हर्षचरितम् (लघुसङ्ग्रहः)/अष्टमोच्छ्वासः

               




   

॥ अष्टम उच्छ्वासः ॥

 अथापरेद्युरुत्थाय पार्थिवस्तस्माद्ग्रामकान्निर्गत्य विवेश विन्ध्याटवीम्। आट च तस्यामितश्चेतश्च सुबहून् दिवसान् ।.

 एकदा तु भूपतेर्भ्रमत एव, आटविकसामन्तशरभकेतोः सूनुः व्याघ्रकेतुर्नाम, अवनाटनासिकं चिपिटाधरं चिकिनचिबुकं शबरयुवानमादाय आजगाम । दूरे च स्थापयित्वा विज्ञापयांबभूव-"देव, सर्वस्यास्य विन्ध्यस्य स्वामी शबरसेनापतिर्भूकम्पो नाम । तस्यायं निर्घातनामा स्वस्त्रीयः सकलस्यास्य विन्ध्यकान्तारस्य पर्णानामप्य भिज्ञः, किमुत प्रदेशानाम् । एनं पृच्छतु देवः । योग्योऽयमाज्ञां कर्तुम् ” इति कथिते च निर्घातः क्षितितलनिहितमीळिः प्रणाम मकरोत् ॥

 अवनीपतिस्तु स्वयमेव तमप्राक्षीत् --‘अङ्ग, अभिज्ञ यूय- मस्य सर्वस्योद्देशस्य । विहशीलाश्च दिवसेष्वेतेषु भवन्तः । सेना पतेर्वा अन्यस्य वा तदनुजीविनः कस्यचित् उदाररूपा नारी आगत भवेद्दर्शनगोचरम् ?” इति ।

 निर्घातस्तु भूपाळालापनप्रसादेन आत्मानं बहुमन्यमानःद चिंतारं व्यज्ञापयत् –‘‘देव, प्रायेणात्र इरिण्योऽपि नापरिगताः संचरन्ति सेनापतेः, कुत एव नार्यः । नाप्येवंरूपा काचिद्बला । तथापि देवादेशादिदानीमन्वेषणं प्रति प्रतिदिनमनन्यङ्ग्यैः क्रियते यनः । इतश्चार्धगव्यूतिमात्र एव सुनिहिते महति महीरुहां षण्डे पाराशरी दिवाकरमित्रनाम गिरिनदीमाश्रित्य प्रतिवसति । स यदि विन्देद्वार्ताम् " इति ॥

 तच्छुत्वा नरपतिरचिन्तयन्–“ श्रूयते हि तत्रभवतो ग्रहवर्म- णो बालमित्रम् उत्पन्नसमाधिः सौगते मते युवैव काषायाणि गृही- तवाम् ” इति । प्रायशश्च जनस्य जनयति सुहृदपि दृष्टो भृशमा- श्वासम् । अभिगमनीयाश्च गुणः स्रर्वस्य । कस्य न प्रतीक्ष्यो मुनि- भावः । भगवती वैधेयेऽपि धर्भगृहिणी गरिमाणमापादयति प्रव्रज्या, किंपुनः सकलजनमनोमुषि विदुषि जने यतो नः कुतूहलि हृदयमभूत्सततमस्य दर्शनं प्रति ।प्रासङ्गिकमेवेदमापतितमतिकल्याणम् । पश्यामः प्रयत्नप्रार्थितदर्शनं जनम्” इति । "अङ्ग, समुपदिश तमुद्देशम्, यत्रास्ते स पिण्डपाती” इत्येवमुक्त्वा च तेनैवोपदिश्यमानवर्त्मा प्रावर्तत गन्तुम् ॥

 अथ नानादेशीयैः शिलातलेषु उपविष्टैः संशयानैश्च निश्चिन्वद्भिश्च विवदमानैश्च व्याचक्षाणैश्च शिष्यतां प्रतिपन्नैर्दूरादेवावेद्यमानम्, अरुणेन चीवरपटलेन म्रदीयसा संवीतम्, तत्त्वं तपसः, कोशं कुशलस्य, वेश्म विश्वासस्य, मध्यमे वयसि वर्तमानं दिवाकरमित्रमद्राक्षीत् । अतिप्रशान्तगम्भीराकारारोपितबहुमानश्च सादरं दूरादेव शिरसा मनसा वचसा च ववन्दे ॥

