हर्षचरितम् (लघुसङ्ग्रहः)/षष्ठोच्छ्वासः


॥ षष्ठ उच्छ्वासः ॥


 अथ प्रथमप्रेतपिण्डभुजि भुक्ते द्विजन्मनि, गतेषु उद्वेजनीयेष्वाशौचदिवसेषु, नीतेषु तीर्थस्थानानि कीकसेषु, क्रमेण च मन्देष्वाक्रन्देषु, काव्याशेषनाम्नि नरनाथे, देवो हर्षः कदाचित् वृद्धबन्धुवर्गाग्रेसरेण महजनेन आत्मानं वेष्ट्यमानमद्राक्षीत् । वेपमानहृदयश्च पप्रच्छ प्रविशन्तम् अन्यतमं पुरुषम्--"अङ्ग कथय । किमार्यः प्राप्तः” इति । स मन्दमब्रवीत्--"देव, यथादिशसि, द्वारि" इति ॥  अनन्तरं च द्वारपालमुक्तेन प्रथमप्रविष्टेन परिजनेनेव आक्रन्देन कथ्यमानम्, प्रथीयसा बाष्पपयःप्रवाहेण महीमनवरतं सिञ्चन्तम्, क्रीतमिव क्रशिम्ना, पिष्टमिव पीडया, असाध्येन साधुभाषितानाम् अगम्येन गुरुगिराम् अपथेन प्रज्ञाप्रयत्नानां शोकेन कबलीकृतं ज्येष्ठं भ्रातरमपश्यत् ॥

 अथ दूरादेव दृष्ट्वा देवो राज्यवर्धनः, चिरकालकलितं बाष्पवेगं मुमुक्षुः, सुदूरप्रसारितेन दोर्दण्डद्वयेन गृहीत्वा कण्ठे भ्रातरम्, मुक्तकण्ठं रुरोद । सुचिराच्च कथं कथमपि निर्वृष्टनयनजलः स्वयमेवोपशशाम । तूष्णीमेव च चिरं स्थित्वा उत्थाय स्नानभूमिमगात् । तस्यां च स्थित्वा मौलिमनादरात् निष्पीड्य, चतुःशालवितर्दिकायां पर्यङ्कियां निपत्य जोषमस्थात् ॥

 देवोऽपि हर्षस्तथैव स्नात्वा अदूर एवास्य समवातिष्ठत । दृष्ट्वा दृष्ट्वा दूयमानमानसमग्रजन्मानं समस्फुटदिव अस्य सहस्रधा हृदयम् । सर्वस्मिन्नेव नगरे न केनचिदस्नायि, न केनचिदपाचि, न केनचिदभोजि, सर्वत्र सर्वेणारोदि । केवलमनेन क्रमेण अतिचकाम दिवसः । स च पारावारपयसि ममज्ज मज्जिष्ठारुणोऽरुणसारथिः । अकाशत चाकाशे शशाङ्कमण्डलम् । अस्यां च वेलायाम् अनतिक्रमणीयवचनैरुपसृत्य प्रधानसामन्तैर्विज्ञाप्यमानः कथंकथमप्यभुक्त ॥

 प्रभातायां च शर्वर्याम् सर्वेषु प्रविष्टेषु राजसु, समीपस्थितं हर्षदेवमुवाच-"तात, भूमिरसि गुरुनियोगानाम् । शैशव एवाग्राहि भवता तातस्य चित्तवृत्तिः । भवन्तमेवंविधं विधेयं किमपि बिभणिषति मे हृदयम् । नालम्बनीया बालभावसुलभा वामता । न खलु न जानासि लोकवृत्तम् । मांधातरि मृते किं कृतं पुरुकुत्सेन, दिलीपे वा रघुणा, दशरथे वा रामेण, दुष्यन्ते वा भरतेन । यं च किल शोकः समभिभवति, तं कापुरुषमाचक्षते । स्त्रियो हि विषयः शुचाम् । तथापि किं करोमि । एवमास्पदं पितृशोकहुतभुजो जातोऽस्मि । मम हि प्रनष्टः प्रज्ञालोकः । प्रज्वलितं हृदयम् । नोपसर्पति विवेकः । मुह्यति मतिः । सोऽहमिच्छामि मनसि सुलग्नं स्नेहमलमिदं क्षालयितुमाश्रमपदे । त्वं गृहाण मे राज्यचिन्ताम् । परित्यक्तं मया शस्त्रम्” इत्येवमभिधाय खड्गग्राहिणो हस्तादादाय निजं निस्त्रिंशमुत्ससर्ज धरण्याम् ॥

