प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ०७३ हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)
अध्यायः ०७४
[[लेखकः :|]]
अध्यायः ०७५ →
भगवतः श्रीकृष्णेन यादवसभायां कैलासयात्रायाः स्वविचारं प्रकटयित्वा नगरस्य रक्षार्थं यादवेभ्यः सावधानं भवितुं आदेशम्

चतुःसप्ततितमोऽध्यायः

वैशम्पायन उवाच
प्रभातायां तु शर्वर्यां गन्तुमैच्छज्जनार्दनः ।
हुताग्निः कृतकल्याणः समाप्तवरदक्षिणः ।। १ ।।
गाश्च दत्त्वाथ विप्रेभ्यो नमस्कृत्य द्विजोत्तमान् ।
आस्थानमण्डपं कृष्णः प्रविवेश जगत्पतिः ।। २ ।।
आसनं महदास्थाय वृष्णीनाहूय सर्वशः ।
बलभद्रं शिनेः पौत्रं हार्दिक्यं शुकसारणौ ।। ३ ।
उग्रसेनं महाबुद्धिमुद्धवं नीतिमत्तरम् ।
यस्य बुद्धिं समाश्रित्य जीवन्ते यादवाः सुखम् ।। ४ ।।
नेता च यदुवृष्णीनां स तु धर्मपरः सदा ।
यस्य बिभ्यति देवाश्च नीतेस्तस्य महात्मनः ।। ५ ।।
यस्य बुद्धिबलाद् विष्णुः शशास पृथिवीं सदा ।
तं च वृष्णिवरं वीरमुद्धवं देवसुप्रभम् ।। ६ ।।
अन्यानपि यदून् सर्वानुवाच भगवान् हरिः ।
शृण्वन्तु मम वाक्यानि यादवाः सर्व एव हि ।
शृणु चापि वचो मह्यं पितुरुद्धव मे सखे ।। ७ ।।
बाल्यात्प्रभृति यो यत्नो मम दुष्टनिबर्हणे ।
प्रत्यक्षं भवता दृष्टं पूतनानिधनं नृप ।। ८ ।।
केशी च निहतो बाल्ये मया बालेन यादवाः ।
गोवर्धनो धृतः शैलो गावश्च परिपालिताः ।। ९ ।।
अभिषिक्तोऽस्मि शक्रेण देवानामग्रतः स्थितः ।
कंसोऽपि निधनं नीतो मया चाणूरमुष्टिकौ ।। 3.74.१०।।
उग्रसेनोऽभिषिक्तश्च कृता द्वारवती मया ।
अन्ये चापि नृपा राजन् बलिनो निहता मया ।। ११।।
योऽपि वीरो जरासंधो निगृहीतो बलान्मया ।
भीमेन बलिना राजन्नयने मम यादवाः ।। १२।।
शृगालो निहतः संख्ये गोमन्ताद् गच्छता मया ।
योऽपि वीरो दुरात्मासौ दानवो नरको हतः ।।१३।।
निष्कण्टकमिमं लोकं कृतवान् राजसत्तमाः ।
किं तु वीरो नृपो जज्ञे सखा भौमस्य यादवाः ।। १४।।
पौण्ड्रो वीर्यवतां नेता द्वेष्टा चासौ सदा मम ।
शिष्यो द्रोणस्य राजेन्द्रो बली ब्रह्मास्त्रवित्कृती ।। १५।
शास्त्रज्ञो नीतिमान्साक्षान्नेता सर्वस्य यत्नवान् ।
योद्धा युद्धप्रियो राजा जामदग्न्य इवापरः ।।१६।।
एकान्तशत्रुरस्माकं छिद्रान्वेषी सदा मम ।
बाधिष्यते पुरीं योद्धाच्छिद्रं यदि लभेत सः ।। १७।।
न ह्यल्पसाध्यो बलवान् पुण्ड्रस्येशो नृपोत्तमाः ।
यत्ता भवन्तस्तिष्ठन्तु प्रगृहीतशरासनाः ।। १८।।
यथा न बाधते राजा पुरीं यदुकुलाश्रयाम् ।
अहं तु यास्ये कैलासं कुतश्चित्कारणान्नृपाः ।। १९।।
शङ्करं द्रष्टुकामोऽस्मि भूतभावनभावनम् ।
यावदागमनं मह्यं तावद् यत्ता भवन्त्विह ।। 3.74.२०।।
मया विरहितां चेमां यदि जानाति पुण्ड्रकः ।
आगमिष्यति राजेन्द्रो योत्स्यते च पुरीमिमाम् ।।२१ ।।
इमां निर्यादवीं कर्तुं शक्नोतीति च मे मतिः ।
यत्ता भवत राजेन्द्राः खड्गैः पाशैः परश्वधैः ।।२२।।
पाषाणैः कर्षणीयैश्च सन्नद्धा भवत स्वकैः ।
पिधाय च कपाटानि महाद्वाराणि यत्नतः ।।२३।।
एक एव महाद्वारो गमनागमने सदा ।
मुद्रया सह गच्छन्तु राज्ञो ये गन्तुमीप्सवः ।।२४।।
न चामुद्रः प्रवेष्टव्यो द्वारपालस्य पश्यतः ।
यावदागमनं मह्यं तावदेवं भविष्यति ।।२५।।
मृगया नात्र कर्तव्या न च क्रीडा बहिः पुरात् ।
ज्ञातव्याश्च परे स्वे च गमनागमने सदा ।।२६।।
एवमादिक्रिया कार्या यावदागमनं मम ।
इत्युक्त्वा यादवान्सर्वान्सात्यकिं पुनराह च ।।२७।।
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि कैलासयात्रायां चतुःसप्ततितमोऽध्यायः ।। ७४ ।।