हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)/अध्यायः १०९

← अध्यायः १०८ हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)
अध्यायः १०९
[[लेखकः :|]]
अध्यायः ११० →
दुर्वाससः रोषं, हंसेन तेषां तिरस्करणं, दुर्वाससा ताभ्यां शापदानं, जनार्दनाय वरदानम्

नवाधिकशततमोऽध्यायः

वैशम्पायन उवाच
ततः क्रुद्धोऽथ दुर्वासा धक्ष्यन्निव तयोरसून् ।
एकेनाक्ष्णाथ दुर्वासा रौद्रेणाग्नियुजा सदा ।। १ ।।
पश्यंस्तौ च दुरात्मानौ रोषव्याकुलितेन्द्रियः ।
कुर्वन्निव तदा लोकान् भस्मभूतानिमान् नृप ।। २ ।।
ब्राह्मणं चक्षुषा पश्यन् सौम्येनान्येन केवलम् ।
उवाच वचनं राजन् ध्वंसत ध्वंसतेतरान् ।। ३ ।।
इतो गच्छत राजानौ किं विलम्बत मा चिरम् ।
न वां वचनसम्भूतं रोषं धारयितुं क्षमे ।। ४ ।।
अन्यथा वो महीपालान्सर्वान् दग्धुमहं क्षमः ।
किमतः साहसं वक्तुं कश्च शक्नोति मत्परः ।। ५ ।।
दर्पं वां लोकविख्यातः शङ्खचक्रगदाधरः ।
व्यपनेष्यति मन्दज्ञौ किं वां वक्ष्यामि साम्प्रतम् ।। ६ ।।
तत उत्थाय धर्मात्मा गन्तुमैच्छद् यतीश्वरः ।
ततो निषेद्धुं हंसस्तं यतते स्म यतीश्वरम् ।। ७ ।।
तस्य बाहुं समादाय हंसो नृपवरोत्तम ।
कौपीनं चिच्छिदे क्रूरः कृतान्त इव सत्तम ।। ८ ।।
यतयोऽन्ये पलायन्ति दिशो दश विचेतसः ।
कष्टं हेति वदन् विप्रो मित्रभावाज्जनार्दनः ।। ९ ।।
न्यवारयद् यथाशक्ति किमिदं साहसं त्विति ।
दुर्वासाः सत्यधर्मस्तु हन्तुमीशोऽपि तं ततः ।। 3.109.१० ।।
मन्दं मन्दमुवाचेदं हंसं डिम्भकमेव च ।
शापेनाहं समर्थोऽपि हन्तुं राजकुलाधमौ ।। ११ ।।
तथापि न करोम्यन्तं यतयो ह्यत्र ते वयम् ।
यो दि देवो जगन्नाथः केशवो यादवेश्वरः ।। १२ ।।
शङ्खचक्रगदापाणिर्गर्वं वां व्यपनेष्यति ।
लोके तस्मिन् यदुश्रेष्ठे रक्षत्येवं जगत्पतौ ।। १३ ।।
युवयोः सर्वथा जीवः सज्जीव इति मे मतिः ।
जरासंधोऽपि वां बन्धुः स च वक्तुं न चेच्छति।। १४ ।।
ईदृशं लोकविद्विष्टं स हि धर्मपथे सदा ।
एतावता स वां बन्धुर्न हि भूयो भविष्यति ।। १५ ।।
विद्वेषो ह्यस्तु वां तस्य मागधस्य महीपतेः ।
श्रुत्वेदं घोररूपं तु स हि बन्धुः सहेत चेत् ।। १६ ।।
धर्मनाशो भवेत् तस्य नात्र कार्या विचारणा ।
इत्युक्त्वा गच्छ गच्छेति हंसं प्राह पुनः पुनः ।। १७ ।।
जनार्दनमुवाचेदं दुर्वासा यतिसत्तमः ।
स्वस्त्यस्तु तव विप्रेन्द्र भक्तिरस्तु जनार्दने ।। १८ ।।
संसृतिस्तव तस्यास्तु शङ्खचक्रगदाभृतः ।
अद्य श्वो वा परश्वो वा साधुरेव सदा भवान् ।। १९ ।।
न हि साधोर्विनाशोऽस्ति लोकयोरुभयोरपि ।
गच्छ सर्वं पितुर्ब्रूहि ज्ञात्वा वृत्तं यथाखिलम् ।। 3.109.२०
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि हंसडिम्भकोपाख्याने दुर्वासोभाषणे नवाधिकशततमोऽध्यायः ।। १०९ ।।