हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)/अध्यायः ११९
← अध्यायः ११८ | हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व) अध्यायः ११९ [[लेखकः :|]] |
अध्यायः १२० → |
हंसडिम्भकयोः सात्यकिं प्रति रोषपूर्णं वचनानि तथा सात्यकिना तान् तथैवोत्तरं दत्त्वा द्वारकां प्रति प्रस्थानम् |
एकोनविंशाधिकशततमोऽध्यायः
वैशम्पायन उवाच
ततः क्रुद्धौ महाराज हंसो डिम्भक एव ।च ।
इदं वै प्रोचतुर्वाक्त्यं रोषव्याकुलितेक्षणौ ।। १ ।।
दिधक्षन्तौ दिशः सर्वाः सर्वान् वीक्ष्य नृपोत्तमान् ।
करेण निष्पीड्य करं स्मरन्तौ तद्वचो महत् ।। २ ।।
क्व नु क्व वा नन्दसूनुः क्व वा रामो बलोत्कटः ।
इति ब्रुवाणौ साक्षेपौ सात्यकिं सत्यसंगरम् ।। ३ ।।
अरे यादवदायाद किं ब्रूषे नः पुरो गतः ।
इतो निर्गच्छ मन्दात्मन्दूतस्त्वमसि साम्प्रतम् ।। ४ ।।
अन्यथा वध्य एव त्वं प्रलपन् परुषं वचः ।
सत्यं निर्लज्ज एवासि यद् ब्रूया ईदृशं वचः ।। ५ ।।
आवामिदं जगत् सर्वं शासितुं संयतौ नृपौ ।
को नाम मानुषे लोके करदो नैव जीवति ।। ६ ।।
हत्वा गोपालकान् सर्वान् बद्ध्वा यादवकान् बहून् ।
गृह्णीमः करसर्वस्वं ततो गच्छ नराधम ।। ७ ।।
अवध्यो दूततां प्राप्तो बह्वबद्धं प्रभाषसे ।
ईश्वरो नौ वरं दाता ह्यस्त्राणामपि च प्रभुः ।। ८ ।।
रक्षितारौ महाभूतौ संग्रामं गच्छतोश्च नौ ।
पितरं याजयिष्यावो जित्वा गोपालकं रणे ।। ९ ।।
एते प्रोक्ता भृशं युद्धे कातराः सर्व एव ते ।
हत्वा तान्सबलान् युद्धे पुनर्जेष्यामि केशवम् ।। 3.119.१०
संहर्तव्या महासेना प्रगृहीतशरासना ।
गृहीतप्रासमुशला गृहीतकवचा सदा ।। ११ ।।
आरूढरथसाहस्रा गदापरिघसंकुला ।
सुप्रभूतेन्धनवती प्रभूतबलसाधना ।। १२ ।।
चाल्यतां वाहिनी घोरा बलाध्यक्षाः समन्ततः ।
अवध्य एव गच्छ त्वं न ते मरणतो भयम् ।। १३ ।।
संग्रामः पुष्करेऽस्माकं श्वः परश्वोऽपि वा नृप ।
ततो ज्ञास्यामहे वीर्यं केशवस्य वलस्य च ।
ये त्वयोक्ता नृपाः संख्ये तेषामपि च यद् बलम्।। १४।।
सात्यकिरुवाच
हंसागच्छामि वां हन्तुं श्वः परश्वोऽपि वा नृप ।
अद्यैव हि मया वध्यौ न चेद् दूतो भवाम्यहम् ।।१५।।
न हि श्वो वा परश्वो वा युवां कटुकभाषिणौ ।
दौत्ये हि दुःखमतुलं वहाम्येव सदा नृणाम् ।। १६ ।।
अन्यथाहं युवां हत्वा ततो यास्यामि निर्वृतिम् ।
स्ववीर्यं बाहुदर्पं च दर्शयन् वां नृपाधमौ ।। १७ ।।
शङ्खचक्रगदापाणिः शार्ङ्धन्वा किरीटभृत् ।
नीलकुञ्चितकेशाढ्यो लम्बबाहुः श्रिया वृतः ।। १८ ।।
स सर्वलोकप्रभवो विश्वरूपः सुरूपवान् ।
दैत्यदानवहन्तासौ योगिध्येयः पुरातनः ।। १९ ।।
पद्मकिञ्जल्कनयनः श्यामलः सिंहविक्रमः ।
सृष्टिस्थितिलयेष्वेकः कर्ता त्रिजगतो गुरुः ।। 3.119.२० ।।
शरेण निशितेनाजौ दर्पं वां व्यपनेष्यति ।
इत्युक्त्वा रथमारुह्य प्रययौ सात्यकिः किल ।। २१ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि हंसडिम्भकोपाख्याने सात्यकिप्रतिप्रयाणे एकोनविंशत्यधिकशततमोऽध्यायः ।। ११९ ।।