सामवेदः/कौथुमीया/संहिता/पूर्वार्चिकः/छन्द आर्चिकः/1.1.3 तृतीयप्रपाठकः/1.1.3.9 नवमी दशतिः
यो राजा चर्षणीनां याता रथेभिरध्रिगुः ।
विश्वासां तरुता पृतनानां ज्येष्ठं यो वृत्रहा गृणे ।। २७३ ।।
पौरुहन्मनम्
यत इन्द्र भयामहे ततो नो अभयं कृधि ।
मघवञ्छग्धि तव तन्न ऊतये वि द्विषो वि मृधो जहि ।। २७४ ।।
वास्तोष्पते ध्रुवा स्थूणां सत्रं सोम्यानां ।
द्रप्सः पुरां भेत्ता शश्वतीनामिन्द्रो मुनीनां सखा ।। २७५ ।।
बण्महां असि सूर्य बडादित्य महां असि ।
महस्ते सतो महिमा पनिष्टम मह्ना देव महां असि ।। २७६ ।।
अश्वी रथी सुरूप इद्गोमां यदिन्द्र ते सखा ।
श्वात्रभाजा वयसा सचते सदा चन्द्रैर्याति सभामुप ।। २७७ ।।
यद्द्याव इन्द्र ते शतं शतं भूमीरुत स्युः ।
न त्वा वज्रिन्त्सहस्रं सूर्या अनु न जातमष्ट रोदसी ।। २७८ ।।
वैरूपाणि
यदिन्द्र प्रागपागुदग्न्यग्वा हूयसे नृभिः ।
सिमा पुरू नृषूतो अस्यानवेऽसि प्रशर्ध तुर्वशे ।। २७९ ।।
कस्तमिन्द्र त्वा वसवा मर्त्यो दधर्षति ।
श्रद्धा हि ते मघवन्पार्ये दिवि वाजी वाजं सिषासति ।। २८० ।।
कौमुदः
इन्द्राग्नी अपादियं पूर्वागात्पद्वतीभ्यः ।
हित्वा शिरो जिह्वया रारपच्चरत्त्रिंशत्पदा न्यक्रमीत् ।।२८१ ।।
इन्द्र नेदीय एदिहि मितमेधाभिरूतिभिः ।
आ शं तम शं तमाभिरभिष्टिभिरा स्वापे स्वापिभिः ।। २८२ ।।