 दिवाकरमित्रस्तु संपादितससंभ्रमाभ्युत्थानः, स्निग्धमधुरया वाचा सगौरवम् आरोग्यदानेन राजानमन्वग्रहीत् । पार्श्वे स्थितं च शिष्यमब्रवीत्--"आयुष्मन्, उपानय कमण्डलुना पादोदकम्" इति । राजा तु "भगवन्, दर्शनपुण्यानुगृहीतस्य मम पुनरुक्त इवायमार्यप्रयुक्तः प्रतिभात्यनुग्रहः । पाद्यमप्यपार्थकम् । आसतां भवन्तो यथासुखम् । आसीनोऽहम्" इत्यभिधाय क्षितावेवोपाविशत् । स्वमेवासनं पुनरपि भेजे भदन्तः ॥

 स्थित्वा च कांचित्कालकलाम्, अवादीत्--"अद्यप्रभृति न केवलमयमनिन्द्यः, वन्द्योऽपि प्रकाशितसत्सारः संसारः । किं नाम नालोक्यते जीवद्भिरद्भुतम्, येन रूपमचिन्तितोपनतमिदं दृक्पथमुपगतम् । एवंविधैरनुमीयन्ते जन्मान्तरावस्थितसुकृतानि हृदयोत्सवैः । इहापि जन्मनि दत्तमेवास्माकममुना तपःक्लेशेन फलम् असुलभ दर्शनं दर्शयता देवानां प्रियम् । केन कृत्यातिभारेण भव्यो भूषितवान् भूमिमेतामभ्रमणयोग्याम् ? कियदवधिर्वा शून्याटवीपर्यटनक्लेशः कल्याणराशेः ? कस्माच्च संतप्तरूपेव ते तनुरियमसंतापार्हा ?" इति ॥

 राजा तु सादरमब्रवीत्--"आर्य, धन्योऽस्मि, यदेवं मान्यो मन्यते माम् । अस्य च महावनपरेिभ्रमणक्लेशस्य कारणमवधारयतु मतिमान्--मम हि विनष्टनिखिलेष्टबन्धोर्जीवितानुबन्धस्य निबन्धनमेकैव यवीयसी स्वसावशेषा । सापि भर्तुर्वियोगात् वैरिपरिभवभयाच्च भ्रमन्ती कथमपि विन्ध्यवनमिदमाविशत् । अतस्तामन्वेष्टुं वयं सततमिमामटवीमटामः । न चैनामासादयामः । कथयतु च गुरुरपि, यदि कदाचित्कुतश्चिद्वनचरतः श्रुतिपथमुपगता तद्वार्ता" इति ॥

 भदन्तः पुनरभ्यधात्- "धीमन्, न खलु कश्चिदेवंरूपो वृत्तान्तोऽस्मानुपगतवान् । अभाजनं हि वयमीदृशानां प्रियाख्यानोपायनानां भवताम्" इत्येवं भाषमाण एव तस्मिन्, अकस्मादागत्य अपरः शमिनि वयसि वर्तमानः प्रक्षरितचक्षुरभाषत--"भगवन्, महत्करुणं वर्तते । बालैव बलवद्व्यसनाभिभूता स्त्री वैश्वानरं विशति । संभावयतु ताम् अप्रोषितप्राणां भगवान् । अभ्युपपद्यतां समुचितैः समाश्वासनैः । अनुपरतपूर्वं कृमिकीटमपि दुःखितं दयाराशेरार्यस्य गोचरगतम्" इति ॥