 अथ तच्छ्रुत्वा निशितशिखेन शूलेनेवाहतो देवो हर्षः समचिन्तयत्--"किं नु खलु मामन्तरेण आर्यः केनचिदसहिष्णुना किंचित् ग्राहितः कुपितः स्यात् ? उतानया दिशा परीक्षितुकामो माम् । उत शोकजन्मा चेतसः समाक्षेपोऽयमस्य । आहोस्वित् आर्य एवायं न भवति । को हि नाम तद्विधे निपतिते जनयितरि, ईदृशे च भ्रातरि तपोवनं गच्छति, मृद्गोलकं वसुधाभिधानं चण्डालोऽपि कामयेत । कथमिव संभावितमत्यन्तमनुचितमिदमार्येण । किं वास्य चेतसश्च्युतः सौमित्रिः ? किं वा ममानेन वृथा बहुधा विकल्पितेन । तूष्णीभेवार्थमनुगच्छामि” इत्यवधार्य तूष्णीमवातिष्ठत ॥

 अत्रान्तरे पूर्वादिष्टेनैव वस्त्रकर्मान्तिकेन समुपस्थापितेषु वल्कलेषु, रटति राजस्त्रैणे, निराशेषु निश्वसत्सु सामन्तेषु, सबालवृद्धासु तपोवनाय प्रस्थितासु प्रजासु, सहसैव प्रविश्य प्रक्षरितनयनसलिलो राज्यश्रियः परिचारकः संवादको नाम विमुक्ताक्रन्दः सदस्यात्मानमपातयत् ॥

 अथ संभ्रान्तो राज्यवर्धनस्तं पर्यपृच्छत्--"भद्र, भण भण । किमपरमुपनयति विधिः" इति । स कथं कथमप्यकथयत्--"देव, पिशाचानामिव नीचात्मनां चरितानि छिद्रप्रहारीणि प्रायशो भवन्ति । यस्मिन्नहनि अवनिपतिरुपरत इत्यभूद्वार्ता, तस्मिन्नेव देवो ग्रहवर्मा दुरात्मना मालवराजेन जीवलोकमात्मनः सुकृतेन सह त्याजितः । भर्तृदारिकापि राज्यश्रीः सनिगडचरणा कान्यकुब्जे कारायां निक्षिप्ता । किंवदन्ती च, यथा-–अनायकं साधनं मत्वा जिघृक्षुः सुदुर्मतिरेतामपि भुवमाजिगमिषति इति । विज्ञापिते प्रभुः प्रभवति" इति ॥

 ततश्च तादृशमनुपेक्षणीयम् आकस्मिकमपरं व्यतिकरमाकर्ण्य अश्रुतपूर्वत्वात्परिभवस्य, कूपाभूमिभूतायाश्च स्वसुः स्नेहात्स तादृशोsपि एकपद एवास्य ननाश शोकावेगः । विवेश च सहसा हृदयं कोपावेगः । “आयुष्मन्, इदं राजकुलम्, अमी बान्धवाः, परिजनोऽयम्, इयं भूमिः, एताः प्रजाः । गतोऽहमद्यैव मालवकुलप्रलयाय । इदमेव तावत् वल्कलग्रहणम्, इदमेव तपः, शोकापगमोपायश्चायमेव, यत् अरिनिग्रहः । सोऽयं कुरङ्गकैः कचग्रहः केसरिणः, अलगर्दैर्गलग्रहो गरुडस्य, यो मालवैः परिभवः पुष्पभूतिवंशस्य । अन्तरितस्तापो मे महीयसा मन्युना । तिष्ठन्तु सर्व एव राजानः करिणश्च त्वयैव सार्धम् । अयमेको भण्डिः अयुतमात्रेण तुरंगमाणामनुयातु माम्” इत्यनुजमभिधाय तस्मिन्नेव वासरे निर्जगाम अभ्यमित्रम् ॥

