प्रमुखा विकल्पसूचिः उद्घाट्यताम्

सामवेदः/कौथुमीया/संहिता/पूर्वार्चिकः/छन्द आर्चिकः/1.1.4 चतुर्थप्रपाठकः/1.1.4.2 द्वितीया दशतिः

प्रत्यु अदर्श्यायत्यू३छ् छन्ती दुहिता दिवः |
अपो मही वृणुते चक्षुषा तमो ज्योतिष्कृणोति सूनरि || ३०३ ||

१अ
१छ्

इमा उ वां दिविष्टय उस्रा हवन्ते अश्विना |
अयं वामह्वेऽवसे शचीवसू विशंविशं हि गच्छथः || ३०४ ||

२अ
२छ्

कु ष्ठः को वामश्विना तपानो देवा मर्त्यः |
घ्नता वामश्मया क्षपमाणोंशुनेत्थमु आदुन्यथा || ३०५ ||

३अ
३छ्

अयं वां मधुमत्तमः सुतः सोमो दिविष्टिषु |
तमश्विना पिबतं तिरो अह्न्यं धत्तं रत्नानि दाशुषे || ३०६ ||

४अ
४छ्

आ त्वा सोमस्य गल्दया सदा याचन्नहं ज्या |
भूर्णिं मृगं न सवनेषु चुक्रुधं क ईशानं न याचिषत् ||३०७ ||

५अ
५छ्

अध्वर्यो द्रावया त्वं सोममिन्द्रः पिपासति |
उपो नूनं युयुजे वृष्णा हरी आ च जगाम वृत्रहा || ३०८ ||

६अ
६छ्

अभी षतस्तदा भरेन्द्र ज्यायः कनीयसः |
पुरूवसुर्हि मघवन्बभूविथ भरेभरे च हव्यः || ३०९ ||

७अ
७छ्

यदिन्द्र यावतस्त्वमेतावदहमीशीय |
स्तोतारमिद्दधिषे रदावसो न पापत्वाय रंसिषं || ३१० ||

८अ
८छ्

त्वमिन्द्र प्रतूर्तिष्वभि विश्वा असि स्पृधः |
अशस्तिहा जनिता वृत्रतूरसि त्वं तूर्य तरुष्यतः || ३११ ||

९अ
९छ्

प्र यो रिरिक्ष ओजसा दिवः सदोभ्यस्परि |
न त्वा विव्याच रज इन्द्र पार्थिवमति विश्वं ववक्षिथ || ३१२ ||

१०अ
१०छ्