हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)/अध्यायः १०८

← अध्यायः १०७ हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)
अध्यायः १०८
[[लेखकः :|]]
अध्यायः १०९ →
हंसडिम्भकाभ्यां संन्यासस्य निन्दा, जनार्दनेन संन्यासाश्रमस्य मण्डनम्

अष्टाधिकशततमोऽध्यायः

हंसडिम्भकावूचतुः
ज्ञानलेशाद्विहीनात्मन्किं ते व्यवसितं द्विज ।
कश्चायमाश्रमो विप्र भवता यः समाश्रितः ।। १ ।।
गृहमेधं परित्यज्य किं त्वया साधितं पदम् ।
दम्भ एव भवान् व्यक्तं शङ्के नास्त्यत्र कारणम्।। २ ।।
लोकांश्चेमान्सदा मूढ नाशयिष्यसि निर्वृतः ।
एतान् सर्वान् विनेतासि नरके पातयिष्यसि।। ३ ।।
स्वयं नष्टः परान् मूर्ख नाशयिष्यसि यत्नतः ।
अहो शान्ता कथं नास्ति तव मन्दमतेर्द्विज ।। ४ ।।
सर्वथा त्वद्विनेता च पापो नास्त्यत्र संशयः ।
त्यक्त्वेममाश्रमं विप्र गृही भव यतात्मवान् ।। ५ ।।
पञ्च यज्ञान् सदा विप्र कुरु यत्नपरो भव ।
ततः स्वर्गं परं गत्वा स्वर्गे हि सुमहत्सुखम्।। ६ ।।
एष श्रेयः पथो विप्र जीविते चेत् स्पृहा तव ।
इत्युक्तवन्तौ धर्मात्मा श्रुत्वा विप्रो जनार्दनः ।। ७ ।।
उवाच च यतिं दृष्ट्वा प्रणम्यासौ सुनीतवत् ।
मा ब्रूतामीदृशं वाक्यं राजानौ मन्दतेजसौ ।। ८ ।।
अश्राव्यमीदृशं घोरं लोकयोरुभयोरपि ।
को वक्तुमीशो मन्दात्मा यदि जीवेत् सबान्धवः।। ९ ।।
सर्वथा काल एवायं युवयोर्मन्दचेतसोः ।
समाप्त आयुषः शेषो ब्रह्मदण्डहतौ युवाम् ।। 3.108.१० ।।
एते हि यतयः शुद्धा ज्ञानदीपितचेतसः ।
ज्ञानाग्निदग्धकर्माणः प्राणान् प्राणेषु जुह्वति ।। ११ ।।
ऋते वामीदृशं वाक्यं कः समर्थो ह्यनुब्रुवन् ।
सर्वथा ज्ञातमस्माभिः समाप्तमिह जीवितम् ।। १२ ।।
चत्वार आश्रमाः पूर्वमृषिभिर्विहिता नृपौ ।
ब्रह्मचारी गृहस्थश्च वानप्रस्थश्च भिक्षुकः ।। १३ ।।
तेषामग्रश्चतुर्थोऽयमाश्रमो भिक्षुकः स्मृतः ।
आस्ते तस्मिन्महाबुद्धिः स हि पुण्यतरः स्मृतः ।। १४।।
नोपासिता भवद्भ्यां च वृद्धाः सम्यग् विनीतवत्।
ज्ञानं नाप्तं तपस्विभ्यस्तथा चैवं वदेत कः ।। १५ ।।
अश्राव्यमीदृशं घोरं मया प्राणभृता नृप ।
किं करिष्यामि मन्दात्मन्मित्रत्वाद् भवतो नृप।। १६ ।।
ज्ञानं यदाप्तं भवता गुरुभ्यस्तदत्र दुःखाय हि केवलं नृप ।
ज्ञानं हि धर्मप्रभवं यथेष्टं वलाद्धि पापस्य विधातृरूपम् ।। १७ ।।
युवां विहाय यास्ये वा पतेयं वा शिलातलम्।
पिबेयं वा विषं घोरं पतेयं वा महोर्मिषु ।। १८ ।।
आत्मानं वात्र संत्यक्ष्ये पश्यतां शृण्वतां पुनः ।
इत्युक्त्वा विललापैवं मा ब्रूतमिति तौ वदन् ।। १९ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि हंसडिम्भकोपाख्याने अष्टाधिकशततमोऽध्यायः ।। १०८ ।।