 अथ तथा गते भ्रातरि, उपरते च पितरि, प्रोषितजीविते च जामातरि, मृतायां च मातरि, संयतायां च स्वसरि, स्वयूथभ्रष्ट इव वन्यः करी देवो हर्षः कथं कथमप्येकाकी कालं तमनैषीत् ॥

 अतिक्रान्तेषु च बहुषु वासरेषु, कदाचित्, आस्थानगतः, सहसैव प्रविशन्तम् अनुप्रविशता विषण्णवदनेन लोकेनानुगम्यमानं कुन्तलं नाम बृहदश्ववारं राज्यवर्धनस्य प्रसादभूमिं ददर्श । तस्माच्च हेलानिर्जितमालवानीकमपि गौडाधिपेन मिथ्योपचारोपचितविश्वासं मुक्तशस्त्रमेकाकिनं स्वभवन एव भ्रातरं व्यापादितमश्रौषीत् ॥

 श्रृत्वा च महातेजस्वी प्रजज्वाल । ततश्च हर इव कृतभैरवाकारः, हरिरिव प्रकटितनरसिंहरूपः परां भीषणतामयासीत् । अवादीच्च--"गोडाधिपमपहाय कस्तादृशं महापुरुषं मुक्तशस्त्रं सर्वलोकविगर्हितेन मृत्युना शमयेदार्यम् ? कां नु गतिं गमिष्यति ? कस्मिन्वा नरके पतिष्यति ? श्वपाकोऽपि क इदमाचरेत् ? केदानीं यास्यति दुर्बुद्धि:? ” इत्यभिदधत एवास्य, पितुरपि मित्रं सेनापतिः सिंहनादनामा विज्ञापितवान्--"देव, न क्वचित्कृताश्रयया मलिनया हतलक्ष्म्या विप्रलभ्यमानमात्मानं न चेतयन्ते कापुरुषाः । किं वा करोतु वराकः, येन अतिभीरुतया नित्यपराङ्मुखेन न दृष्टान्येव तेजस्विनां मुखानि । यश्चाहितहतस्वजनो मनस्विजनो विपक्षवनिताचक्षुषा ददाति जलम् , स श्रेयान् नेतरः । न च स्वप्नदृष्टनष्टेष्विव क्षणिकेषु शरीरेषु निबध्नन्ति बन्धुबुद्धिं प्रबुद्धाः । मणिप्रदीपमिव कज्जलमलो न स्पृशत्येव तेजस्विनं शोकः । स त्वं सत्त्ववतामग्रणीः, प्राग्रहरः प्राज्ञानां, प्रथमः समर्थानाम् । किं गौडाधिपेनैकेन । तथा कुरु, यथा नान्योऽपि कश्चिदाचरत्येवं भूयः । क्ष्मापतीनां शिरःसु शरत्सवितेव ललाटंतपान्प्रयच्छ पादन्यासान्” इत्युक्त्वा व्यरंसीत् ॥