 राजा तु जातानुजाशङ्को बाष्पायमाणदृष्टिः पप्रच्छ--"पाराशरिन्, कियद्दूरे सा योषिदेवंजातीया ? जीवेद्वा कालमेतावन्तम् ? पृष्टा वा त्वया--कासि, कस्यासि, कुतोऽसि, किमर्थं वनमिदमभ्युपगतासि ? विशसि च किंनिमित्तमनलम् ? इति । कथमार्यस्य गता गोचरम् ? आकारतो वा कीदृशी ?" इति ॥  भिक्षुराचचक्षे-- "महाभाग, श्रूयताम्--- अहं हि प्रत्युषस्येवाद्य वन्दित्वा भगवन्तम् अनेनैव नदीरोधसा सैकतसुकुमारेण यदृच्छया विहृतवानतिदूरम् । एकस्मिंश्च वनलतागहने गिरिनदीसमीपभाजि नारीणां रुदितमाकर्णितवानस्मि । समुपजातकृपश्च गतोऽस्मि तं प्रदेशम् । दृष्टवानस्मि च अबलानां चक्रवालेन परिवृताम्, क्षामक्षामां पाण्डुवपुषम्, पूरितां दुःखेन कामपि योषितम् । सा तु समीपगते मयि, तदवस्थापि सबहुमानमानतमौलिः प्रणतवती । तस्माच्च स्त्रैणादुत्थायान्यतरा योषित् अभिहितवती–- ‘भगवन्, सर्वसत्त्वानुकम्पिनी प्रायः प्रव्रज्या । करुणाकुलगृहं च भगवतः शाक्यमुनेः शासनम् । परलोकसाधनं च धर्मो मुनीनाम् । प्राणरक्षणाच्च न परं पुण्यजातं जगति गीयते जनेन । इयं नः स्वामिनी, मरणेन पितुः, अभावेन भर्तुः, प्रवासेन च भ्रातुः, भ्रंशेन च शेषस्य बन्धुवर्गस्य, अनपत्यतया च निरवलम्बना, अग्निं प्रविशति । परित्रायताम् ।' इति । 'आर्ये, यथा कथयसि तथा । अस्मद्गिरामगोचरोऽयमस्याः शोकः । शक्यते चिन्मुहूर्तमात्रमपि त्रातुम्, उपरिष्टान्न व्यर्थेयमभ्यर्थना भविष्यति मम हि गुरुरपर इव भगवान्सुगतः समीपगत एव । कथिते मयास्मिन्नुदन्ते नियतमागमिष्यति परमदयालुः । सौगतैः सुभाषितैः स्वकैश्च नानागमगुरुभिर्गिरां कौशलैः कुशलशीलामेनां प्रबोधपदवीमारोपयिष्यति’ इत्यभिधाय त्वरमाणोऽहमुपगत्य व्यतिकरमिमम् अत्रभवते गुरवे निवेदितवन्” इति ॥

 अथ भूभृत् "आर्य, उत्तिष्ठ । दर्शय, कासौ ? यामः । कथंचिज्जीवन्तीं संभावयामः" इति भाषमाण एवोत्तस्थौ । समग्रशिष्यवर्गानुगतेन आचार्येण समस्तेन सामन्तलोकेन च पश्चादनुगम्यमानः, पुरस्ताच्च तेन शाक्यपुत्रीयेत प्रदर्श्यमानवत्मां पद्भ्यामेव तं प्रदेशं प्रावर्तत । क्रमेण च समुपगतः शुश्राव लतावनान्तरितस्य मुमूर्षोर्महतः स्त्रैणस्य तत्कालोचिताननेकप्रकारानालापान्। सत्वरमुपससर्प। ददर्श च मुह्यन्तीमग्निप्रवेशायोद्यतां राजा राज्यश्रियम् । अललम्बे च मूर्च्छामीलितलोचनाया ललाटं हस्तेन तस्याः ससंभ्रमम् ॥

 अथ तेन भ्रातुः प्रेयसो हस्तसंस्पर्शन सहस्रैव समुन्मिमीलराज्यश्रीः । तथा च असंभावितगमनस्य अचिन्तितदर्शनस्य सहसा प्राप्तस्य भ्रातुः कण्ठे समाश्लिष्य , करुणाकाहलेन स्वरेण कंचित्कालमतिचिरं रुरोद । विगते च मन्युवेगे, वह्नेः समीपादाक्षिप्य भ्रात्रा नीता निकटवर्तिनि तरुतले निषसाद ॥

