हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)/अध्यायः ११८

← अध्यायः ११७ हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)
अध्यायः ११८
[[लेखकः :|]]
अध्यायः ११९ →
जनार्दनेन हंसं श्रीकृष्णदर्शनजनितस्य उल्लासस्य कथनं, द्वारकायां हंसस्य संदेशस्य प्रतिक्रियां वर्णयित्वा तं राजसूय अकरणस्य परामर्शं, हंसेन तं रोषपूर्वकं तिरस्कृ्त्य गमनस्यादेशं, तदनन्तरं सात्यकिना हंसं श्रीकृष्णस्य संदेशं श्रावयित्वा भर्त्सनम।

अष्टादशाधिकशततमोऽध्यायः

वैशम्पायन उवाच
इत्युक्तवति हंसे च धर्मात्माथ जनार्दनः ।
उवाच प्रहसन् वीरः स्तुवन् नारायणं सदा ।। १ ।।
अद्राक्षमद्राक्षमहं जनार्दनं हस्तस्थशङ्खं वरचक्रधारिणम् ।
आतप्तजाम्बूनदभूषिताङ्गदं स्फुरत्प्रभाद्योतितरत्नधारिणम् ।। २ ।।
अद्राक्षमेनं यदुभिः पुरातनः संसेव्यमानं मुनिवृन्दमुख्यैः ।
संस्तूयमानं प्रभुभिः समागधैः स्मितप्रवालाधरपल्लवारुणम् ।। ३ ।।
अद्राक्षमेनं कविभिः पुरातनैर्विविच्य वेद्यं विधिवत्सहामरैः ।
प्रफुल्लनीलोत्पलशोभितं श्रिया विनिद्रहेमाब्जविराजितोदरम् ।। ४ ।।
भूयोऽहमद्राक्षमजं जगद्गुरुं प्रमोदयन्तं वचनेन यादवान् ।
निरूपयन्तं विधिवन्मुनीश्वरैः प्रवृत्तवेदार्थविधिं पुरातनैः ।। ५ ।।
अद्राक्षमद्राक्षमहं पुनः पुनः समस्तलोकैकहितैषिणं हरिम् ।
वसन्तमस्मिञ्जगतो हिताय जगन्मयं तान् परिभूय शत्रून् ।। ६ ।।
भूयोऽप्यपश्यं सह यादवेश्वरैर्विक्रीडमानं च विहारकाले ।
रमन्तमीड्यं रमयन्तमीश्वरान् यदूत्तमान् यादवमुख्यमीश्वरम् ।। ७ ।।
भूयोऽप्यपश्यं सरसीरुहेक्षणं समेतया भीष्मतनूजया हरिम् ।
वसन्तमम्भोनिधिशायिनं विभुं भक्तप्रियं भक्तजनास्पदं शिवम् ।। ८ ।।
अद्राक्षमद्राक्षमहं सुनिर्वृतः पिबन् पिबंस्तस्य वपुः पुरातनम् ।
नेत्रेण मीलद्विवरेण केवलं धन्योऽहमस्मीति तदा व्यचिन्तयम्।। ९ ।।
अद्राक्षमम्भोजयुगं दधानं प्रभुं विभुं भूतमयं विभावनम् ।
आद्यं ककुद्मानमुरुं विभावसुं संस्मृत्य संस्मृत्य तमेव निर्वृतः ।। 3.118.१० ।।
अद्राक्षं जगतामीशं वक्षोराजितकौस्तुभम् ।
वीज्यमानं हरिं कृष्णं चामराणां शतैः सदा ।। ११ ।।
युवां विद्वेषयुक्तेन चेतसा यादवेश्वरम् ।
स्मरन्तं सर्वदा विष्णुं क्व चैवं क्व च वेत्ति कः ।। १२ ।।
क्व च द्रक्ष्यामि तौ मन्दौ कुतो वा मत्पुरोगतौ ।
ध्यायन्तमित्थं देवेशं करे शङ्खवहं सदा ।। १३ ।।
हसन्तमेनमद्राक्षं करदं हास्यतत्परम् ।
वदन्तं नारदे वाचं दुर्वाससि यतीश्वरे ।। १४ ।।
ब्रह्मसूत्रपदां वाणीं दापयन्तं मुनीश्वरम् ।
दृष्ट्वाहं तं हरिं देवं पुनः पुनरचिन्तयम् ।। १५ ।।
असाध्यमिदमारब्धं ताभ्यामिति नृपोत्तम ।
नारब्धव्यमिदं कार्यमितःप्रभृति भूमिप ।। १६ ।।
निवृत्ता सा कथा हंसाचिन्तयद् ग्रहणं तव ।
तद् वृत्तमखिलं सर्वं वदिष्यति हि सात्यकिः ।
एतद् वचनमाकर्ण्य हंसः कुद्धोऽब्रवीद् वचः ।। १७ ।।
हंस उवाच
अरे ब्राह्मणदायाद का नाम तव वागियम् ।
आवयोः पुरतो वक्तुं त्रैलोक्यं जेतुमिच्छतोः ।। १८ ।।
मायया त्वां भ्रामयति कृष्णो लीलाविधानवित् ।
तं दृष्ट्वा भ्रम एवैष तव संजायते महान् ।। १९ ।।
शङ्खचक्रगदाशार्ङ्गवनमालाविभूषितम् ।
वृष्णिवीरं समावेक्ष्य समुच्छ्रितयशोधरम् ।। 3.118.२० ।।
सूतमागधसंस्तावप्रकटद्बाहुवीर्यकम् ।
