प्रमुखा विकल्पसूचिः उद्घाट्यताम्

हरिवंशपुराणम्/पर्व २ (विष्णुपर्व)/अध्यायः ०४४

← अध्यायः ०४३ हरिवंशपुराणम्
अध्यायः ०४४
वेदव्यासः
अध्यायः ०४५ →
श्रीकृष्णेन शृगालस्य वधं, तस्य पुत्रस्य करवीरपुरस्य राज्ये अभिषेकः

चतुश्चत्वारिंशोऽध्यायः

वैशम्पायन उवाच
तानागतान् विदित्वाथ शृगालो युद्धदुर्मदः ।
पुरस्य धर्षणं मत्वा निर्जगामेन्द्रविक्रमः ।। १ ।।
रथेनादित्यवर्णेन भास्वता रणगामिना ।
आयुधप्रतिपूर्णेन नेमिनिर्घोषहासिना ।। २ ।।
मन्दराचलकल्पेन चित्राभरणभूषिणा ।
अक्षय्यसायकैस्तूणैः पूर्णेनार्णवघोषिणा ।। ३ ।।
हर्यश्वेनाशुगतिनासक्तेन शिखरेष्वपि ।
हेमकूबरगर्भेण दृढाक्षेणातिशोभिना ।। ४ ।।
सुबन्धुरेण दीप्तेन पतत्त्रिवरगामिना ।
स्वगतेनेव शक्रस्य हर्यश्वेन रथाद्रिणा ।। ५ ।।
सावित्रे नियमे पूर्णे यं ददौ सविता स्वयम् ।
आदित्यरश्मिभिरिव रश्मिभिर्यो निगृह्यते ।। ६ ।।
तेन स्यन्दनमुख्येन द्विषत्स्यन्दनघातिना ।
स शृगालोऽभ्ययात्कृष्णं शलभः पावकं यथा ।। ७ ।।
चापपाणिः सुतीक्ष्णेषुः कवची हेममालिकः ।
सितप्रावरणोष्णीषः पावकाकारलोचनः ।। ८ ।।
मुहुर्मुहुर्ज्याचपलं विक्षिपन् दुःसहं धनुः ।
निर्वमन् रोषजं वायुं सानलज्वालमण्डलम् ।। ९ ।।
भाभिर्भूषणपंक्तीनां दीप्तो मेरुरिवाचलः ।
रथस्थ इव शैलेन्द्रः शृगालः प्रत्यदृश्यत ।। 2.44.१० ।।
तस्यारसितशब्देन रथनेमिस्वनेन च ।
गुरुत्वेन च नाम्यन्ती चचालोर्वी भयातुरा ।। ११ ।।
तमापतन्तं श्रीमन्तं मूर्तिमन्तमिवाचलम् ।
शृगालं लोकपालाभं दृष्ट्वा कृष्णो न विव्यथे ।। १२ ।।
शृगालश्चापि संरब्धः स्यन्दनेनाशुगामिना ।
समीपे वासुदेवस्य युयुत्सुः प्रत्यदृश्यत ।। १३ ।।
वासुदेवं स्थितं दृष्ट्वा शृगालो युद्धलालसः ।
अभिदुद्राव वेगेन मेघराशिरिवाचलम् ।। १४ ।।
वासुदेवः स्मितं कृत्वा प्रतियुद्धाय तस्थिवान् ।
तद् युद्धमभवत् ताभ्यां समरे घोरदर्शनम् ।
उभाभ्यामिव मत्ताभ्यां कुंजराभ्यां यथा वने ।। १५ ।।
शृगालस्त्वब्रवीत्कृष्णं समरे समुपस्थितम् ।
युद्धरागेण तेजस्वी मोहाच्चलितगौरवः ।। १६ ।।
गोमन्ते युद्धमार्गेण यत् त्वया कृष्ण चेष्टितम् ।
अनायकानां मूर्खाणां नृपाणां दुर्बले बले ।। १७ ।।
स मे सुविदितः कृष्ण क्षत्रियाणां पराजयः ।
कृपणानामसत्त्वानामयुद्धानां रणोत्सवे ।। १८ ।।
तिष्ठेदानीं यथाकामं स्थितोऽहं पार्थिवे पदे ।
क्व यास्यसि मया रुद्धो रणेष्वपरिनिष्ठितः ।।
न चाहमेकं सबलो युक्तस्त्वां योद्धुमाहवे ।
अहमेकस्त्वमप्येको द्वौ युध्याव रणे स्थितौ ।। 2.44.२० ।।
