हर्षचरितम् (लघुसङ्ग्रहः)/सप्तमोच्छ्वासः

॥ सप्तम उछासः ॥


 अथ व्यतीतेषु केषुचिद्दिवसेषु, मौहूर्तिकमण्डलेन शतशः सुगणिते सुप्रशस्ते अहनि, स्नात्वा विरचय्य परमया भक्त्या भगवतो नळिलोहितस्यार्चाम्, विमुच्य बन्धनानि, भवनान्निर्जगाम ।।

 नातिदूरे च नगरात् उपसरस्वति निर्मिते महति तृणमये मन्दिरे स्थानमकरोत् । तत्रस्थस्य चास्य ग्रामाक्षपटलिकः सकलकरणिपरिकरः, "करोतु देवो दिवसग्रहणमद्यैव अवन्ध्यशासनः शासनानाम् 'इत्यभिधाय वृषाङ्काम् अभिनवघटितां हाटकमयीं मुद्रामुपनिन्ये । जग्राह च तां राजा । निनाय च तत्र तं दिवसम् । प्रतिपन्नायां च शर्वर्यां सुष्वाप ।।

 अथ गलति तृतीये यामे, गम्भीरध्वनिरताड्यत प्रयाणपटहः । प्रयाणक्रोशसंख्यापकाः स्पष्टम् अष्टौ अदीयन्त प्रहाराः पटहे ॥

 उदिते च भगवति दिनकृति, नचिरादिव करेणुकयोह्यमानः दण्डिभिरितस्ततः समुत्सार्यमाणजनसमूहो निर्जगाम नरपतिः । प्र स्थिते च राजनि, इतस्ततो वितस्तार तारतरस्तूर्याणां प्रतिध्वनिराशातटेषु । करिणां च षट्पदकोलाहलमांसलैः कर्णतालनिस्वनैस्तिरोदधिरे दुन्दुभिध्वनयः । सर्वतो विक्षिप्तचक्षुश्च भूपालः, अद्राक्षीत् आवासस्थानसकाशात्प्रतिष्ठमानं स्कन्धावारम् । वीक्षमाणश्च कटकं जगाम । प्रविश्य च बाह्यास्थानमण्डपस्थापितमासनमाचक्राम । अपास्तसमायोगश्च क्षणमासिष्ट ॥

 अथ तत्र प्रतीहारो विज्ञापितवान्--"देव, प्राग्ज्योतिषेश्वरेण कुमारेण प्रहितो हंसवेगनामा दूतस्तोरणमध्यास्ते" इति । राजा तु "तमाशु प्रवेशय” इति सादरमादिदेश ॥

 अनन्तरं च हंसवेगः सविनयं प्रभूतप्राभृतभृतां पुरुषाणां समूहेन महतानुगम्यमानः प्रविवेश राजमन्दिरम् । आरादेव पञ्चाङ्गालिङ्गिताङ्गनः प्रणाममकरोत् । ततो राजा पप्रच्छ--"हंसवेग, श्रीमान् कश्चित्कुशली कुमारः" इति । स तमवादीत्--"अद्य कुशली, येनैवं स्नेहस्नपितया गिरा सगौरवं पृच्छति देवः" इति ॥

 स्थित्वा च मुहूर्तमिव पुनः स चतुरमुवाच--"अस्मत्स्वामिना संदेशम् अशून्यतां नयता पूर्वजोपार्जितं वारुणातपत्रम् आभोगाख्यम् अनुरूपस्थानन्यासेन कृतार्थीकृतम् । एतत् , प्रचेता इव यश्चतुर्णामर्णवानामधिपतिर्भूतो भावी वा, तमनुगृह्णाति छायया, नेतरम् । एतत्तावदनुगृह्णातु दृशा देवः । संदेशमपि विस्रब्धं श्रोष्यति" इत्येवमभिधाय, विवृत्य आत्मीयं पुरुषमभ्यधात्--“उत्तिष्ठ । दर्शय देवस्य” इति ॥

 स वचनानन्तरमुत्थाय पुमान् ऊर्ध्वीचकार तत् । धौतदुकूलकल्पिताच्च निचोलकादकोषीत् । चित्रीयमाणचेताश्च सराजको राजा, दण्डानुसाराधिरोहिण्या दृशा सादरम् ऐक्षिष्ट त्रैलोक्याद्भुतं तन्महच्छत्रम् । दृष्टे च तस्मिन् राज्ञा, शेषमपि प्राभृतं प्रकाशयांचक्रुः क्रमेण कार्माः ॥

 राजा तु छत्रदर्शनात्प्रहृष्टहृदयः, प्रथमप्रयाणे शोभनं निमित्तमिति मनसा जग्राह । अपनीते च तस्मात्प्रदेशात्प्राभृतसंभारे, क्षणमिव स्थित्वा "हंसवेग, विश्रम्यताम्” इति प्रतीहारभवनं विसर्जयांबभूव । स्वयमप्युत्थाय स्नात्वा मङ्गलाकाङ्क्षी, प्राङ्मुखः प्राविशदाभोगस्य छायाम् । विशत एवास्य छायाजन्मना जडिम्ना कुमुदमयमिव हृदयमभवत् । आहारकाले च हंसवेगाय विलिप्तशेषं चन्दनं वाससी परिवेषं नाम कटिसूत्रं तरङ्गकं नाम कर्णाभरणं प्रभूतं च भोज्यजातं प्राहिणोत् । एवंप्रायेण च क्रमेण जगाम दिवसः ॥