अत्यद्भुतयशोराशिं विक्रमाल्लोकमण्डनम् ।। २१ ।।
चतुर्भुजं बलाक्रान्तं वृष्णियादवसम्मतम्।
अहोऽद्य भ्रम एवैष दर्शनात् तस्य चक्रिणः ।। २२ ।।
इदानीं च महाराज भ्रामयत्येव दुर्मतिः ।
त्वामेव विप्र मन्दात्मन्निन्द्रजालिकता हि या ।। २३ ।।
चापल्यमिदमैवैतत् तव विप्र भ्रमोद्भवम् ।
अहो हि खलु सादृश्यं वक्तव्यं भवता मम ।। २४ ।।
अहमेव त्वया विप्र मर्षये प्रोदितं वचः ।
सखिभावाद् द्विजश्रेष्ठ अन्यथा कः सहेदिदम् ।। २५ ।।
गच्छ मन्दमते विप्र यथेष्टं साम्प्रतं तव ।
द्विज गच्छ यथेष्टं त्वं पृथिवीं पृथिवी तव ।। २६ ।।
जित्वा गोपालदायादं हत्वा यादवकान् बहून् ।
एष नः प्रथमः कल्पो जेष्याम इति यादवान् ।। २७ ।।
गच्छ गच्छेति विप्र त्वं धृष्टं परुषवादिनम् ।
शत्रुपक्षस्तुतिपरं सह युक्त्वा सदा मया ।। २८ ।।
न मे विप्रवधः कार्यः कष्टादपि हि सर्वतः ।
इत्युक्त्वा ब्राह्मणं भूयो हंसः सात्यकिमब्रवीत् ।।२९।।
भो भो यादवदायाद किमर्थं प्राप्तवानिह ।
किमब्रवीन्नन्दसुतः किं वासौ मेऽदिशत् करम् ।।3.118.३०।।
सात्यकिरुवाच
इदं सत्यं वचो हंस शङ्खचक्रगदाभृतः ।
शरैर्निशितधाराग्रैः शार्ङ्गमुक्तैः शिलाशितैः ।। ३१ ।।
दास्यामि करसर्वस्वमसिना निशितेन ते ।
शिरश्छेत्स्यामि ते हंस करदानस्य संग्रहम् ।। ३२ ।।
धार्ष्ट्यं हि तव मन्दात्मन्किमतोऽपि नृपाधम ।
देवदेवाज्जगन्नाथात् करमिच्छति यो नृपः ।। ३३ ।।
तस्यैष करसंक्षेपो जिह्वाच्छेदो नराधम ।
तस्य शार्ङ्गरवं श्रुत्वा शङ्खस्य च हरेः पुनः ।। ३४ ।।
को नाम जीवितं काङ्क्षेत् तिष्ठेदानीं त्वमद्य वै ।
गिरीशवरदर्पेण को ब्रूयादीदृशं वचः ।। ३५ ।।
सहाया वयमेवैते बलभद्रपुरोगमाः ।
प्रथमो बलभद्रोऽसौ द्वितीयोऽहं च सात्यकिः ।।३६।।
कृतवर्मा तृतीयस्तु चतुर्थो निशठो बली ।
पञ्चमोऽथ च बभ्रुस्तु षष्ठश्चैवोत्कलः स्मृतः ।। ३७ ।।
सप्तमस्तारणो धीमानस्त्रशस्त्रविशारदः ।
अष्टमस्त्वथ सारङ्गो नवमो विपृथुस्तथा ।। ३८ ।।
दशमश्चोद्धवो धीमान् वयमेते बलान्विताः ।
त एते पुरतो गोप्तुः शङ्खचक्रगदाभृतः ।। ३९ ।।
देवदेवस्य युद्धेषु तिष्ठन्त्येव दिवानिशम् ।
यौ हि वीरौ सुतौ तस्य नासत्यसदृशौ बले ।। 3.118.४० ।।
तावेव वां क्षमौ युद्धे हन्तुं बलमदान्वितौ ।
यो गिरीशो गिरां देवो वरं दत्त्वा स तिष्ठति ।। ४१ ।।
युवां हि किंबलौ युद्धे तिष्ठतः सशरं धनुः ।
गृहीत्वा शत्रुभिः सार्धं युद्धं कर्तुं समुद्यतौ ।। ४२ ।।
ईदृशेष्वथ भृत्येषु युद्धं कुर्वत्सु शत्रुभिः ।
त्रैलोक्यं रक्षतस्तस्मात्करमिच्छन् व्रजेत कः ।। ४३ ।।
हनिष्यत्येव वां युद्धे त्रैलोक्यं यो हि रक्षति ।
शरेण निशितेनाजौ शार्ङ्गमुक्तेन केवलम् ।। ४४ ।।
क्व नः संग्राम इत्येवं पुनराह जगत्पतिः ।
पुष्करे पुण्यदे नित्यमुत गोवर्धने गिरौ ।। ४५ ।।
मथुरायां प्रयागे वा दर्शयन्तो बलानि मे ।
शङ्खचक्रधरे देवे जगत्पालनतत्परे ।। ४६ ।।
राजसूयं महायज्ञं कर्तुमिच्छति कः स्वयम् ।
वदन्वा स्वस्तिमान्मर्त्यस्त्वां विना को व्रजेत् सुखम्।।४७।।
इदमिच्छसि चेन्मूढ हास्यतां यासि भूतले ।
इत्युक्त्वा सात्यकिर्वीरो हसन्निव भुवि स्थितः ।।४८।।
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि हंसडिम्भकोपाख्याने सात्यकिवाक्ये अष्टादशाधिकशततमोऽध्यायः ।। ११८ ।।