प्रमुखा विकल्पसूचिः उद्घाट्यताम्

सामवेदः/कौथुमीया/संहिता/पूर्वार्चिकः/छन्द आर्चिकः/1.1.4 चतुर्थप्रपाठकः/1.1.4.8 अष्टमी दशतिः

प्रप्र वस्त्रिष्टुभमिषं वन्दद्वीरायेन्दवे |
धिया वो मेधसातये पुरन्ध्या विवासति || ३६० ||

१अ
१छ्

कश्यपस्य स्वर्विदो यावाहुः सयुजाविति |
ययोर्विश्वमपि व्रतं यज्ञं धीरा निचाय्य || ३६१ ||

२अ
२छ्

अर्चत प्रार्चता नरः प्रियमेधासो अर्चत |
अर्चन्तु पुत्रका उत पुरमिद्धृष्ण्वर्चत || ३६२ ||

३अ
३छ्

उक्थमिन्द्राय शंस्यं वर्धनं पुरुनिःषिधे |
शक्रो यथा सुतेषु नो रारणत्सख्येषु च || ३६३ ||

४अ
४छ्

विश्वानरस्य वस्पतिमनानतस्य शवसः |
एवैश्च चर्षणीनामूती हुवे रथानां || ३६४ ||

५अ
५छ्

स घा यस्ते दिवो नरो धिया मर्तस्य शमतः |
ऊती स बृहतो दिवो द्विषो अंहो न तरति || ३६५ ||

६अ
६छ्

विभोष्ट इन्द्र राधसो विभ्वी रातिः शतक्रतो |
अथा नो विश्वचर्षणे द्युम्नं सुदत्र मंहय || ३६६ ||

७अ
७छ्

वयश्चित्ते पतत्रिणो द्विपाच्चतुष्पादर्जुनि |
उषः प्रारन्नृतूंरनु दिवो अन्तेभ्यस्परि || ३६७ ||

८अ
८छ्

अमी ये देवा स्थन मध्य आ रोचने दिवः |
कद्व ऋतं कदमृतं का प्रत्ना व आहुतिः || ३६८ ||

९अ
९छ्

ऋचं साम यजामहे याभ्यां कर्माणि कृण्वते |
वि ते सदसि राजतो यज्ञं देवेषु वक्षतः || ३६९ ||

१०अ
१०छ्