण्या देव्या भगवंतं श्रीकृष्णं पुत्राय प्रार्थना, भगवता तां आश्वासयित्वा कैलासगमनस्य विचारस्य प्रकटनम्

त्रिसप्ततितमोऽध्यायः

जनमेजय उवाच
किमर्थं भगवान् विष्णुर्देवदेवो जनार्दनः ।
गतः कैलासशिखरमालयं शंकरस्य च ।। १ ।।
नारदाद्यैस्तपोवृद्धैर्मुनिभिस्तत्त्वदर्शिभिः ।
तत्र दृष्टो महादेवः शंकरो नीललोहितः ।। २ ।।
केशवेन पुरा विप्र कुर्वता तप उत्तमम् ।
अर्चितो देवदेवेन शंकरश्चेति नः श्रुतम् ।। ३ ।।
देवौ तत्र जगन्नाथौ दृष्टवन्तौ पुरातनौ ।
अर्चयांचक्रिरे देवा इन्द्राद्याः शंकरं हरिम् ।। ४ ।।
तौ हि देवौ महादेवावेकीभूतौ द्विधा कृतौ ।
एकात्मानौ जगद्योनी सृष्टिसंहारकारकौ ।। ५ ।।
परस्परसमावेशाज्जगतः पालने स्थितौ ।
तयोस्तत्र यथावृत्तं कैलासे पर्वतोत्तमे ।। ६ ।।
ऋषयः किमचेष्टन्त दृष्ट्वा तौ पुरुषोत्तमौ ।
एतत् सर्वमशेषेण वक्तुमर्हसि सत्तम ।। ७ ।।
यथा गतो हरिर्विष्णुः कृष्णो जिष्णुः पुरातनः ।
यथा च शंकरः साक्षात्कृतवान्नागभूषणः ।
एतत् सर्वं विप्रवर्य ब्रूहि तत्त्वेन यत्नतः ।। ८ ।।
वैशम्पायन उवाच
शृणुष्वावहितो राजन् यथा कृष्णो गतो नगम् ।
यथा च दृष्टो देवेशः शंकरो वृषवाहनः ।। ९ ।।
यथा चचार स तपो यथा ते मुनयो गताः ।
एवं तयोर्यथावृत्तं तथा शृणु नरोत्तम ।। 3.73.१० ।।
द्वैपायनोऽथ भगवान् यथा प्रोवाच मां तथा ।
नमस्कृत्य प्रवक्ष्यामि केशवं खगवाहनम् ।। ११ ।।
यथाशक्ति यथाप्रज्ञं शृणु यत्नेन सुव्रत ।
न चाशुश्रूषवे वाच्यं नृशंसायातपस्विने ।। १२।।
नानधीताय वक्तव्यं पुण्यं पुण्यवता सदा ।
स्वर्ग्यं यशस्यं धन्यं च बुद्धिशुद्धिकरं सदा ।।१३।।
ध्येयं पुण्यात्मनां नित्यमिदं वेदार्थनिश्चितम् ।
अनेकारण्यसंयुक्तं सेवन्ते नित्यमीदृशम् ।।१४।।
मुनयो वेदनिरता नारदाद्यास्तपोधनाः ।
अत्यद्भुतं महापुण्यं वृत्तं कैलासपर्वते ।।१५।।
शिवयोर्देवयोस्तत्र हरेश्चैव भवस्य ह ।
हतेष्वसुरसंघेषु नरकादिषु भूमिप ।।१६।
हतेष्वथ नृपेष्वेवं किंचिच्छिष्टेषु शत्रुषु ।
शासति स्म सदा विष्णुः पृथिवीं पुरुषोत्तमः ।। १७।।
द्वारवत्यां जगन्नाथो वसन् वृष्णिभिरीश्वरः ।
रुक्मिण्या संगतो देवो वसंस्तत्र पुरे हरिः ।। १८।।
कदाचिच्च तया सार्धं शेते रात्रौ जगत्पतिः ।
विहरंश्च यथायोगं प्रीतः प्रीतियुजा तया ।।१९।।
अथोवाच तदा देवी रुक्मिणी रुक्मभूषणा ।
पुत्रमिच्छामि देवेश त्वत्तो माधव नन्दनम् ।।3.73.२०।।
बलिनं रूपसम्पन्नं त्वयैव सदृशं प्रभो ।
वृष्णीनामपि नेतारं वीर्यवन्तं तपोनिधिम् ।।२१।।
सर्वशास्त्रार्थकुशलं राजविद्यापुरस्कृतम् ।
एवमादिगुणैर्युक्तं दातुमर्हसि सत्तम ।।२२।।
त्वयि सर्वस्य दातृत्वं नित्यमेव प्रतिष्ठितम् ।