 देवस्तु हर्षस्तं प्रत्यवादीत् --"करणीयमेवेदमभिहितं मान्येन । जीवति जाल्मे जगद्विगर्हिते गौडाधिपचण्डाले, जिह्रेमि पोटेव प्रतीकारशून्यं शुचा सूत्कर्तुम् । श्रूयतां मे प्रतिज्ञा । शपान्यार्यस्यैव पादपांसुस्पर्शेन--यदि परिगणितैरेव वासरैः निर्गौडां न करोमि मेदि नीम्, ततस्तनूनपाति पातकी पातयाम्यात्मानम्" इत्युक्त्वा च महासंधिविग्रहाधिकृतमन्तिकस्थम् अवन्तिमादिदेश--"लिख्यतां सर्वेषां राज्ञाम्--सज्जीक्रियन्तां कराः करदानाय, शस्त्रग्रहणाय वा । गृह्यन्तां दिशः, चामराणि वा । नमन्तु शिरांसि, धनूंषि वा । मुच्यन्तां भूमयः, इषवो वा । परागतोऽहम्" इति । कृतनिश्चयश्च स्वस्थवत् निःशेषमाह्निकमकार्षीत् । अगलच्च शाम्यदूष्मा दिवसः । ततश्च प्रदोषास्थाने नातिचिरं तस्थौ । प्रतिषिद्धपरिजनप्रवेशश्च शयनगृहं प्राविशत् । उत्तानश्च मुमोचाङ्गानि शयनतले ।

 प्रभातायां च शर्वर्यां, प्रातरेव प्रतीहारमादिदेश--"अशेषगजसाधनाधिकृतं स्कन्दगुप्तं द्रष्टुमिच्छामि” इति । युगपत्प्रधावितबहुपुरुषपरंपराहूयमानः स्वमन्दिरात् अप्रतिपालितकरेणुश्चरणाभ्यामेव, संभ्रान्तः, निष्कारणबान्धवो विदग्धानाम् अक्रीतदासो विदुषां स्कन्दगुप्तो विवेश राजकुलम् । दूरादेव च स्पृशन्मौलिना महीतलं नमस्कारमकरोत् ॥

 उपविष्टं च नातिनिकटे तं तदा जगाद देवो हर्षः--“श्रुतो विस्तर एवास्य आर्यव्यतिकरस्य अस्मच्चिकीर्षितस्य च ? अतः शीघ्रं प्रवेश्यन्तां प्रचारनिर्गतानि गजसाधनानि । न क्षाम्यत्यतिस्वल्पमपि आर्यपरिभवपीडापावकः प्रयाणविलम्बम्” इत्येवमभिहितश्च प्रणम्य व्यज्ञापयत्--"कृतमवधारयतु स्वामी समादिष्टम् । किंतु स्वल्पं विज्ञप्यमस्ति भर्तृभक्तेः । तदाकर्णयतु देवः--देवेन हि पुष्पभूतिवंशसंभूतस्य सहजस्य तेजसः, असाधारणस्य च सोदरस्नेहस्य सदृशमुपक्रान्तम् । देवराज्यवर्धनोदन्तेन च कियदपि दृष्टमेव देवेन दुर्जदौरात्म्यम् । प्रतिग्रामं प्रतिनगरं प्रतिदेशं च भिन्ना वेषाश्च आकाराश्च आहाराश्च व्यवहाराश्च । तदियमात्मदेशाचारोचिता स्वभावसरलहृदयजा त्यज्यतां सर्वविश्वासिता । प्रमाददोषाभिषङ्गेषु श्रुतबहुवार्त एव प्रतिदिनं देवः ।" इत्युक्त्वा विरराम । स्वाम्यादेशस्रंपादनाय च निर्जगाम।।

देवोsपि हर्षः सकलराज्यस्थितीश्चकार । ततश्च तथा कृतप्रतिज्ञे प्रयाणं विजयाय दिशां समादिशति देवे हर्षे, गतायुषां प्रतिसामन्तानाम् उदवसितेषु बहुरूपाण्युपलिङ्गानि वितेभिरे ।।

इति हर्षचरिते राजप्रतिज्ञावर्णनं नाम षष्ठ उच्छासः ।