किं जनेन निरस्तेन त्वं वाहं च रणे स्थितः ।
धर्मयुद्धेन निधनं व्रजत्वेकतरो रणे ।। २१ ।।
लोकेऽस्मिन्वासुदेवोऽहं भविष्यामि हते त्वयि ।
हते मयि त्वमप्येको वासुदेवो भविष्यसि ।। २२ ।।
शृगालस्य वचः श्रुत्वा वासुदेवः क्षमापरः ।
ईर्ष्यन्तं प्रहरस्वेति तमुक्त्वा चक्रमाददे ।। २३ ।।
ततः सायकजालानि शृगालः क्रोधमूर्छितः ।
चिक्षेप कृष्णे घोराणि युद्धाय लघुविक्रमः ।। २४।।
शस्त्राणि यानि चान्यानि मुसलाद्यानि संयुगे ।
पातयामास गोविन्दे स शृगालः प्रतापवान् ।। २५ ।।
शृगालप्रहितैरस्त्रैः पावकज्वालमालिभिः ।
निर्दयाभिहतः कृष्णः स्थितो गिरिरिवाचलः ।। २६ ।।
सोऽस्त्रप्रहाराभिहतः किंचिद् रोषसमन्वितः ।
चक्रमुद्यम्य गोविन्दः शृगालस्य परिक्षिपत् ।। २७ ।।
तं रथस्थं प्रमाणस्थं शृगालं युद्धदुर्मदम् ।
जघान समरे चक्रं जातदर्पं महाबलम् ।। २८ ।।
ततः सुदर्शनं चक्रं पुनरायाद् गुरोः करे ।
चक्रेणोरसि निर्भिन्नः स गतासुर्गतोत्सवः ।
पपात क्षतजस्रावी शृगालोऽद्रिरिवाहतः ।। २९ ।।
निशम्य तं निपतितं वज्रपातादिवाचलम् ।
तस्य सैन्यान्यपययुर्विमनांसि हते नृपे ।। 2.44.३० ।।
केचित् प्रविश्य नगरं कश्मलाभिहता भृशम् ।
रुरुदुर्दुःखसंतप्ता भर्तृशोकाभिपीडिताः ।। ३१ ।।
केचित्तत्रैव शोचन्तः स्मरन्तः सुकृतानि च ।
पतितं भूपतिं भूमौ न त्यजन्ति स्म दुःखिताः ।। ३२ ।।
ततो मेघनिनादेन स्वरेणारिविमर्दनः ।
कृष्णः कमलपत्राक्षो जनानामभयं ददौ ।। ३३ ।
चक्रोचितेन हस्तेन राजतागुङ्लिपर्वणा ।
न भेतव्यं न भेतव्यमिति तानभ्यभाषत ।। ३४ ।।
नास्य पापस्य दोषेण निरावाधकरं जनम् ।
घातयिष्यामि समरे नेदं शूरव्रतं मतम्।।३५।।
अश्रुपूर्णमुखा दीनाः क्रन्दमाना भृशं तदा ।
ते स्म पश्यन्ति पतितं धरण्यां धरणीपतिम् ।। ३६ ।।
चक्रनिर्दारितोरस्कं भिन्नशृङ्गमिवाचलम् ।। ३७ ।।
विलपन्ति स्म ते सर्वे सचिवाः सप्रजा भृशम् ।
साश्रुपातेक्षणा दीनाः शोकस्य वशमागताः ।। ३८ ।।
तेषां रुदितशब्देन पौराणां विस्वरैः स्वरैः ।
महिष्यस्तस्य निष्पेतुः सपुत्रा रुदिताननाः ।। ३९ ।
तास्तं निपतितं दृष्ट्वा श्लाघ्यं भूमिपतिं पतिम् ।
स्तनानारुज्य करजैर्भृशार्ताः पर्यदेवयन् ।। 2.44.४० ।।
उरांस्युरसिजांश्चैव शिरोजान्याकुलान्यपि ।
निर्दयं ताडयन्त्यस्ता विस्वरं रुरुदुः स्त्रियः ।। ४१ ।।
तस्योरसि सुदुःखार्ता मृदिताः क्लिन्नलोचनाः ।
पेतुरूर्ध्वभुजाः सर्वाश्छिन्नमूला लता इव ।। ४२ ।।
तासां बाष्पाम्बुपूर्णानि नेत्राणि नृपयोषिताम् ।