त्वं हि सर्वस्य कर्ता च दाता भोक्ता जगत्पतिः ।।२३।।
विशेषतस्तु भृत्यानां शुश्रूषानियतात्मनाम् ।
वक्तव्यं किमु देवेश यदि भक्तास्मि केशव ।।२४।।
अनुग्रहो यदि स्यान्मे देवदेव जगत्पते ।
दातुमर्हसि पुत्रं त्वं वीर्यवन्तं जनार्दन ।।२५।।
वैशम्पायन उवाच
इत्युक्तो देवदेवेशः प्रियया प्रीयमाणया ।
तया महिष्या रुक्मिण्या रुक्मिशत्रुर्यदूद्वहः ।।२६।।
प्रोवाच वचनं काले रुक्मिणीं यादवेश्वरः ।
दातास्मि तादृशं पुत्रं यं त्वमिच्छसि भामिनि ।।२७।।
नित्यं भक्तासि मे देवि नात्र कार्या विचारणा ।
अवश्यं तव दास्यामि पुत्रं शत्रुनिबर्हणम् ।।२८।।
पुत्रेण लोकाञ्जयति सतां कामदुघा हि ये ।
नरकं पुदिति ख्यातं दुःखं च नरकं विदुः ।।२९।।
पुदस्त्राणात् ततः पुत्रमिहेच्छति परत्र च ।
अनन्ताः पुत्रिणो लोकाः पुरुषस्य प्रिये शुभाः ।।3.73.३०।।
पतिर्जायां प्रविशति गर्भो भूत्वा स मातरम् ।
तस्यां पुनर्नवो भूत्वा दशमे मासि जायते ।।३१।।
पुत्रवन्तं बिभेतीन्द्रः किं नु तेनाशितं भवेत् ।
नापुत्रो विन्दते लोकान् कुपुत्राद् वन्ध्यता वरा ।।३२।।
कुपुत्रो नरके यस्मात् सुपुत्रात् स्वर्ग एव हि ।
तस्माद् विनीतं सत्पुत्रं श्रुतवन्तं दयापरम् ।।३३।।
विद्यया विनयो यस्माद् विद्यायुक्तं सुधार्मिकम् ।
इच्छेत् पुत्रं पुत्रकामः पुरुषो यत्नवान् बुधः ।।३४।।
तस्माद् दास्यामि ते पुत्रं विद्यावन्तं सुधार्मिकम् ।
एष गच्छामि पुत्रार्थं कैलासं पर्वतोत्तमम् ।।३५।।
तत्रोपास्य महादेवं शंकरं नीललोहितम् ।
ततो लब्धास्मि पुत्रं ते भवाद् भूतहिते रतात् ।।३६।।
तपसा ब्रह्मचर्येण भवं शंकरमव्ययम् ।
तोषयित्वा विरूपाक्षमादिदेवमजं विभुम् ।।३७।।
गमिष्याम्यहमद्यैव द्रष्टुं शंकरमव्ययम् ।
स च मे दास्यते पुत्रं तोषितस्तपसा मया ।।३८।।
तत्र गत्वा महादेवं नमस्कृत्य सहोमया ।
प्रविश्य बदरीं पुण्यां मुनिजुष्टां तपोमयीम् ।।३९।।
अग्निहोत्राकुलां दिव्यां गङ्गाम्बुप्लावितां सदा ।
मृगपक्षिसमायुक्तां सिंहद्वीपिशताकुलाम् ।।3.73.४०।।
बदरीफलसम्पूर्णा वानरक्षोभितद्रुमाम् ।
वेत्रारूढमहावृक्षां कदलीखण्डमण्डिताम् ।।४१।
मुनिभिर्वेदतत्त्वार्थविचारनिपुणैः सदा ।
वेदनिश्चिततत्त्वार्थैः प्रमाणकुशलैर्युताम् ।।४२।।
इदमेकमिदं तत्त्वमिति निश्चितमानसैः ।
उपास्यमानामन्यत्र सिद्धैः सिद्धार्थतत्परैः ।।४३।।
इतिहासपुराणज्ञैः सेव्यमानां महर्षिभिः ।
गच्छद्भिः स्वर्गनिलयं परित्यज्य कलेवरम् ।।४४।
प्रसिद्धां महतीं देवीं यास्यामि सुकृतालयाम् ।
इत्युक्त्वा विररामैव देवदेवो जनार्दनः ।।।४५।
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि कैलासयात्रायां त्रिसप्ततितमोऽध्यायः ।। ७३ ।।