हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)/अध्यायः ०८१

← अध्यायः ०८० हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)
अध्यायः ०८१
[[लेखकः :|]]
अध्यायः ०८२ →
पिशाचेन समाधिअवस्थायां विष्णोः साक्षात्कारम्

एकाशीतितमोऽध्यायः

वैशम्पायन उवाच
ततः स भगवान् विष्णुः पिशाचं दृष्टवांस्तदा ।
चिन्तयत्त स्वमात्मानं शुद्धबुद्धिसमन्वितम् ।। १ ।।
आत्मन्यवस्थितं साक्षात् पठन्तं प्रणवं सकृत् ।
प्रार्थयन्तं स्वमात्मानमेकान्ते नियतं हरिः ।। २ ।।
अचिन्तयज्जगन्नाथः कारणं पुण्यसंचये ।
ध्यात्वा तु सुचिरं विष्णुः कारणं पुण्यकर्मणः ।। ३ ।।
धनदस्योपदेशेन पठन् सुबहुशः क्षितौ ।
वासुदेवेति कृष्णेति माधवेति च मां सदा ।। ४ ।।
जनार्दन हरे विष्णो भूतभावनभावन ।
नराकार जगन्नाथ नारायण परायण ।। ५ ।।
इति मां नामभिर्नित्यं पठत्येव दिवानिशम् ।
स्वपञ्जाग्रंस्तथा तिष्ठन्भुञ्जन्गच्छंस्तथा वदन्।। ६ ।।
भक्षयन् मांसपिटकं पिबञ्च्छोणितमेव वा ।
बाधमानश्च सुचिरं हत्वा चापि मृगान् बहून् ।। ७ ।।
हनने भोजने चैष जाग्रत्स्वप्ने तथैव च ।
सर्वेष्वपि च कार्येषु कर्ताहमिति मन्यते ।। ८ ।।
एतस्य कर्मणः पाक एष घोरस्य कर्मणः ।
निश्चित्यैवं जगन्नाथः प्रीतस्तस्य बभूव ह ।। ९ ।।
अदर्शयत् स्वमात्मानमनन्यस्य जगत्पतिः ।
शुद्धेऽन्तःकरणे तस्य पिशाचस्यापि भूमिप ।। 3.81.१० ।।
स च घोरः पिशाचोऽपि ददर्शात्मनि केशवम् ।
पीतकौशेयवसनं पद्माक्षं श्यामलं हरिम् ।। ११ ।।
शङ्खिनं चक्रिणं विष्णुं स्रग्विणं गदिनं विभुम् ।
किरीटिनं कौस्तुभिनं श्रीवत्साच्छादितोरसम्।। १२ ।।
नीलमेघनिभं कान्तं गरुडस्थं प्रभञ्जनम् ।
चतुर्भुजं शुभगिरं निश्चलं सर्वगं शिवम् ।। १३ ।।
अनादिनिधनं नित्यं मायाविनममायिनम् ।
सत्ययुक्तं सदा शुद्धं बुद्धिगम्यं सदामलम् ।। १४ ।।
मनस्येवं जगन्नाथं दृष्ट्वा विष्णुमनेकधा ।
अनुन्मील्यैव नयने कृतार्थोऽस्मीत्यमन्यत ।। १५ ।।
अथ दृष्टो हरिर्विष्णुः साक्षात् सर्वत्रगः शुभः ।
प्रसन्नो हि हरिर्मह्यं तेनाहं दृष्टवान् हरिम् ।। १६ ।।
सिद्धं मे जन्मनः कृत्यं किमतः कृत्यमस्ति मे ।
ग्रन्थयो मम निर्भिन्ना वश्यान्येवेन्द्रियाणि मे ।। १७ ।।
प्रायेण जितमित्येव मनो मन्ये स्मृते हरौ ।
एषणाश्च निरस्ता मे प्रसन्नोऽहं तथाभवम् ।। १८ ।।
एतेभ्योऽपि पिशाचेभ्यो निर्मुक्तः साम्प्रतं तथा ।
योऽसौ ममानुजः साक्षात्स च भक्तस्तथा हरौ।। १९ ।।
कालेन चैव निर्मुक्तो विष्णोः सायुज्यमाप्नुयात्।
इत्येवं चिन्तयित्वा स आन्त्रपाशं विभिद्य च ।। 3.81.२० ।।
क्रमेण प्राणानुन्मुच्य विलोक्य च दिशस्तथा ।
शरीरं सुगमं कृत्वा प्राविशत् स सुखेन ह ।। २१ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि कैलासयात्रायां पिशाचस्य विष्णुसाक्षात्कारे एकाशीतितमोऽध्यायः ।। ८१ ।।