वारिविप्रहतानीव पङ्कजानि चकाशिरे ।। ४३ ।।
पुत्रं चास्य पुरस्कृत्य बालं प्रस्नुतलोचनम् ।
शक्रदेवं पितुः पार्श्वे द्विगुणं रुरुदुः स्त्रियः ।। ४५ ।।
अयं ते वीर विक्रान्तो बालः पुत्रो न पण्डितः ।।
त्वद्धिहीनः कथमयं पदे स्थास्यात पैतृके ।। ४६ ।।
कथमेकपदे त्यक्त्वा गतोऽस्यन्तःपुरं परम् ।
अतृप्तास्तव सौख्यानां किं कुर्मो विधवा वयम् ।। ४७ ।।
तस्य पद्मावती नाम महिषी प्रमदोत्तमा ।
रुदती पुत्रमादाय वासुदेवमुपस्थिता ।। ४८ ।।
यस्त्वया पातितो वीर रणप्रोक्तेन कर्मणा ।
तस्य प्रेतगतस्यायं पुत्रस्त्वां शरणं गतः ।। ४९ ।।
यदि त्वां प्रणमेतासौ कुर्याद वा शासनं तव ।
नायमेकप्रहारेण जनस्तप्येत दारुणम् ।। 2.44.५० ।।
यदि कुर्यादयं मूढस्त्वयि बान्धवकं विधिम् ।
नैवं परीतः कृपणः सेवेत धरणीतलम् ।। ५१४
अयमस्य विपन्नस्य बान्धवस्य तवानघ ।
सन्तती रक्ष्यतां वीर पुत्रः पुत्र इवात्मजः ।। ५२ ।।
तस्यास्तद् वचनं श्रुत्वा महिष्या यदुनन्दनः ।
मृदुपर्वमिदं वाक्यमुवाच वदतां वरः ।। ५३ ।।
राजपत्नि गतो रोषः सहानेन दुरात्मना ।
प्रकृतिस्था वयं जाता देवि सैषोऽस्मि बान्धवः ।। ५४ ।।
रोषो मे विगतः साध्वि तव वाक्यैरकल्मषैः ।
योऽयं पुत्रः शृगालस्य ममाप्येष न संशयः ।। ५५ ।।
अभयं चाभिषेकं च ददाम्यस्मै सुखाय वै ।
आहूयन्तां प्रकृतयः पुरोधा मन्त्रिणस्तथा ।। ५६ ।।
पितृपैतामहे राज्ये तव पुत्रोऽभिषिच्यताम् ।
ततः प्रकृतयः सर्वाः पुरोधा मन्त्रिणस्तथा ।। ५७ ।।
अभिषेकार्थमाजग्मुर्यतो वै रामकेशवौ ।
ततः सिंहासनस्थं तु राजपुत्रं जनार्दनः ।। ५८ ।।
अभिषेकेण दिव्येन योजयामास वीर्यवान् ।
अभिषिच्य शृगालस्य करवीरपुरे सुतम्।
कृष्णस्तदहरेवाशु प्रस्थानमभ्यरोचयत् ।। ५९ ।।
रथेन हरियुक्तेन तेन युद्धार्जितेन वै ।
केशवः प्रस्थितोऽध्वानं वृत्रहा त्रिदिवं यथा ।। 2.44.६० ।।
शक्रदेवोऽपि धर्मात्मा सह मात्रा परंतपः ।
सबालवृद्धयुवतीमुख्याः प्रकृतयस्तथा ।। ६१ ।।
शिबिकायामथारोप्य शृगालं युद्धदुर्मदम्।
संहता दूरमार्गेण पश्चिमाभिमुखा ययुः ।। ६२ ।।
नैधनस्य विधानेन चक्रुस्ते तस्य सत्क्रियाम् ।
सत्कारं कारयामासुः पितॄणां पारलौकिकम् ।। ६३ ।।
उद्दिश्योद्दिश्य राजानं श्राद्धं कृत्वा सहस्रशः ।
ततस्ते सलिलं दत्त्वा नामगोत्रादिकीर्तनैः ।। ६४ ।।
पितर्युपरते घोरे शोकसंविग्नमानसः ।
कृत्वोदकं तदा राजा प्रविवेश पुरोत्तमम् ।। ६५ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि शृगालवधो नाम चतुश्चत्वारिंशोऽध्यायः ।। ४४ ।।