 शनैराचार्यस्तु तदा हर्ष इति विज्ञाय विवर्धितादरः शिष्येणोपनीतं स्वयमादाय नम्रो मुखप्रक्षालनायोदकमुपनिन्ये । नरेन्द्रोऽपि सादरं गृहीत्वा प्रथमं स्वसुश्चक्षुरक्षालयत्, पश्चादात्मनः । ततो नरेन्द्रो मन्दं मन्दब्रवीत्स्वसारम्-- "वत्से, वन्दस्व अत्रभवन्तं भदन्तम् । एष ते भर्तुर्हृदयं द्वितीयम् अस्माकं च गुरुः” इति । राजवचनात्तु राजदुहितरि नमन्याम् आचार्यः किंचिदपरावृतनयनो दीर्घनिशश्वास । स्थित्वा च क्षणमेकं प्रदर्शितप्रश्रयो मृदुभाषी व्याजहार-- "कल्याणराशे, अलं रुदित्वा । राजलोको नाद्यापि रोदनान्निवर्तते । क्रियतामवश्यकरणीयः स्नानविधिः। स्नात्वा च गम्यतां तामेव भूयो भुवम्" इति ।

 अथ नरपतिरनुवर्तमानो लौकिकमाचारम् आचार्यवचनं च, उत्थाय स्नात्वा गिरिसरिति, सह स्वस्रा तामेव भूमिमयासीत् । तस्यां च भगिनीमभोजयत् । अनन्तरं च स्वयमाहारस्थितिमकरोत् । भुक्तवांश्च बन्धनात्प्रभृति प्रावकप्रवेशोपक्रमणं यावत् विस्तरतः स्वसुः सर्वमथुणोद्वथतिकरं परिजनतः ॥

 ततः सुखासीनमेकत्र तरुतले भगिनीद्वितीयं राजानमाचार्यः समुपसृत्य वक्तुमुपचक्रमे--‘‘श्रीमन् , आकर्ण्यताम्- आख्येय मस्ति नः किंचित् । रसातलनिवासी विषमुचामीशः, मुक्ताफलैरेका- मेकावलीमकल्पयत् । श्चकार च मन्दाकिनीति नाम तस्याः। सा च अव्यन्तविषघ्नी । सा च अस्माकं कालेन शिष्यपरंपरया कथमपि हस्त मुपगता । सर्वसत्वरक्षाप्रवृत्तेन रक्षणीयशरीरेणायुष्मता विषरक्षा- पेक्षया गृह्यताम् ” इत्यभिधाय तामुद्धृत्य बबन्ध बन्धुरे स्कन्धभागे भूपतेः ॥

 समतिक्रान्ते च कियत्यपि काले, लब्धविस्रम्भा राज्यश्रीः, ताम्बूलवाहिनीं पत्रलतामाहूय उपांशु किमपि कर्णमूले शनैरादिदेश । दर्शितविनया च पत्रलता पार्थिवं व्यज्ञापयत्-"देव, देवी विज्ञापयति-- न स्मराम्यार्यस्य पुरः कदाचिदुभैर्वचनमपि, कुतो विज्ञापः नम् । इयं हि शुचामसह्यता शिथिलयति विनयम् । अबलानां हि पतिरपत्यं वावलम्बनम् । उभयविकलानां तु प्राणितम् अशालीनत्व मेव । आर्यागमनेन च कृतोऽपि प्रतिहतो मरणप्रयत्नः। अतः काषायग्रहणाभ्यनुज्ञया अनुगृह्यतामपुण्यभाजनं जनः” इति | जना धिपस्तु तदाकर्ण्य तूष्णीमेवावातिष्ठत ॥

