सामवेदः/कौथुमीया/संहिता/पूर्वार्चिकः/छन्द आर्चिकः/1.1.2 द्वितीयप्रपाठकः/1.1.2.5 पञ्चमी दशतिः
(1.1.2.5 पञ्चमी दशतिः इत्यस्मात् पुनर्निर्दिष्टम्)
इहेव शृण्व एषां कशा हस्तेषु यद्वदान् | | १अ १छ् |
इम उ त्वा वि चक्षते सखाय इन्द्र सोमिनः | | २अ २छ् |
समस्य मन्यवे विशो विश्वा नमन्त कृष्टयः | | ३अ ३छ् |
देवानामिदवो महत्तदा वृणीमहे वयं | | ४अ ४छ् |
सोमानां स्वरणं कृणुहि ब्रह्मणस्पते | | ५अ ५छ् |
बोधन्मना इदस्तु नो वृत्रहा भूर्यासुतिः | | ६अ ६छ् |
अद्य नो देव सवितः प्रजावत्सावीः सौभगं | | ७अ ७छ् |
क्वा३स्य वृषभो युवा तुविग्रीवो अनानतः | | ८अ ८छ् |
उपह्वरे गिरीणां सङ्गमे च नदीनां | | ९अ ९छ् |
प्र सम्राजं चर्षणीनामिन्द्रं स्तोता नव्यं गीर्भिः | | १०अ १०छ् |