प्रमुखा विकल्पसूचिः उद्घाट्यताम्

सामवेदः/कौथुमीया/संहिता/पूर्वार्चिकः/छन्द आर्चिकः/1.1.5 पञ्चमप्रपाठकः/1.1.5.5 पञ्चमी दशतिः


परि प्र धन्वेन्द्राय सोम स्वादुर्मित्राय पूष्णे भगाय || ४२७ ||

t>
१अ

पर्यू षु प्र धन्व वाजसातये परि वृत्राणि सक्षणिः |
द्विषस्तरध्या ऋणया न ईरसे || ४२८ ||

२अ
२छ्

पवस्व सोम महान्त्समुद्रः पिता देवानां विश्वाभि धाम || ४२९ ||

३अ

पवस्व सोम महे दक्षायाश्वो न निक्तो वाजी धनाय || ४३० ||

४अ

इन्दुः पविष्ट चारुर्मदायापामुपस्थे कविर्भगाय || ४३१ ||

५अ

अनु हि त्वा सुतं सोम मदामसि महे समर्यराज्ये |
वाजां अभि पवमान प्र गाहसे || ४३२ ||

६अ
६छ्

क ईं व्यक्ता नरः सनीडा रुद्रस्य मर्या अथ स्वश्वाः || ४३३ ||

७अ

अग्ने तमद्याश्वं न स्तोमैः क्रतुं न भद्रं हृदिस्पृशं |
ऋध्यामा त ओहैः || ४३४ ||

८अ
८छ्

आविर्मर्या आ वाजं वाजिनो अग्मं देवस्य सवितुः सवं |
स्वर्गां अर्वन्तो जयत || ४३५ ||

९अ
९छ्

पवस्व सोम द्युम्नी सुधारो महां अवीनामनुपूर्व्यः || ४३६ ||

१०अ