 ततः अंशुमाली आभोगातपत्रप्रदानवार्तामिव निवेदयितुं वरुणाय वारुणीं दिशमयासीत् ॥

 अस्यां च वेलायां विततवितानतलवर्ती नरेन्द्रः "कथय संदेशम्” इति हंसवेगमादिष्टवान् । प्रणम्य स कथयितुं प्रास्तावीत्--“देव पुरा वराहसंपर्कसंभूतगर्भया भगवत्या भुवा नरको नाम सूनुरसावि रसातले । महात्मनस्तस्यान्वये भगदत्तपुष्पदत्तवज्रदत्तप्रभृतिषु व्यतीतेषु बहुषु महीपालेषु, प्रपौत्रो महाराजभूतिवर्मणः पौत्रश्चन्द्रमुखवर्मणः पुत्रो देवस्य स्थितिवर्मणः सुस्थिरवर्मा नाम महाराजाधिराजो जज्ञे । तस्य च श्यामादेव्यां भास्करद्युतिर्भास्करवर्मा नाम कुमारः समभवत् । अयमस्य शैशवादारभ्य संकल्पः स्थेयान्--स्थाणुपादारविन्दद्वयात् ऋते नाहमन्यं नमस्कुर्यामिति । ईदृशश्चायं मनोरथः, सकलभुवनविजयेन वा मृत्युना वा यदिवा जगत्येकवीरेण देवोपमेन मित्रेण संपद्यते । प्राग्ज्योतिषेश्वरो हि देवेन अजर्यं संगतमिच्छति । नाभिनन्दति चेद्देवः प्रणयम्, आज्ञापयतु किं कथनीयं मया स्वामिनः" इति ॥

 विरतवचसि तस्मिन्, भूपालः सादरं जगाद --- "हंसवेग, कथमिव तादृशि महात्मनि महाभिजने पुण्यराशौ परोक्षसुहृदि स्निह्यति, मद्विधस्यान्यथा स्वप्नेऽपि प्रवर्तेत मनः ? श्रेयांश्च संकल्पः कुमारस्य । स्वयं बाहुशाली मयि च सुहृदि हरात् ऋते कमन्यं नमस्यति ? संवर्धिता मे प्रीतिरमुना संकल्पेन । तत् तथा यतेथाः, यथा न चिरमियमस्मान् क्लेशयति कुमारदर्शनोत्कण्ठा" इति ॥

 हंसवेगस्तु "देव, अभिजातमभिहितं देवेन । तदेवमभिनन्दितास्मदीयप्रणयो देवोऽपि, दिवसैः कतिपयैरेव परागतः प्राग्ज्योषेश्वर इति करोतु चेतसि” इत्युक्त्वा नमस्कृत्य निर्जगाम ॥

 राजापि रजनीं तां कुमारदर्शनौत्सुक्यस्वीकृतहृदयः समनैषीत् । प्रभाते च प्रभूतं प्रतिप्राभृतं दत्त्वा हंसवेगं प्राहिणोत् । आत्मनापि ततः प्रभृति प्रयाणकैरनवरतैरभ्यमित्रं प्रावर्तत ॥

 कदाचित्तु भण्डिरेकेनैव वाजिना कतिपयकुलपुत्रपरिवृतो मलिनवासाः पातकीव अपराधीव द्रोहीव मुषित इव राजद्वारमाजगाम । अवतीर्य च तुरंगमात् अवनतमुखो विवेश राजमन्दिरम् । दूरादेव विमुक्ताक्रन्दः पपात पादयोः ॥

 अवनिपतिरपि दृष्ट्वा तम् उत्थाय विरलैः पदैः प्रत्युद्गम्य उत्थाप्य च गाढमुपगुह्य कण्ठे, करुणमतिचिरं रुरोद । शिथिलीभूतमन्युवेगश्च पुरेव पुनरागत्य निजासने निषसाद । प्रथमप्रक्षालितमुखे च भण्डौ मुखमक्षालयत् । समतिक्रान्ते च कियत्यपि काले भ्रातृमरण वृत्तान्तमप्राक्षीत् । अथाकथयच्च यथावृत्तमखिलं भण्डिः । अथ नरपतिस्तमुवाच--"राज्यश्रीव्यतिकरः कः?" इति । स पुनरवादीत्--"देव, देवभूयं गते देवे राज्यवर्धने, गुप्तनाम्ना च गृहीते कुशस्थले, देवी राज्यश्रीः परिभ्रश्य बन्धनात् विन्ध्याटवीं सपरिवारा प्रविष्टेति लोकतो वार्तामशृणवम् । अन्वेष्टारस्तु तां प्रति प्रभूताः प्रहिता जना नाद्यापि निवर्तन्ते” इति । तच्चाकर्ण्य भूपतिरब्रवीत्--"किमन्यैरनुपदिभिः । यत्र सा, तत्र स्वयमहं यास्यामि । भवानपि कटकमादाय प्रवर्ततां गौडाभिमुखम्" इत्युक्त्वा चोत्थाय स्नानभुवमगात् । कारितशोकश्मश्रुवपनकर्मणा च प्रतीहारभवनस्नातेन भण्डिना सार्धमभुक्त । निनाय च तेनैव सह वासरम् ॥

 अथापरेद्युरुषस्येव भण्डिर्भूपालमुपसृत्य, श्रीराज्यवर्धनभुजबलार्जितं साधनं सपरिबर्हं दर्शयांबभूव । अथ तत्सर्वमवनिपालः स्वीकर्तुं यथाधिकारमादिक्षदध्यक्षान् । अन्यस्मिंश्चाहनि हयैः स्वसारमन्वेष्टुमुच्चचाल विंन्ध्याटवीम् । अवाप च परिमितैरेव प्रयाणकैस्ताम् । अथ प्रविशन्, अटवीकुटुम्बिनां गृहैरुपेतं वनग्रामकं ददर्श । तत्रैव चावसत् ॥

इति हर्षचरिते छत्रलब्धिर्नाम सप्तम उच्छ्वासः ॥