 अथाचार्य: सुधीरमभ्यधात् -- ‘आयुष्मति, शोको हि नाम पर्यायः पिशाचस्य, तारुण्यं तमसः । अस्य च आपातं सोढुं भूरि- काव्यकथाकठोराणि विदुषामपि हृदयानि नालम् , किमुत सरस- विस्रतन्तुदुर्बलमबलानां हृदयम् । एवं सति सत्यप्रते, वद किमत्र क्रियते । कतम उपालभ्यते । कस्य पुर उचैराक्रन्द्यते । सर्वमक्षिणी निमील्य सोढव्यममूढेन मर्त्यधर्मणा। पुण्यवति, पुरातन्यः स्थितय एताः केन शक्यन्तेऽन्यथाकर्तुम्। अतिद्रुतवाहिनी चानित्यतानदी। सर्वमात्मनोऽनीश्वरं विश्वं नश्वरम्। एवमवधृत्य नात्यर्थमेवार्हस्रि मेधविनि, मनसि तमसः प्रसरं दातुम्। अपि च, दूरगतेऽपि हि शोके नन्विदानीमपेक्षणीय एवायं ज्येष्ठः पितृकल्पो भ्राता भवत्या गुरुः । इतरथा को न बहुमन्येत कल्याणरूपमीदृशं संकल्पमत्रभवत्याः काषायग्रहणकृतम् । अखिलमनोज्वरप्रशमनकारणं हि भगवती प्रव्रज्या। ज्यायः खल्विदं पद्मात्मवताम्। महाभागस्तु भिनत्ति मनोरथमधुना। यदयमादिशति, तदेवानुष्ठेयम्। यदि भ्रातेति,यदि ज्येष्ठ इति, यदि वत्सल इति, यदि गुणवानिति, यदि राजेति, सर्वथा स्थातव्यमस्य नियोगे" इत्युक्त्वा व्यरंसीत् ॥

  उपरतवचसि च तस्मिन् , निजगाद नरपतिः--"आर्यमपहाय कोऽन्य एवमभिदध्यात् । अनभ्यर्थितदैवनिर्मिता हि विषमविपदवलम्बनस्तम्भा भवन्तो लोकस्य । स्रेहार्द्रमूर्तयो मोहान्धकारध्वंसिनश्च धर्मप्रदीपाः। अतः किंचिदर्थये भदन्तम्- इयं नः स्वसा बाला च बहुव्यसनखेदिता च सर्वकार्यावधीरणोपरोधेनापि लालनीया नित्यम् । अस्माभिश्च भ्रातृवधापकारिरिपुकुलप्रलयकरणोद्यतस्य बाहोर्विधेयैर्भूत्वा सकललोकप्रत्यक्षं प्रतिज्ञा कृता। अतो नियुङ्क्तां कियन्तमपि कालमात्मानमार्योऽपि मदीये कायै । अद्यप्रभृति यावदयं जनो लघयति प्रतिज्ञाभारम् , तावदिमामत्रभवतः कथाभिश्च धर्म्याभिः कुशलप्रतिबोधविधायिभिरुपदेशैश्च अस्मत्पार्श्वोपयायिनीमेव प्रतिबोध्यमानामिच्छामि। इयं तु ग्रहीष्यति मयैव स्रमं समाप्तकृत्येन काषायाणि । अतः परं भवन्त एव बहुतरं जानन्ति" इत्युक्त्वा तूष्णींबभूव नरपतिः ॥

 भूयस्तु बभाषे भदन्तः- "भव्या न द्विरुच्चारयन्ति वाचम् । चेतसा प्रथममेव प्रतिग्राहिता गुणास्तावकाः कायबलिममुना जनेन । उपयोगश्चास्य लघुनि गुरुणि वा कृत्ये गुणवदायत्तः" इति ॥


 अथ तथा तस्मिन्नभिनन्दितप्रणये प्रीयमाणः पार्थिवस्तत्र तामुषित्वा विभावरीम् उषसि वसनालंकारादिप्रदानपरितोषितं विसृज्य निर्घातम् आचार्येण सह स्वसारमादाय प्रयाणकैः कतिपयैरेव कटकमनुजाह्नवि निविष्टं प्रत्याजगाम ॥

इति हर्षचरिते स्वसृलाभो नाम अष्टम उच्छ्वासः ॥


॥ समाप्तं हर्षचरितम् ॥